SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः-७ ४५१ वृ. 'जयाण'मित्यादि, यदा भगवन् ! सूर्य सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारं चरति तदा किंसंस्थिता-किंसंस्थाना तापक्षेत्रस्य-सूर्यातपव्याप्ताकाशखण्डस्य संस्थितिः-व्यवस्था प्रज्ञप्ता सूर्यातपस्य किं संस्थानमितियावत्, भगवानाह-गौतम! ऊर्ध्वमुखं अधोमुखत्वेतस्यवक्ष्यमाणाकारसम्भवात्यत्कलम्वुकापुष्पं–नालिकापुष्पं तत्संस्थानसंस्थिताप्रज्ञप्तामयाशेषैश्च तीर्थकृभिः, इदमेवसंस्थानं विशिनष्टि–अन्तः-मेरुदिशिसङ्कुचिता बहि-लवणदिशि विस्तृता, तथा अन्तःमेरुदिशिवृत्ता-अर्धवलयाकारा सर्वतोवृत्तमेरुगतान् त्रीन् द्वौ वा दशभागान् अभिव्या-प्यास्या व्यवस्थितत्वात्, बहिः-लवणदिशि पृथुला-मुत्कलमावेन विस्तारमुपगता, एतदेव संस्थानकथनेन स्पष्टयति-अन्तर्मेरुदिशि अङ्क:पद्मासनोपविष्टस्योत्सङ्गरूप आसनबन्धस्तस्य मुखंअग्रभागोऽर्द्धवलयाकारस्तस्येव संस्थितं-संस्थानंयस्याःसातथा, बहि-लवणदिशिशकटस्योद्धिः प्रतीतातस्याः मुखं-यतः प्रभृति निश्रेणिकायाफलकानिबध्यन्तेतच्चातिविस्तृतं भवति तत्संस्थाना, अन्तर्बहिर्भागौ प्रतीत्य यथाक्रमं सङ्कुचिता विस्तृता इतिभावः आदर्शान्तरेतु 'बाहिं सोत्थिअमुहसंठिआ' पाठस्तत्र स्वस्तिकः प्रतीतस्तस्य मुखं-अग्रभागस्तस्येवातिविस्तीर्णतया संस्थितं-संस्थानं यस्याः सा तथा, अथास्याः आयाममाह 'उमओपासेणमित्यादि, उभयपाइँन-मंदरस्योभयोः पार्श्वयोः तस्यास्तापक्षेत्रसंस्थितेः सूर्यभेदेन द्विधाव्यवस्थितायाः प्रत्येकमेकैकभावेन द्वेबाहे-द्वेद्वेपार्वे अवस्थिते-अदृद्धिहानिस्वभावे सर्वमण्डलेष्वपि नियतपरिमाणे भवतः, अयमर्थः-एका भरतस्थसूर्यकृता दक्षिणपार्वे द्वितीया ऐरवतस्थसूर्यकृता उत्तरपार्वे इति द्विप्रकारा, साच पञ्चचत्वारिंशतं २ योजनसहस्राणि आयामेन, मध्यवर्तिनो मेरोरारभ्य द्वयोर्दक्षिणोत्तरभागयोः पञ्चचत्वारिंशता योजनसहनैर्व्यवहिते जंबूद्वीपपर्यन्ते व्यवस्थितत्वात्, एवं पूर्वापरभागयोरपि, यदा तत्र सूर्यौ तदाऽयमायामो बोध्यः, एतच्च सूत्रं जंबूद्वीपगतायाममपेक्ष्य बोध्यं, लवणसमुद्रे तु त्रयस्त्रिंशत्सहस्राणि त्रीणि शतानि त्र्यस्त्रिंशदधिकानि एकश्च त्रिभागो योजनस्येति, एतच्च एकत्र पिण्डितं अष्टासप्ततः सहस्राणि योजनानां त्रीणि शतानि इत्यादिकं सूत्रकृदने वक्ष्यति तत्र सोपपत्तिकं निगदिष्यते तेनात्र पुनरुक्तभिया नोक्तं। सम्प्रत्यनवस्थितबाहास्वरूपमाह-तस्याः-एकैकस्यातापक्षेत्रसंस्थितेः द्वे च बाहे अनवस्थिते अनियतपरिमाणेभवतः, प्रतिमण्डलं यथायोगहीयमानवर्द्धमानपरिमाण-त्वात्, तद्यथा-सर्वाभ्यन्तरा सर्वबाह्या चैवशब्दौ प्रत्येकमनवस्थितस्वभावद्योतनार्थी, तत्र या मेरुपार्वे विष्कम्भमधिकृत्य बाहा सा सर्वाभ्यन्तरा या तु लवणदिशि जंबूद्वीपपर्यन्तमधिकृत्य बाहा सा सर्वबाह्या, आयामश्च दक्षिणोत्तरायततया प्रतिपत्तव्यो विष्कम्भः पूर्वापरयततयेति, साम्प्रतं सर्वाभ्यन्तरापरिमाणं निर्दिशति 'तस्या-एकैसकस्याः तापक्षेत्रसंस्थितेः सर्वाभ्यन्तरा बाहा मेरुगिरिसमीपे नव योजनसहस्रणि चत्वारि षडशीत्यधिकानि योजनशतानि नव च दशभागान् योजनस्य परिक्षेपेण,अत्रोपपत्यर्थप्रश्नमाह- 'एसण'मित्यादि, एषः अनन्तरोक्तप्रमाणः परिक्षेपविशेषो-मंदरपरिरयपरिक्षेपविशेषः कुतः-कस्मात् एवंप्रमाण आख्यातो नोनोऽधिको वा इति वदेत् ?, भगवानाह-गौ० यो मंदरस्य परिक्षेपस्तं त्रिभिर्गुणयित्वा दशभिश्छित्वा- दशभि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy