________________
४५२
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/२६० विभज्य मेरुणा प्रतिहन्यमानः सूर्यातपो मेरुपरिधि परिक्षिप्य स्थित इति मेरुसमीपेऽभ्यन्तरतापक्षेत्रविष्कम्भचिन्ता, अथैवं सतिसत्रयो-विंशतिषट्शताधिकैकत्रिंशत्सहस्रयोजनमानः सर्वोऽपि मेरुपरिधिरस्य तापक्षेत्रस्य विष्कम्भतामा-पधेत इति चेत्, नसर्वाभ्यन्तरे मण्डले वर्तमानः सूर्यो दीप्तलेश्याकत्वाज्जम्बूद्वीपचक्रवालस्य यत्रतत्र प्रदेशे तत्तचक्रवालक्षेत्रानुसारेण त्रीन् दशभागान् प्रकाशयति दशभागानां त्रयाणां मीलने यावत् प्रमाणं क्षेत्रं तावत्तापयतीत्यर्थः ।
ननु तर्हि मेरुपरिधेस्त्रिगुणीकरणं किमर्थं ? दशभागानां त्रिधागुणनेनैव चरितार्थत्वात्, सत्यं, विनेयानां सुखावबोधाय, भगवतीवृत्तौ तु श्रीअभयदेवसूरिपादा दशभागलब्धं त्रिगुणं चक्रुरिति, अथ दशभिर्भागको हेतुरिति चेत्, उच्यते, जंबूद्वीपचक्रवालक्षेत्रस्य त्रयो भागा मेरुदक्षिणपार्श्वे त्रयस्तस्यैवोत्तरपार्श्वे द्वी भागी पूर्वतो द्वौ चापरतः सर्वमीलने दश, तत्र भरतगतः सूर्य सर्वाभ्यन्तरे मण्डले चरन् त्रीन् भागान् दाक्षिणात्यान् प्रकाशयति, तदानीं च त्रीनौत्तराहाम् ऐवतगतः तदा द्वौ भाग पूर्वतो रजनी द्वौ चापरतोऽपि, यथा यथाक्रमेण दाक्षिणात्य औत्तराहो वासूर्यसञ्चरति तथातथा तयोः प्रत्येकंतापक्षेत्रमग्रतोवर्द्धत पृष्ठतश्चहीयते, एवंक्रमेणसञ्चरणशीले तापक्षेत्रेयदैकः सूर्य पूर्वस्यां परोऽपरस्यां वर्तते तदापूर्वपश्चिमदिशोः प्रत्येकंत्रीन्भागांस्तापक्षेत्रं द्वौ भागौ दक्षिणोत्तरयोः प्रत्येकं रजनीति, अथ गणितकर्मविधानं, तत्र मेरुव्यासः १०००० एषां च वर्गो दश कोट्यः ततो दशभिर्गुणने जातं कोटिशतं अस्य वर्गमूलानयने लब्धान्येकत्रिंशयोजनसहस्राणि षट् शतानि त्रयोविंशत्यधिकानि एष राशिस्त्रिभिर्गुण्यते जातानि चतुर्नवतिसहस्राणि अष्टौ शतान्येकोनसप्तत्यधिकानि एषा दशभिर्भागे लब्धानि नव योजनसहस्राणि चत्वारि शतानि षडशीत्यिकानि नव च दशभागा योजनस्य । अथ सर्वबाह्यबाहापरिमाणं
___'तीसेण मित्यादि, तस्याः-तापक्षेत्रसंस्थितेः सर्वबाह्यालवणसमुद्रस्यान्ते-समीपेचतुर्नवति योजनसहस्राणि अष्टौ च षष्ट्यधिकानि योजनशतानि चतुरश्च दशभागान् योजनस्य परिक्षेपेण, अत्रोपपादकसूत्रमाह- सेणंभंते! परिक्खेवे' इत्यादि, स भदन्त ! परिक्षेपविशेषोऽनन्तरोक्तो य इतिगम्यं कुत आख्यात इति गौतमो वदेद्, वदति भगवानाह-गौतम! योजंबूद्वीपपरिक्षेपस्तं परिक्षेपं त्रिभिर्गुणयित्वा दशभिश्छित्वा-दशभिर्विभज्य इदमेव पर्यायेणाह-दशभिर्भागेहियमाणे एष परिक्षेपविशेष आख्यातोमयाऽन्यैश्चाप्तैरितिवदेव स्वशिष्येभ्यः, इदमुक्तं भवति-तापक्षेत्रस्य परमविष्कम्भःप्रतिपिपादयिषितव्यः,सचजंबूद्वीपपर्यन्तइतितत्परिधिस्थाप्यःयोजन ३१६२२७ क्रोश ३ धषि १२८ अं१३ अर्धाङ्गुलं १ एतावता च योजनमेकं किञ्चिदूनमिति व्यवहारतः पूर्ण विवक्ष्यते-सांशराशितो निरंशराशेर्गणितस्य सुकरत्वात्, ततो जातं ३१६२२८, एतत् त्रिगुणं क्रियते जातानि नव लक्षाणि अष्टचत्वारिंशत्सहस्राणि षट् शतानि चतुरशीत्यधिकानि ७४८६८४, एषांदशभिर्भजने लब्धानि चतुर्नवतिर्योजनसहस्राणि अष्टौ शतानि अष्टषष्ट्यधिकानि चत्वारश्च दशभागा योजनस्य, अत्रापि त्रिगुणकरणादौ युक्ति प्राग्वत्, नन्वन्यत्र । ॥१॥ रविणो उदयत्थंतरचउणवइसहस्स पणसय छवीसा ।
बायाल सट्ठिभागा कक्कडसंकंतिदिअहंमि ।। इत्युक्तं । अत्रोदयास्तान्तरं प्रकाशक्षेत्रंतापक्षेत्रमित्येकार्थाः तत्रभेदे किं निबन्धनमिति चेत्, उच्यते,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org