SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः-७ ४९७ १८ द्विकमुत्तरफाल्गुन्याः १९ पञ्चकं हस्तस्य २० एकश्चित्रायाः २१ एककः स्वातेः २२ पञ्च विशाखायाः २३ चत्वारः अनुराधायाः २४ त्रिकं ज्येष्ठायाः २५ चैवशब्दः पूर्ववत् एकादशकं मूलस्य २६ चतुष्कं पूर्वाषाढायाः २७ चतुष्कमुत्तराषाढायाः २८चैवेति तथैव ताराग्रमिति। तारासङ्ख्याकथनप्रयोजनंच यन्नक्षत्रंयावत्तारासंख्यापरिमाणकंभवति तत्संख्याको तिथि शुभकार्ये वर्जयेत्, शतभिषगरेवत्योस्तु क्रमेण शतस्य द्वात्रिंशतश्च तिथिभिर्भागे हते यदवशिष्टं तप्रमाणा तिथिर्वर्जनीयेति । अथ गोत्रद्वारम्-इहनक्षत्रणां स्वरूपतो न गोत्रसम्भवः, यत इदं गोत्रस्य स्वरूपं लोके प्रसिद्धिमुपागमत्-प्रकाशकाद्यपुरुषाभिधानस्तदपत्यसन्तानो गोत्रं, यथा गर्गस्यापत्यसन्तानो गर्गाभिधानो गोत्रमिति, न चैवंस्वरूपं नक्षत्राणां गोत्रं सम्भवति, तेषामौपपातिकत्वात्, तत इत्थं गोत्रसम्भवो द्रष्टव्यो-यस्मिनक्षत्रेशुभैरशुभैर्वा ग्रहः समानं यस्य गोत्रस्य यथाक्रमं शुभमशुभंवा भवति तत्तस्य गोत्रं, ततः प्रश्नोपपत्ति, तत्सूत्रम् मू. (३१०) एतेसि णं भंते ! अट्ठावीसाए नक्खत्ताणं अमिई नक्खत्ते किंगोते पं०?, गो० ! मोग्गलायणसगोत्ते, गाथा वृ. एतेसिण'मित्यादि, एतेषामष्टाविंशतेर्नक्षत्राणांमध्ये भदन्त ! अभिजिन्नक्षत्रं किंगोत्रं प्रज्ञप्तम् ?, गौतम! मोद्गल्यायनैः-मौद्गल्यगोत्रीयैः सगोत्रं-समानगोत्रं मोद्गल्यायनगोत्रमित्यर्थः-, एवमग्रेऽपि ज्ञेयं, अथाऽभिजितः प्रारभ्य लाघवार्थमत्र गाथा इति, ताश्चेमाःमू. (३११) मोग्गलायण १ संखायणे २ अतह अग्गभाव ३ कण्णिले ४। तत्तो अजाउकण्णे ५धनंजए ६ चेव बोद्धब्बे॥ मू. (३१२)पुस्सायणे ७ अ अस्सायणे अ८ भग्गवेसे ९ अ अग्गिवेसे १० अ। गोअम ११ भारदाए १२ लोहिच्चे १३ चेव वासिढे १४॥ मू. (३१३)ओमञ्जायण १५ मंडब्बायणे १६ अपिंगायणे १७ अ गोवल्ले १८ कासव १९ कोसिय २० दब्मा २१ य चामरच्छाय २२ सुंगा य २३॥ मू. (३१४) गोवल्लायण २४ तेगिच्छायणे २५ अ कच्चायणे २६हवइ मूले। ततो बझिआयण २७ वग्धावचे अगोत्ताई २८॥ वृ. 'मोग्गलायण'मित्यादि, मौद्गल्यायनं १ साङ्ख्यायनं २ तथा अग्रभावं ३ 'कण्णिल्ल मित्यत्रपदैकदेशे पदसमुदायोपचारात्कण्णिलायनमितिगाॉ४, ततश्च जातुकर्णं ५धनञ्जयं ६चैवशब्दः समुच्चयेबोद्धव्यम् पुष्यायनं७चः समुच्चये आश्वायनंच ८ मार्गवेशंच ९अग्निवेश्यं च १० गौतमं ११ भारद्वाजं १२ लौहित्यं चैवेति अत्रापि पूर्ववदुपचारे लौहित्यायनं १३ वासिष्टं १४अवमज्जायनं १५ माण्डव्यायनंच १६ पिङ्गायनंच १७ गोवल्लमित्यत्रापिपदैकदेशेपदसमुदायापचारात् गोवल्लायनं १८ काश्यपं १९ कौशिकं २० दार्भायनं २१ चामरच्छायनं २२ शुङ्गायनं २३त्रिष्वेषुणकारलोपः प्राकृतशैलीप्रभवः गोलव्यायनं २४ चिकित्सायनं २५ कात्यायनं भवति मूले २६ ततश्च वज्झियायणनामकं बाभ्रव्यायनं २७ व्याघ्रापत्य २८ चेति गोत्राणि । मू. (३१५) एतेसिणं भंते ! अट्ठावीसाए नक्खत्ताणं अभिईनक्खत्ते किंसंठिए पन्नते गोअमा! गोसीसावलिसंठिए पं०, गाहा| 1332 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy