SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः-७ ४८७ वृ. अथामिवर्द्धितः-'आइच्च'इत्यादि, यस्मिन् संवत्सरे क्षणलवदिवसा ऋतव आदित्यतेजसा कृत्वाअतीवतप्ताः परिणमन्ति, यश्च सर्वाण्यपि निम्नस्थानानि स्थलानिचजलेन पूरयति तं संवत्सरे जानीहि यथा तं संवत्सरमभिवर्द्धितमाहुः पूर्वर्षय इति। म. (२८४) सनिच्छरसंवच्छरेणं भंते ! कतिविहे प०गो० अट्टाविसइविहे प० तं० -जावउत्तराओआसाढाओवासणिचरे महग्गहे तीसाएसंवछरेहिंसव्वंनंक्खत्तमंडलं समाणेइ सेतं सणिचरसंवच्छरे। मू. (२८५) अभिई सवणे धनिट्ठा सयमिसया दो अ होतिं भद्दवया। रेवइ अस्सिणि भरणी कत्तिअ तह रोहिणी वेव।। इ.सम्प्रति शनैश्चरसंवत्सरप्रश्नमाह-'सणिच्छर'इत्यादि, शनैश्चरसंवत्सरो भदन्त ! कतिविधः प्रज्ञप्तः ?, गौतम! अष्टाविंशतिविधः प्रज्ञप्तः, तद्यथा- अभिजिच्छनैश्चरसंवत्सरः श्रवणशनैश्चरसंवत्सरःधनिष्ठाशनैश्चरसंवत्सरः भरणीशनैश्चर-संवत्सरः कृत्तिकाशनैश्चरसंवत्सरः रोहिणीश० सं० यावत्पदात् मृगशिरःशनैश्चरसंवत्सर इत्यादि ग्राह्यं। अन्तेचोत्तराषाढाशनैश्चरसंवत्सरः, तत्रयस्मिन्संवत्सरे अभिजितानक्षत्रेण सह शनैश्चरो योगमुपादत्ते सोऽभिजिच्छनैश्चरसंवत्सरः श्रवणेन सह यस्मिन् संवत्सरे योगमुपादत्ते स श्रवणशनैश्चरसंवत्सरः, एवं सर्वत्र भावनीयं, अथवा शनैश्चरो महाग्रहस्त्रिंशता संवत्सरैः सर्वनक्षत्रमण्डलमभिजिदादिकं समापयति एतावान् कालविशेषः त्रिंशद्वर्षप्रमाणः शनैश्चरसंवत्सर इति। उक्ताः संवत्सराः, अर्थतेषु कति मासा भवन्तीति पृच्छन्नाह मू. (२८६) एगमेगस्स णं भंते ! संवच्छरस्स कइ मासा पन्नत्ता?, गोअमा! दुवालस मासा पन्नता, तेसि णं दुविहा नामधेजा पं० तं०-लोइआ लोउत्तरिआ य, तत्त लोइआ नामा इमे, तं०-सावणे भद्दवए जाव आसाढे, लोउत्तरिआ नामा इमे, तंजहा वृ.एकैकस्य भदन्त! संवत्सरस्य कतिमासाः प्रज्ञप्ताः?, गौतम! द्वादशमासाः प्रज्ञप्ताः, तेषां द्विविधानि नामधेयानि प्रज्ञप्तानि, तद्यथा-लौकिकानि लोकोत्तराणि च, तत्र लोकः-- प्रवचनबाह्यो जनस्तेषुप्रसिद्धत्वेन तत्सम्बन्धीनि लौकिकानिलोकः प्रागुक्त एव तस्मात्सम्यग्ज्ञानादिगुणयुक्तत्वेन उत्तराः प्रधानाः लोकोत्तराः-जैनास्तेषु प्रसिद्धत्वेन तत्सम्बन्धीनिलोकोत्तराणि, अत्र वृद्धिविधानस्य वैकल्पिकत्वेन यथाश्रुतरूपसिद्धिः, तत्र लौकिकानि नामान्यमूनि, तद्यथाश्रावणोभाद्रपदः यावत्करणात् आश्वयुजः कार्तिको मार्गशीर्ष पौषो माघः फाल्गुनश्चैत्रः वैशाखो ज्येष्ठ आषाढ इति,लोकोत्तराणि नामान्यमूनी, तद्यथामू. (२८७) अमिनंदिए पइढे अ, विजए पीइबद्धणे। सेअंसे य सिवे चेव, सिसरे असहेमवं॥ मू. (२८८) नवमे वसंतमासे, दसमे कुसुमसंभवे। एक्कारसे निदाहे अ, वनविरोहे अबारसमे॥ वृ-प्रथमः श्रावणोऽभिनन्दितोद्वितीयः प्रतिष्ठितस्तृतीयोविजयः चतुर्थप्रतिवर्द्धनः पञ्चमः श्रेयान् षष्ठः शिवः सप्तमः शिशिरः अष्टमः हिमवान्, सूत्रे च पदपूरणाय सहशब्देन समासः तेन हिमवता सह शिशिर इत्यागतं शिशिरः हिमवांश्चेति नवमो वसन्तमासः दशमः कुसुमसम्भवः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy