SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः-७ ५०१ वृ तथा तिन उत्तराः-उत्तरभद्रपदाउत्तरफाल्गुनी उत्तराषाढाइत्येवंरूपाः पुनर्वसूरोहिणी विशाखा च एतानि षट् नक्षत्राणि सूर्येण समं व्रजन्ति मुहूर्तान्त्रीण्येव विंशतिं चाहोरात्रानिति, तद्यथा-एतानि षट् नक्षत्राणि चन्द्रेण समं सप्तषष्टिभागानां शतमेकमेकस्य च भागस्याड़मेकं प्रत्येकं व्रजनति, ततः एतावतः पञ्चभागानहोरात्रस्य सूर्येण समं व्रजनमवगन्तव्यम्, तेन शतस्यपञ्चभिर्भागे हते लब्धा विंशतिरहोरात्राः, यदद्ध तत् त्रिंशता गुण्यतेजातास्त्रिंशत् तस्या दशभिर्भागे हते लब्धास्त्रयो मुहूर्ता इति । मू. (३२८) अवसेसा नक्खत्ता पन्नरसवि सूरसहगया जंति। बारस चेव मुहुत्ते तेरस य समे अहोरते॥ पृ. तथा अवशेषाणि-श्रवणधनिष्ठापूर्वभद्रपदारेवत्यश्विनीकृत्तिकामृगशिरःपुष्यमघापूर्वफल्गुनीहस्तचित्राअनुराधामूलपूर्वाषाढारूपाणि नक्षत्राणिपञ्चदशापिसूर्येण सहगतानियान्ति द्वादशैव मुहूर्तान् त्रयोदश च समान्-परिपूर्णाहोरात्रानिति, तद्यथा-एतानि परिपूर्णान् सप्तषष्टिभागान् चन्द्रेण समंव्रजन्ति, ततः सूर्येण सह तानि पञ्चभागान् अहोरात्रस्यसप्तषष्टिसंख्यान् गच्छंति, सप्तषष्टेश्च पञ्चभिर्भागे हृतेलब्धास्त्रयोदशअहोरात्राः शेषौ द्वौ भागौ तौ त्रिंशता गुण्येते जाताषष्टिः तस्याः पञ्चभिर्भागे हृते लब्याद्वादश मुहूर्ता इति, अत्र चप्रसङ्गसङ्गत्या सूर्ययोगदर्शनतश्चन्द्रयोगपरिमाणं यथा जायते तथा दर्श्यते ज्योतिष्करण्डोक्तं॥१॥ नक्खत्तसूरजोगो मुहुत्तरासीकओ अपञ्चगुणा । सत्तट्ठीएविभत्तो लद्धो चन्दस्स सो जोगो॥ नक्षत्राणां अर्द्धक्षेत्रादीनांयः सूर्येण सहयोगः समुहूर्तराशीक्रियते कृत्वाच पञ्चभिर्गुण्यते ततःसप्तषष्ट्या मागेहृते सति यल्लब्धंस चन्द्रस्य योगः, इयमत्रभावना-कोऽपि शिष्यः पृच्छति, यत्र सूर्य षदिवसान् एकविंशतिंच मुहूर्तान् अवतिष्ठते तत्रचन्द्रः कियन्तं कालं तिष्ठतीति, तत्र मुहूर्तराशिकरणार्थंदिवसास्त्रिंशता गुण्यन्ते गुणयित्वा चोपरितना एकविंशतिर्मुहूर्ताप्रक्षिप्यन्ते जाते द्वे शते एकोत्तरे, ते पञ्चभिर्गुण्यन्ते, जातं पञ्चोत्तरं सहस्र, तस्य सप्तषष्ट्या भागे हते लब्धाः पञ्चदश मुहूर्ताः, एतावानर्द्धक्षेत्राणां प्रत्येकं चन्द्रेण समं योगः। एवंसमक्षेत्राणांद्व्यर्द्धक्षेत्राणामभिजितश्च चन्द्रेण समंयोगो ज्ञेय इति।अथ कुलद्वारम् मू. (३२९) कति णं भंते ! कुला कति उवकुला कति कुलोवकुला पन्नता?, गो०! बारस कुला बारस उवकुला चत्तारि कुलोचकुला पन्नत्ता, बारस कुला, तंजहा-घनिट्ठाकुलं १ उत्तरभद्दवयाकुलं २ अस्सिणीकुलं ३ कत्तियाकुलं ४ मिगसिरकुलं ५ पुस्सो कुलं ६ मघाकुलं ७ उत्तरफग्गुणीकुलं ८ चित्ताकुलं ९ विसाहाकुलं १० मूलो कुलं ११ उत्तरासाढाकुलं १२/ वृ. 'कतिणं भंते! कुला' इत्यादि, कति भदन्त! कुलानि कुलसंज्ञकानि नक्षत्राणि तथा कति उपकुलानि तथा कति कुलोपकुलानि प्रज्ञप्तानि ?, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात्, भगवानाह-गौतम ! द्वादश कुलानि द्वादश उपकुलानि चत्वारि कुलोपकुलानि प्रज्ञप्तानि, तत्र द्वादश कुलानि, तद्यथा-धनिष्ठा कुलं उत्तरभद्रपदा कुलं अश्विनी कुलं कृत्तिका कुलं मृगशिरः कुलं पुष्यः कुलं मधा कुलं उत्तरफल्गुनी कुलं चित्रा कुलं विशाखा कुलं मूलः कुलं उत्तराषाढा कुलं, अथ किं कुलादीनां लक्षणं?, उच्यते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy