________________
वक्षस्कारः-७
सर्वाभ्यन्तरमण्डलवर्ती सूर्यो मंदरदिशि जंबूद्वीपस्य पूर्वतोऽपरतश्चाशीत्यदिकं शतं योजनानामवगाह्यचारंचरतितेनाशीत्यधिकशतयोजनानि द्विगुणानि ३६० अस्यवर्गदशगुणवर्गमूलानयने जातानि ११३८ एतन्त्र द्वीपपरिधितः ३१६२२७ रूपात् शोध्यते ततः स्थितं ३१५०८९, अस्य दशभिर्भागेआगतं ३१५०८ अवशिष्टभागाः,..अनयोरंशच्छेदयोः षड्भिर्गुणने जातं, ४/ अथास्य राशेस्त्रिगुणने सम्पद्यते यथोक्तराशिः, तथाहि-९४५२६०/..इदंच सूक्ष्मेक्षिकया दर्शितं, न चैतत् स्वमत्युप्रेक्षितमिति भाव्यं, श्रीमुनिचन्द्रसूरिकृतसूर्यमंडलविचारेऽस्य सुविचारितत्वात्, प्रस्तुतेचस्थूलन-याश्रयणेन द्वीपर्यन्तमात्रविवक्षणेन सूत्रोक्तं प्रमाण सम्पद्यते, द्वीपोदधिपरिधेरेवसर्वत्राप्यागमेदशांशकल्पनादिश्रवणात्, अनेन परिधितः परतोलवणोदषड्भागं यावत्प्राप्यमाणेतापक्षेत्रेतचक्रवालक्षेत्रानुसारेणतत्रविष्कम्भसम्भवात्परमविष्कम्भस्तत्रकथनीय इति निरस्तं, अयमेव चतुर्नवतिसहस्रपञ्चशतादियोजनादिको राशिबहुबहुश्रुतैः प्रमाणीकृतः करणसंवादित्वात्, तथाहि-स्वस्वमण्डलपरिधि षष्ट्य भक्तो मुहूर्तगतिं प्रयच्छति, सा च दिवसार्द्धगतमुहूर्तराशिना गुणिताचक्षुस्पर्श साचोदयतः सूर्यस्याग्रतोयावानस्तमयतश्च पृष्ठतोऽपि तावानिति द्विगुणितः सन् तापक्षेत्रं भवति, एतच्च चक्षुस्पर्शद्वारे सुव्यक्तं निरूपितमस्ति, इदं च तापक्षेत्रकरणं सर्वबा- ह्यमण्डलसत्कतापक्षेत्रबाहानिरूपणे विभावयिष्यत इति नात्रोदाहियते, यदुक्तं चेत् दशभागान् प्रकाशयति इति, तत्र भागः षणमुहूर्ताक्रमणीयक्षेत्रप्रमाणः, कथं ? सर्वाभ्यन्तरे मण्डले चरति सूर्ये दिवसोऽष्टादशमुहूर्तमानः नवमुहूर्ताक्रमणीयेच क्षेत्रे स्थितः सूर्यो दृश्यो भवति तत एतावत्प्रमाणं सूर्यात्प्राक्तापक्षेत्रंतावच अपरतोऽपि, इत्थं चाष्टादशमुहूर्ताक्रमणयक्षेत्रप्रमाणमेकस्य सूर्यस्य तापक्षेत्रं, तच्च किल दशभागत्रयात्मकं ततो भवत्येकस्मिन् दशभागे षण्मुहूर्ताक्रमणीयक्षेत्रप्रमाणतेति ।
सम्प्रति सामस्त्येनायामतस्तापक्षेत्रपरिमाणं पिपृच्छिषुराह-'तयाण'मित्यादि, यदा भगवन् एतावांस्तापक्षेत्रपरमविष्कम्भ इति गम्यं तदा भगवंस्तापक्षेत्रं सामस्त्येन दक्षिणोत्तरायततया कियदायामेन प्रज्ञप्तम् ?, भगवानाह-गौतम! अष्टसप्ततिं योजनसहस्राणि त्रीणि च त्रयस्त्रिंशदधिकानि योजनशतानि योजनस्यैकस्य त्रिभागंच यावदायामेन प्रज्ञप्तं, पञ्चचत्वारिंशद्योजनसहस्राणि द्वीपगतानि, त्रयस्त्रिंशद्योजनसहस्राणि त्रीणि च योजनशतानि त्रयस्त्रिंशदधिकानि उपरिच योजनत्रिभागयुक्तानि लवणगतानि, द्वयोः सङ्कलने यथोक्तंमानं, इदं च दक्षिणोत्तरत आयाम-परिमाणमवस्थितं न क्वापि मण्डलचारे विपरिवर्तेतेति। मू. (२६१) मेरुस्स मज्झयारे जाव य लवणस्स रुंदछब्भागो।
तावायामो एसो सगडुद्धीसंठिओ नियमा। वृ. एनमेवार्थं सामस्त्येन द्रढयति-'मेरुस्स मज्झयारे' इत्यादि, इह मेरुणा सूर्यप्रकाशः प्रतिहन्यत इत्येकेषां मतं नेत्यपरेषां, तत्राद्यानां मते इतंय सम्मतिरूपा गाथा, तस्मिन् पक्षे एवं व्याख्येया-करणं कारो मध्ये कारो मध्यकार:-मध्ये करणं मेरोस्ततस्मिन् सति, कोऽर्थः?-- चक्रवालक्षेत्रत्तापक्षेत्रस्य मेरु मध्ये कृत्वा यावल्लवणस्य रुंदस्य-निर्देशस्य भावप्रधानत्वाद्रुन्दतायाः-विस्तारस्य षड्भागः-षष्ठोभागः एतावत्प्रमाणः तापस्य तापक्षेत्रस्यायामः, तन्न मेरोरारम्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org