________________
४८४
मासातिक्रमे द्वितीयोऽधिकमासो भवति, उक्तं च
॥ १ ॥
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ७ / २७८
"सट्ठीए अइआए हवइ हु अहिमासगो जुगद्धमि । बावीसे पव्वस हवइ अ बीओ जुगतंमि ॥"
अस्याप्यक्षरगमनिका - एकस्मिन् युगे - अनन्तरोदितस्वरूपे पर्वणां - पक्षाणां षष्ठी अतीतायां षष्ठिसङ्घयेषु पक्षेष्वतिक्रान्तेषु इत्यर्थः एतस्मिन् अवसरे युगार्द्धे--युगार्द्धप्रमाणे एकोऽधिकमासो भवति, द्वितीयस्त्वधिकमासो द्वाविंशेद्वाविंशत्यधि पर्वशते- पक्षशतेऽतिक्रान्ते युगस्यान्ते - युगस्य पर्यवसाने भवति, तेन युगमध्ये तृतीये संवत्सरेऽधिक मासः पञ्चमे वेति द्वौ युगेऽभिवर्द्धितसंवत्सरी, यद्यपि सूर्यवर्षपंचकात्मके युगे चन्द्रमासद्वयवन्नक्षत्रमासाधिक्यसम्भवस्तथापि नक्षत्रमासस्य लोके व्यवहाराविषयत्वात्, कोऽर्थः ? - यथा चन्द्रमासोलोके विशेषतो यवनादिभिश्च व्यवहियते तथा न नक्षत्रमास इति एतेषां च नक्षत्रादिसंवत्सराणां मासदिनमानानयनादि प्रमाणसंवत्सराधिकारे वक्ष्यते । एते च चन्द्रादयः पञ्च युगसंवत्सराः पर्व्वभिः पूर्यन्ते इति तानि कति प्रतिवर्षं भवन्तीति पृच्छन्नाह
प्रथमस्य - युगादौ प्रवृत्तस्य भगवन् ! चन्द्रसंवत्सरस्य कति पर्वाणि - पक्षरूपाणि प्रज्ञप्तानि ?, गौ० ! चतुर्विंशति पर्वाणि, द्वादशमासात्मके नास्य प्रतिमासं पर्वद्वयसम्भवात्, द्वितीयस्य चतुर्थस्य च प्रश्नसूत्रे एवमेव, अभिवर्धितसंवत्सरसूत्रे षड्विंशति पर्वाणि तस्य त्रयोदश चन्द्रमासात्मके न प्रतिमासं पर्वद्वयसम्भवात्, एवमन्योऽभिवर्द्धितोऽपि, एवमेव पूर्वापरमीलनेन चतुर्विंशं पर्वशतं भवतीत्याख्यातम् ।
अथ तृतीयः - 'पमाणसंवच्छ रे' इत्यादि, प्रमाणसंवत्सरः कतिविधः प्रज्ञप्तः ?, गौतम ! पंचविधः प्रज्ञप्तः, तद्यथा - नाक्षत्रं चान्द्रः ऋतुसंवत्सरः आदित्यः अभिवर्धितश्च, अत्र नक्षत्रचन्द्राभिवर्द्धिताख्याः स्वरूपतः प्रागभिहिताः, ऋतवो-लोकप्रसिद्धा वसन्तादयः तदव्यवहारहेतुः संवत्सरः ऋतुसंवत्सरः, ग्रन्थान्तरे चास्य नाम सावनसंवत्सरः कर्मसंवत्सरश्चेति, आदित्यचारेण दक्षिणोत्तरायणाभ्यां निष्पन्नः आदित्यसंवत्सरः ।
प्रमाणप्रधानत्वादस्य संवत्सरस्य प्रमाणमेवाभिधीयते, तस्य च मासप्रमाणाधीनत्वादादी मासप्रमाणं, तथाहि - इह किल चन्द्रचन्द्राभिर्वर्द्धितचन्द्राभिवर्द्धितनामकसंवत्सरपंचकप्रमाणे युगे अहोरात्रराशिस्त्रिंशदशशतप्रमाणो भवति, कथमेतदवसीयते इति चेत्, उच्यते, इह सूर्यस्य दक्षिणमुत्तरं वाऽयनं त्र्यशीत्यधिकदिनशतात्मकं युगे च पंच दक्षिणायनानि पंच चोत्तरायणानि इति सर्वसङ्घयया दशायनानि, ततस्त्रयशीत्यधिकं दिनशतं दशकेन गुण्यते इत्यागच्छति यथोक्ती दिनराशिः, एवंप्रमाणं दिनराशि स्थापयित्वा नक्षत्रचन्द्रऋत्वादिमासानां दिनानयनार्थं यथाक्रमं सप्तषष्ट्येकषष्टिषष्टिद्वाषष्टिलक्षणैर्भागहारैर्भागं हरेत्, ततो यथोक्तं नक्षत्रादिमासचतुष्कगतदिनपरिमाणमागच्छति, तथाहि - युगदिनराशि १८३० रूपः, अस्य सप्तषष्टिर्युगे मासा इति सप्तषष्ट्या भागो ह्रियते यल्लब्धं तन्नक्षत्रमासमानं तथाऽस्यै व युगदिनराशैः १८३० रूपस्य एकषष्टिर्युगे ऋतुमासा इति एकषष्ट्या भागहरणे लब्धं ऋतुमासमानं, तथा युगे सूर्यमासाः षष्टिरिति ध्रुवराशेः १८३० रूपस्य षष्ट्या भागहारे यल्लब्धं तत्सूर्यमासमानं, तथाऽभिवर्द्धिते वर्षे तृतीये पंचमेवा त्रयोदश चन्द्रमासा भवन्ति तद्वर्षं द्वादशभागीक्रियते तत एकैको भागोऽभिवर्द्धितमास
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org