________________
वक्षस्कारः-७
४५५
शाभावरूपस्य तमसः संस्थानासंभवेन कुतस्तत्पृच्छौचितीमंचति?, उच्यते, नीलं शीतं बहलं तम इत्यादिपुदगलधर्माणामभ्रान्तसार्वजनीनव्यवहारसिद्धत्वेनास्य पौदगलिकत्वे सिद्ध संस्थानस्यापिसिद्धेः, यथा चास्यपौद्गलिकत्वंतथाऽन्यत्र पूर्वाचार्य सुचर्चितत्वान्नात्र विस्तारभिया चर्च्यते इति, ऊर्ध्वमुखकलम्बुकापुष्पसंस्थानसंस्थिता अन्धकारसंस्थितिप्रज्ञप्ता, अन्तः संकुचिता बहिर्विस्तृतेत्यादि तदेव-तापक्षेत्रसंस्थित्यधिकारोक्तमेव ग्राा, कियत्पर्यन्तमित्याह-यावत्तस्याःअन्धकारसंस्थितेः सर्वाभ्यन्तरिका बाहा मंदरपर्वतान्ते षड्योजनसहस्राणि त्रीणि चतुर्विंशत्यधिकानि योजनशतानि षट्च दशभागान् योजनस्य परिक्षेपेण । अत्रोपपत्तिं सूत्रकृदेवाह-से णं० प्राग्वत्, उत्तरसूत्रे यो मेरुपरिक्षेपः स त्रयोविंशतिषट्शताधिककत्रिंशद्योजनसहनमानस्तं परिक्षेपं द्वाभ्यां गुणयित्वा, सर्वाभ्यन्तरमण्डलस्थे सूर्येतापक्षेत्रसत्कानां त्रयाणां भागानामपान्तराले रजनिक्षेत्रस्य दशभागद्वय २ मानत्वात् दशभि-विभज्य-दशभिर्भागे ह्रियमाणेएषपरिक्षेपविशेष आख्यात इति वदेदेतद्भगवन् ! गौ० स्वशिष्येभ्यः, ३१६२३ एतद् द्वाभ्यां गुण्यते जातानि त्रिषष्टिसहस्राणि द्वे शते षट्चत्वा-रिंशदधिके एषां दशभिर्भागे लब्धं यथोक्तं मान। ___अथ बाहामाह-'तीसे ण'मित्यादि, तस्याः-अन्धकारसंस्थितेः सर्वबाह्यबाहा पूर्वतोऽपरतश्चपरमविष्कम्भोलवणसमुद्रान्ते त्रिषष्टिं योजनसहस्राणि द्वेचपंचचत्वारिंशदधिकेयोजनशते षट् च दशभागान् योजनस्य परिक्षेपेणेति, अत्रोपपत्तिं सूत्रकृदेवाह-से ण'मित्यादि, व्यक्तं, नवरंजंबूद्वीपपरिक्षेपः३१६२२८ तंपरिक्षेपंप्रागुक्तहेतुना द्वाभ्यांगुणयित्वा दशभिर्भागे हियमाणे एष परिक्षेपविशेष आख्यात इति वदेत्, अथास्या अवस्थितबाहामाह-तदा सर्वाभ्यन्तरमण्डलचारकाले अन्धकारं कियदायामेन प्रज्ञप्तम् ?, गौ० अष्टसप्ततिं योजनसहस्राणि त्रीणिच त्रयस्त्रिंशदधिकानियोजनशतानियोजनत्रिभागंचैकं, अवस्थिततापक्षेत्रसंस्थित्यायामइवायमपि बोध्यः, तेन मंदरार्द्धसत्कपंचसहनयोज- नान्यधिकानि मन्तव्यानि सूर्यप्रकाशाभाववति क्षेत्रे स्वत एवान्धकारप्रसरणात्, कन्दरादौ तथा प्रत्यक्षदर्शनात्, सूत्रेऽविवक्षितान्यपि व्याख्यातो विशेषप्रतिपत्तिरिति दर्शितानि । अथ पश्चानुपूर्व्या तापक्षेत्रसंस्थितिं पृच्छति
___ 'जयाण'मित्यादि, यदा भगवन्! सूर्यसर्वबाह्यमण्डलमुपसंक्रम्यचारंचरतितदा किंसंस्थानसंस्थिता तापक्षेत्रसंस्थिति प्रज्ञप्ता?, गौतम! ऊर्ध्वमुखकलम्बुकापुष्पसंस्थानसंस्थिताप्रज्ञप्ता, तदेव-अभ्यन्तरमण्डलगततापक्षेत्रसंस्थितिसत्कमेव सर्वमवस्थितानवस्थितबाहादिकं नेतव्यं, नवरमिदंनानात्वं-विशेषः यदन्धकारसंस्थितेः पूर्व-सर्वाभ्यन्तरमंडलगततापक्षेत्रसंस्थितिप्रकरणे वर्णितं ६३२४५६,., इत्येवंरूपंप्रमाणं तत्तापक्षेत्र संस्थितेः प्रमाणं नेतव्यं, द्वीपपरिधिदशभागसत्कभागद्वयप्रमाणत्वात्, यत्तापक्षेत्रसंस्थितेः पूर्ववर्णितम् ९४८६८, इत्येवंरूपं प्रमाणं तदन्धकारसंस्थिर्नेतव्यं द्वीपपरिधि-दशभागसत्कभागत्रयप्रमाणत्वात्, यदत्र तापक्षेत्रस्याल्पत्वं तमसश्चानल्पत्वं तत्र मंदलेश्याकत्वं हेतुरिति, एवं सर्वाभ्यन्तरमण्डलेऽभ्यन्तरबाहाविष्कम्भे यत्तापक्षेत्रपरिमाणं ९४८६१.. इत्येवंरूपं तदत्रान्धकारसंस्थितेर्तेयं, यन्त्र तत्रैव विष्कम्भेऽन्धकारसंस्थितेः ६३२४६१, इत्येवंतापक्षेत्रस्यात्र मन्तव्य, ननु इदं सर्वबाह्यमण्डलसत्कतापक्षेत्रप्ररूपणं, यदि तन्मंडलपरिधौ ३१८३१५ रूपेषष्टिभक्ते लब्धा ५३०५ रूपा मुहूर्तगति तदा च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org