________________
वक्षस्कारः -७
४८३
परिवर्तनतानिष्पन्न इत्युपचारतोमासोऽपि नक्षत्रं, सच द्वादशगुणोनक्षत्रसंवत्सरः, प्रमाणं- परिमाणं दिवसादीनां तेनोपलक्षितो वक्ष्यमाण एव नक्षत्रसंवत्सरादि प्रमाणसंवत्सरः, स एव लक्षणानां वक्ष्यमाणस्वरूपाणां प्रधानतया लक्षणसंवत्सरः, यावता कालेन शनैश्चरो नक्षत्रमेकमथवा द्वादशापि राशीन् भुङ्क्ते स शनैश्चरसंवत्सर इति ।
नामनिरुक्तमुक्त्वाऽथैतेषां भेदानाह - 'नक्खत्त' इत्यादि, नक्षत्रसंवत्सरो भगवन् ! कतिविधः प्रज्ञप्त ?, गौतम ! द्वादशविधः प्रज्ञप्तः, तद्यथा-श्रावणः भाद्रपदः आश्विनः यावत्पदात् कार्तिताकिदसंग्रहः, द्वादश आषाढः, अयं भावः -इह एकः समस्तनक्षत्रयोगपर्यायो द्वादशभिगुणितो नक्षत्रसंवत्सरः, ततो ये नक्षत्रसंवत्सरस्य पूरका द्वादशमस्तनक्षत्रयोगपर्यायाः श्रावणभाद्रपदादिनामानस्तेऽप्यवयवे समुदायोपचारात् नक्षत्रसंवत्सरः, ततः श्रावणादिद्वादशविधो नक्षत्रसंवत्सरः, वा इति पक्षान्तरसूचने, अथवा बृहस्पतिर्महाग्रहो द्वादशभि संवत्सरैः योगमधिकृत्य यत्सर्वं नक्षत्रमण्डलमभिजिदादीन्यष्टाविंशतिनक्षत्राणि परिसमापयति तावान् कालविशेषो द्वादशवर्षप्रमाणो नक्षत्रसंवत्सरः ।
अथ द्वितीयः 'जुगसंवच्छरे' इत्यादि, प्रश्नः प्रतीतः, उत्तरसूत्रे गौतम! युगसंवत्सरः पञ्चविधः प्रज्ञप्तः, तथाहि—चन्द्रश्चन्द्रोऽभिवर्धितश्चन्द्रोऽभिवर्द्धितश्च, चन्द्रे भवश्चान्द्रः, युगादौ श्रावणमासे बहुलपक्षप्रतिपदः आरभ्य यावत्पौर्णमासीपरिसमाप्तिस्तावत्कालप्रमाणश्चान्द्रो मासः, एकपूर्णिमासीपरावर्तश्चान्द्रो मास इतियावत्, अथवा चन्द्रनिष्पन्नत्वादुपचारतो मासोऽपि चन्द्रः, स च द्वादशगुणश्चन्द्रसंवत्सरः, चन्द्रमासनिष्पन्नत्वादिति, द्वितीयतुर्यावप्येवं व्युत्पत्तितोऽवगन्तव्यौ, तृतीयस्यु युगसंवत्सरोऽवर्द्धितो नाम मुख्यतस्त्रयोदशचन्द्रमासप्रमाणः संवत्सरो द्वादश [ चन्द्र ] मासप्रमाणः संवत्सर उपजायते, कियता कालेन सम्भवतीत्युच्यते- '
इह युगं चन्द्रचन्द्राभिवर्द्धितचन्द्राभिवर्द्धितरूपपश्ञ्चसंवत्सरात्मकं सूर्यसंवत्सरापेक्षया परिभाव्यमामन्यनातिरिक्तानि पंच वर्षाणि भवन्ति, सूर्यमासश्च सार्द्धत्रिंशदहोरात्रप्रमाणश्चन्द्रमासश्चैकोनत्रिंशद्दिनानि द्वात्रिंशच द्वाषष्टिर्भागा दिनस्य तत गणितसम्भावनया सूर्यसंवत्सरसत्कत्रिंशन्मासातिक्रमे एकश्चान्द्रमासोऽधिको लभ्यते, सच यथा लभ्यते तथा पूर्वाचार्यप्रदर्शितेयं
करणगाथा-
119 11
"चंदस्स जो विसेसो आइञ्च्चस्स य हविज मासस्स । तीसइगुणिओ संतो हवइ हु अहिमासगो इक्को ।”
अस्या अक्षरगमनिका - आदित्यसम्बन्धिनो मासस्य मध्यात् चन्द्रस्य-चन्द्रमासस्य यो भवति विश्लेषः, इह विश्लेषे कृते सति यदवशिष्यते तदप्युपचाराद्विश्लेषः, स त्रिंशता गुणितः सन् भवत्येकोऽधिकमासः, तत्र सूर्यमासपरिमाणात् सार्द्धत्रिंशदहोरात्ररूपाच्चन्द्रमासपरिमाणमेकोनत्रिंशद्दिनानि द्वात्रिंशच्च द्वाषष्टिभागा दिनस्येत्येवंरूपं शोध्यते ततः स्थितं पश्चाद्दिनमेकमेकेन द्वाषष्टिभागेन न्यूनं तच्च दिनं त्रिंशता गुण्यते जातानि त्रिंशद्दिनानि एकश्च द्वाषष्टिशद्दिनानि द्वात्रिंशच्च द्वाषष्टिभागादिनस्य द्वाषष्टिभागास्ते त्रिंशद्दिनेभ्यः शोध्यन्ते ततः स्थितानि शेषाणि एकोनत्रिंशद्दिनानि द्वात्रिंशच्च द्वाषष्टिभागा दिनस्य एतावत्परिमाणश्चन्द्रमास इति भवति सूर्यसंवत्सरसत्कत्रिशन्मासातिक्रमे एखोऽधिकमासो, युगे च सूर्यमासाः षष्टिः ततो भूयोऽपि सूर्यसंवत्सरसत्कत्रिंश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org