SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः -७ ४४५ यदा भगवन् ! सूर्य बाह्यतृतीयं मण्डलमुपसंक्रम्य चारं चरति तदा एकैकेन मुहूर्त्तेन कियत क्षेत्रं गच्छति ?, भगवानाह - गौतम ! पञ्च पञ्च योजनसहस्त्राणि त्रीणि चतुरुत्तराणि योजनशतानि एकोनचत्वारिंशतं च षष्टिभागान् योजनस्य एकैकेन मुहूर्तेन गच्छति, तथाहि-अस्मिन् मण्डले परिरयपरिमाणं तिोन लक्षा अष्टादश सहस्राणि द्वे शते एकोनाशीत्यधिके अस्य च षष्ट्या भागे हृते लब्धं यथोक्तमत्र मण्डले मुहूर्त्तगतिप्रमाणं अथात्र दृष्टिपथप्राप्तता - तदा इहगतस्य मनुष्यस्य एकाधिकैर्द्वात्रिंशता सहसैकोनपञ्चाशता च षष्टिभागैरेकं च षष्टिभागमेकषष्टिधा छित्वा तस्य सत्कैस्त्रयोविंशत्या चूर्णिकाभागैः सूर्य चक्षुस्पर्शमागच्छति, तथाहि-अस्मिन् मण्डले दिवसो द्वादशमुहूर्त्तप्रमाणश्चतुर्भिर्मुहूर्तैकषष्टिभागैरधिकस्तस्यार्द्धषट्मुहूर्त्ता द्वाभ्यामेकषष्टिभागाभ्यामधिकास्ततः सामस्त्येनैकषष्टिभागकरणार्थं षडपि मुहूर्त्ता एकषष्ट्या गुण्यंते गुणयित्वा च तत्र द्वावेकषष्टिभागी प्रक्षिप्येते ततो जातानि त्रीणि शतानि अष्टषष्ट्यधिकानि एकषष्टिभागानां, ततोऽस्मिन् मण्डले यत्परिरयप्रमाणं त्रीणि लक्षाणि अष्टादशसहस्राणि द्वे शते एकोनाशीत्यधिके एतत् त्रिभिः शतैः अष्टषष्ट्यधिकैर्गुण्यते जाता एकादश कोट्यः एकसप्तति शतसहस्राणि षड्विंशति सहस्राणि षट् शतानि द्विसप्तत्यधिकानि, अस्य एकषष्ट्या गुणितया षष्ट्या भागे लब्धानि द्वात्रिंशत्सहस्रं एकोत्तराणि शेषं त्रीणि सहस्राणि द्वादशोत्तराणि तेषां षष्टिभागा- नयनार्थमेकषष्ट्या भागे हृते लब्धा एकोनपञ्चाशत् षष्टिभागाः एकस्य षष्टिभागस्य सत्कास्त्र - योविंशतिश्चूर्णिकाभागाः इति, समवायाङ्गे । 'जया णं सूरिए बाहिराणंतरतच्चं मंडलं उवसंकमित्ता चारं चरइ तथा णं इहगयस्स पुरिसस्स तेत्तीसाए जो अणसहस्सेहिं किंचिविसेसूणेहिं चक्खुफासं हव्वमागच्छइ'त्ति एतदवृत्तौ च इह तु यदुक्तं त्रयस्त्रिंशत् किञ्चिन्यूनास्तत्र सातिरेकयोजनस्यापि न्यूनसहस्रता विवक्षितेति सम्भाव्यते इति, अथात्रापि चतुर्थमण्डलादिष्वतिदेशमाह-'एवं खलु' इत्यादि, एवमुक्तेन प्रकारेण खलुनिश्चितमेतेनोपायेन - शनैः ः २ तत्तदनन्तराभ्यन्तरमण्डलाभिमुखगमनरूपेणाभ्यन्तरं प्रविशन् सूर्यस्तदनन्तरान्मण्डलात् तदनन्तरं मण्डलं संक्रामन् २ एकैकस्मिन् मण्डले मुहूर्तगतिमित्यत्र द्वितीया पूर्ववत् मुहूर्त्तगतिपरिमाणे अष्टादश २ षष्टिभागान् योजनस्य व्यवहारतः परिपूर्णान् निश्चयतः किञ्चिदूनान् निवर्द्धयन् २ हापयन्नित्यर्थः, पूर्वमण्डलात् अभ्यन्तराभ्यन्तरमण्डलस्य परिरयमधिकृत्याष्टादशयोजनैर्हीनत्वात्, पुरुषच्छायामित्यत्रापि द्वितीया पूर्ववत्, ततोऽयमर्थः पुरुषच्छायायां दृष्टिपथप्राप्ततारूपायां नवभिः षष्टिभागैः षष्ट्या च चूर्णिकाभागैः सातिरेकाणि - समधिकानि पञ्चाशीतिं २ योजनान्यभिवर्द्धयन् २ प्रथमद्वितीयादिषु कतिपयेषु मण्डलेषु इयं वृद्धिर्ज्ञेया सर्व मण्डलापेक्षया तु येनैव क्रमेण सर्वाभ्यन्तरान्मण्डलात्परतो दृष्टिपथप्राप्ततां हापयन्निर्गतस्तेनैव क्रमेण सर्वबाह्यान्मण्डलादर्वाक्तनेषु दृष्टिपथप्राप्ततामभिवर्द्धयन् प्रविशति, तत्र सर्वबाह्यमण्डलादर्वाकतनद्वितीयमण्डलगतात् दृष्टिपथप्राप्ततापरिमाणात् सर्वबाह्ये मण्डले पञ्चाशीतिं योजनानि नव षष्टिभागान् योजनस्य एकं च षष्टिभागमेकषष्टिधा भित्वा तस्य सत्कान् षष्टिभागान् हापयति, एतच्च प्रागेव भावितं तस्मात् सर्वबाह्यादर्वाकतने द्वितीये मण्डले प्रविशन् तावद्भूयोऽपि दृष्टिपथप्राप्ततापरिमाणेऽभिवर्द्धयति तच्च ध्रुवं, ततोऽर्वाकतनेषु मण्डलेषु यस्मिन् For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy