________________
४५६
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/२६२ सर्वजघन्यो दिवसो द्वादशमुहूर्तप्रमाणोऽतो द्वादशभिः सा गुण्यते तथाच कृते ६३६६३ इत्येवंरूपो राशि स्यात्।यदिवोक्तपरिधिर्द्विगुणितोदशभिर्भज्यते तदाप्यमयमेव राशिद्धिधाकरमरीतिलब्धस्तत्किमेतस्मात् सूत्रोक्तराशिविभिद्यते?, उच्यते, सूत्रकारेण द्वीपपरिध्यपेक्षयैव करणरीतेदीमानत्वान्नात्र दोषः, अभ्यन्तरमण्डले परिधिर्यथानन्यूनीक्रियते तथा बाह्यमंडले नाधिकीक्रियते तत्र विवक्षैव हेतुरिति ।। सम्प्रति सूर्याधिकारादेत्सम्बन्धिनं दूरासन्नादिदर्शनरूपं विचारं वक्तुं दशमं द्वारमाह
मू. (२६३) जंबुद्दीवेणं भंते ! दीवे सूरिआ उग्गमणमुहत्तंसि दूरे अ मूले अ दीसंति मन्झतिअमुहत्तंसि मूले अ दूरे अदीसंति अत्यमणमुहत्तंसि दूरे अमूले अदीसंति?, हंता गो० तं चेव जाव दीसंति, जंबुद्दीवे णं भंते ! सूरिआ उग्गमणमुहुत्तंसि अ मझंतिअमुहुत्तसि अ अत्थमणमुहत्तंसिअसव्वस्थ समाउच्चत्तेणं?, हंता तं चैव जाव उच्चत्तेणं जइणं भंते! जंबुद्दीवे दीवे सूरिआ उग्गमणमुहत्तंसि अमझं० अत्य० सव्वत्य समा उच्चत्तेणं, कम्हाणं भंते ! जंबुद्दीवे दीवे सूरिया उग्गमणमुहत्तंसि दूरे अ मूले अदीसंति०, गो० लेसापडिघाएणं उग्गमणमुहुत्तसि दूरेअ मूले अदीसंति इति लेसाहितावेणंमन्झंतिअमुहुत्तंसि मूले अदूरेअदीसंति लेसापडिघाएणं अस्थमणमुहत्तंसि दूरे अ मूले अदीसंति, एवं खलु गो० जाव दिसति ।
वृ. जंबूद्वीपे द्वीपे भदन्त ! सूर्यो उद्गमनमुहूर्ते-उदयोपलक्षिते मुहूर्ते एवमस्तमनमुहूर्ते, सूत्र यकारलोप आर्षत्वात्, दूरे च-द्रष्टस्थानापेक्षया विप्रकृष्टे मूले च-द्रष्टप्रतीत्यपेक्षया आसन्ने
श्यते, द्रष्टारो हि स्वरूपतः सप्तचत्वारिंशता योजनसहः समधिकैर्व्यवहितमुदगमनास्तमनयोः -सूर्यं पश्यन्ति, आसन्नं पुनर्मन्यन्ते, विप्रकृष्टं सन्तमपि न प्रतिपद्यन्ते, 'मध्यान्तिकमुहूर्त इति मध्यो-मध्यमोऽन्तो-विभागोगमनस्यदिवसस्यवामध्यान्तः सयस्य मुहूर्तस्यास्तिसमध्यान्तिकः स चासौ मुहूर्तश्चेति मध्यान्तिको मध्याह्नमुहूर्त इत्यर्थः, तत्र मूले चासन्ने देशे द्रष्टस्थानापेक्षया दूरे च-विप्रकृष्टे देशे द्रष्टप्रतीत्यपेक्षया सूर्यौ श्येते, द्रष्टा हि मध्याह्ने उदयास्तमयनदर्शनापेक्षय आसनं रविपश्यति, योजनशताष्टकेनैव तदाऽस्य व्यवहितत्वात्मन्यते पुनरुदयास्तमयनप्रतीत्यपेक्षया व्यवहितं इति, अत्र सर्वत्र काका प्रश्नोऽवसेयः, अत्र भगवानाह
तदेव यद्भवताऽनन्तरमेव प्रश्नविषयीकृतं तत्तथैवेत्यर्थः यावद् श्यते इति । __ अत्रचर्मध्शांजायमाना प्रतीतिर्माज्ञानशांप्रतीत्या सह विसंवदत्वितिसंवादायपुनर्गीतमः पृच्छति–'जंबुद्दीवे णमित्यादि, जंबूद्वीपे भदन्त ! द्वीपे उदगमनमुहूर्ते च मध्यान्तिकमुहूर्ते च अस्तमयनमुहूर्ते च अत्र चशब्दा वाशब्दार्था सूर्यौ सर्वत्र-उक्तकालेषु समौ उच्चत्वेन, अत्रापि काकुपाठात् प्रश्नावगति, भगवानाह-तदेव यद्भवता मां प्रति पृष्टं यावदुखत्वेनेति, सर्वत्रउद्गमनमुहूर्तादिषु समौ समव्यवधानावुच्चत्वेन समभूतलापेक्षयाऽष्टौ योजनशतानीतिकृत्वा, न हि सती जनप्रतीतिं वयमपलपाम इति भगवदुक्तमेवानुवदन्नत्र विप्रतिपत्तीबीजं प्रष्टुमाह
'जइ णमित्यादि, प्रश्नसूत्रं स्पष्टं, उत्तरसूत्रे गौतम ! लेश्यायाः-सूर्यमंडलगततेजसः प्रतिघातेन दूरतरत्वादुद्गमनदेशस्य तदप्रसरणेनेत्यर्थः उद्गमनमुहूर्ते दूरे च मूले च दृश्यते, लेश्याप्रतिघाते हि सुखश्यत्वेन स्वभावेन दूरस्थोऽपि सूर्य आसन्नप्रतीतिं जनयति, एवमस्तमय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org