SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः-७ ४८५ इत्युच्यते। इह किलामिवर्द्धितसंवत्सरस्यत्रयोदशचन्द्रमासमानस्य दिनप्रमाणंत्र्यशीत्यधिकानित्रीणि शतानि चतुश्चत्वारिंशच द्वाषष्टिभागाः, कथमिति चेत्, उच्यते-चन्द्रमासमानं दिन २९ । एतद्रूपंत्रयोदशभिर्गुण्यतेजातानिसप्तसप्तत्युत्तराणि त्रीणि त्रीणिशतानि दिनानां, षोडशोत्तराणि चत्वारि शतानि चांशानां ते च दिनस्य द्वाषष्टिभागास्ततो दिनानयनार्थं द्वाषष्ट्या भागो हियते, लब्धानि षड् दिनानि, तानिच पूर्वोक्तदिनेषु मील्यन्तेजातानि त्रीणि शतानि त्र्यशीत्यधिकानि दिनानांचतुश्चत्वारिंशच्च द्वाषष्टिभागाः,ततोवर्षेद्वादशमासा (इति मासा) नयनाय द्वादशभिर्भागो ह्रियतेलब्या एकत्रिंशदहोरात्राः,शेषास्तिष्ठन्त्यहोरात्राएकादश, तेच द्वादशानां भागंन प्रयच्छति तेन यदि एकादश चतुश्चत्वारिंशद् द्वाषष्टिभागमीलनार्थं द्वाषष्ट्या गुण्यन्ते तदा पूर्णो राशिन त्रुटयति शेषस्यविद्यमानत्वात्,तेन सूक्ष्मेक्षिकाद्विगुणीकृतयाद्वाषष्ट्याचतुर्विंशत्यधिकशतरूपया एकादश गुण्यन्ते जाते १३६४ चतुश्चत्वारिंशद् द्वाषष्टिभागा अपि सवर्णनाथ द्विगुणीक्रियन्ते कृत्वा च मूलराशौ प्रक्षिप्यन्ते जातं १४५२, एषां द्वादशभिर्भागे हृते लब्धमेकविंशत्युत्तरं शतं चतुर्विंशत्युत्तरशतभागानां, एतावदभिवद्धितमासप्रमाणं । नाक्षत्रादिसंवत्सरमानं,सएष प्रमाणसंवत्सरइति निगमनवाक्यं, एषांचमध्येऋतुमासऋतुसंवत्रावेव लोकैः पुत्रवृद्धिकलान्तरवृद्धयादिषु व्यवहियेते, निरंशकत्वेन सुबोधत्वात्, यदाह॥१॥ “कम्मो निरंसयाए मासो ववहारकारगो लोए। सेसाउ संसयाए ववहारे दुक्कराधेत्तु ॥" । अत्र व्याख्या-आदित्यादिसंवत्सरमासानांमध्ये कर्मसंवत्सरसम्बन्धी मासोनिरंशतयापूर्णत्रिंशदहोरात्रप्रमाणतया लोकव्यवहारकारकःस्यात, शेषास्तुसूर्यादयोव्यवहारेग्रहीतुंदुष्कराः साशंतया न व्यवहारपथमवतरन्तीति, निरंशता चैवं-षष्टि पलानिधटिका ते च द्वे मुहूर्तेः तेच त्रिंशदहोरात्रः ते च पञ्चदश पक्षः तौ द्वौ मासः ते च द्वादश संवत्सर इति, शास्त्रवेदिभिस्तु सर्वेऽपि मासाः स्वस्वकार्येषु नियोजिताः, तथाहि-अत्र नक्षत्रमासप्रयोजनं सम्प्रदायगम्यं । ॥१॥ “वैशाखे श्रावणे मार्गे, पौषे फाल्गुन एव हि। कुर्वीत वास्तुप्रारम्भ, न तु शेषेषु सप्तसु॥" इत्यादौ चन्द्रमासस्य प्रयोजनं, ऋतुमासस्यतुपूर्वमुक्तं, 'जीवेसिंहस्थेधन्विमीनस्थितेऽर्के, विष्णौनिद्राणेचाधिमासे न लग्न इत्यादौ तुसूर्यमासाभिवर्द्धितमासयोरिति, पूर्वं नक्षत्रसंवत्सरादयः स्वरूपतो निरूपिताः अत्रतु दिनमानानयनादिप्रमाणकरणेन विशेषेण निरूपिता इति न पौनरुक्त्यं विभाव्यात, निशीथभाष्यकाराशयेन 'नक्षत्रचन्द्रर्तुसूर्याभिवर्द्धितरूपकंमासपञ्चकंतदद्वादशगुणः संवत्सर इति संवत्सरपञ्चकमेव युक्तिमत, अन्यथा उद्देशाधिकारे नक्षत्रसंवत्सरोद्देशकरणं युगसंवत्सराधिकारे चन्द्राभिवर्द्धितयोरुद्देशकरणं पुनः प्रमाणसंवत्सराधिकारे तेषामेव प्रमाणकरणमित्यादिकं गुरवे गौरवाय भवति, यत्तु स्थानाङ्गचन्द्रप्रज्ञप्त्यादावत्र चोपाङ्गे इत्थं संवत्सरपञ्चकवर्णनं तद् बहुश्रुतगम्यम् । अथ लक्षणसंवत्सरप्रश्नमाह- लक्षणसंवत्सरो भदन्त कतिविधः प्रज्ञप्तः?, गौ० पंचविधः प्रज्ञप्तः, नक्षत्रादिभेदात्, तद्यथा मू. (२७९) “समयं नक्खत्ता जोगंजोअंति समयं उऊ परिणामंति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy