________________
४८६
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/२७९ नचुण्ह नाइसीओ बहूइओ होइ नखते ॥ वृ. समकंसमतया नक्षत्राणि-कृत्तिकादीनि योग-कार्तिकीपूर्णिमास्यादितिथिमि सह सम्बन्धंयोजयन्ति कुर्वन्तीत्यर्थः, इदमुक्तं भवति-यानिनक्षत्राणियासुतिथिषत्सर्गतोभवन्ति-यथा कार्तिक्या कृत्तिकास्तानि तास्वेव यत्र भवन्ति, यथोक्तम्॥१॥ "जेठो वच्चइ मूलेण, सावणो धनिहाहि ।
अद्दासु अमग्गसिरो, सेसा नक्खत्तनामिआ मास ।।"त्ति । तथायत्रसमतयैव ऋतवः परिणमन्तिनविषमतया, कार्तिक्याअनन्तरंहेमन्तु पौष्याः अनन्तरं शिशिरतरित्येवमवतरन्तीतिभावः, यश्च संवत्सरोनात्युष्णः नातिशीतः तथा चबहूदकः सच भवति लक्षणतो निष्पन्न इति नक्षत्रचारलक्षणलक्षितत्वात् नक्षत्रसंवत्सर इति, अत्रगाथाच्छन्दसि प्रथमार्द्ध मात्राया आधिक्यमप्यार्षत्वादस्य न दुष्टं, न ह्याणि छन्दांसि सर्वाणि व्यक्त्या वक्तुं शक्यानि, किञ्च यथादर्शनमनुसतव्यानि, एवमन्यत्रापि ज्ञेयमिति । मू. (२८०) ससि समगपुण्णमासिंजोएती विसमचारिनक्खता।
बहुदओ आ तमाहु संवच्छरं चंदं ।। वृ. अथ चन्द्र 'ससि समग इत्यादि, विभक्तिलोपात् राशिना समकं योगमुपगतानि विषमचारीणि-मासविसध्शनामकानि नक्षत्राणि तांतांपौर्णमासीं-मासान्ततिथिं योजनन्तिपरिसमापयन्ति यस्मित्रिति गम्यं, यश्च कटुकः-शीतातपरोगादिदोषबहुलतया परिणामदारुणो बहूदकः, चस्य दीर्घत्वंप्राकृतत्वात, तमाहुमहर्षयश्चान्द्र-चन्द्रसम्बन्धिनं चन्द्रानुरोधात्तत्र मासानां परिसमाप्तेः, न माससध्शनामकनक्षत्रानुरोधतः। • भू. (२८१) विसमं पवालिणो परिणमंति अणुऊसु दिति पुप्फफलं। -
वासं न सम्म वासइ तमाहु संवच्छरं कम्मं ।। वृ.अथ कर्माख्यः-'विसम'मित्यादि, यस्मिन् संवत्सरे वनस्पतयो विषम-विषमकालं प्रवालिनः परिणमन्ति-प्रवालाः-पल्लवाकुरास्तधुक्ततया परिणमन्ति, तथा अनृतुष्वपि-स्वस्वऋत्वभावेऽपपुष्पंच फलं च ददति, अकाले पल्लवान् अकाले पुष्पफलानि दघते इत्यर्थः तथा वर्ष-वृष्टिं न सम्यग् वर्षति-करोति मेघ इति तमाहुः-संवत्सरं कर्माख्यं । मू. (२८२) पुढविदगाणं च रसं पुप्फफलाणं च देइ आइयो।
अप्पेणवि वासेणं सम्मं निफजए सस्सं॥ वृ.अथ सौर:-'पुढवि' इत्यादि, पृथिव्याउदकस्य च तथा पुष्पाणां फलानांचरसमादित्यः-- आदित्यसंवत्सरो ददाति, तथा अल्पेनापि-स्तोकेनापि वर्षेण-दृष्टया शस्यं निष्पद्यतेअन्तर्भूतण्यर्थत्वात् शस्यनिष्पादयतिकिमुक्तंभवति?-यस्मिन्संवत्सरेपृथिवीतथाविधोदकसम्पर्कादतीव सरसा भवतिउदकमपिपरिणामसुन्दरसोपेतं परिणमतिपुष्पानां च मधूकादिसम्बन्धिनांफलानां च-आम्रफलादीनांरसः प्रचुरोभवति, स्तोकेनापिवर्षेण धान्यं सर्वत्र सम्यक् निष्पद्यते तमादित्यसंवत्सरं पूर्वर्षय उपदिशन्ति। मू. (२.८३) आइन्चतेअतविआ खणलवदिवसा उऊ परिणमंति।
पूरेइ अनिन्नथले तमाहु अभिवद्धिअंजाण ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org