________________
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ७/२५८
थप्राप्तताकरणत्वात्, ततो यथोक्तमत्र मण्डले दृष्टिपथप्राप्ततापरिमाणं भवति, यद्यप्युपान्त्य - मण्डलदृष्टिपथप्राप्ततापरिमाणात् पञ्चाशीतिर्योजनानि नव षष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः इत्येवंराशौ शोधिते इदमुपपद्यते एतच्च प्राग् भावितं तथापि प्रस्तुतमण्डलस्योत्तरायणगतमण्डलानामवधिभूतत्वेनान्यमण्डलकरणनिरपेक्षतया करणान्तरमकारि ।
इदं च सर्वाभ्यन्तरानन्तरमण्डलात् पूर्वानुपूर्व्या गण्यमानं त्र्यशीत्यधिकशततमं प्रतिमण्डलं चाहोरात्रगणनादहोरात्रोऽपि त्र्यशीत्यधिकशततमस्तेनायं दक्षिणायनस्य चरमो दिवस इत्याद्यभिधातुमाह- 'एसणं पढमे छम्मासे एस ण' मित्यादि, एष च दक्षिणायनसत्कन्यशीत्यधिकशतदिनरूपी राशि प्रथमः षण्मासः - अयनरूपः कालविशेषः, षट्सयाङ्काः मासाः पिण्डीभूता यत्रेति व्युत्पत्तेरिदं समाधेयं, अन्यथा प्रथमः षण्मास इत्येकवचनानुपपत्तिरिति, अथवा पात्र्यादि गणान्तः पाठात् स्त्रत्वाभावे अदन्तद्विगुत्वेऽपि न ङीप्रत्ययस्तेनैव तत्प्रथमं षण्मासं आर्षत्वात् पुंस्त्वं, एतच्च प्रथमस्य षण्मासस्य दक्षिणायनरूपस्य पर्यवसानं, अथ सर्वबाह्यमण्डलचारानन्तरं सूर्यो द्वितीयं षण्मासं प्राप्नुवन् गृह्णन् इत्यर्थः प्रथमे अहोरात्रे उत्तरायणस्येति गम्यं, बाह्यानन्तरं पश्चानुपूर्व्या द्वितीयं मण्डलमुपसंक्रम्य चारं चरति । अतात्र गत्यादिप्रश्नार्थं सूत्रमाह
'जया णं यदा भगवन् ! सूर्य बाह्यानन्तर- मर्वाक्तनं द्वितीयं मण्डलमुपसंक्रम्य चारं चरति तदा भगवन्! एकैकेन मुहूर्तेन कियत् क्षेत्रं गच्छति ?, भगवानाह - गौ० पञ्च योजनसहस्राणि त्रीणि च चतुरुत्तराणि योजनशतानि सप्तपञ्चाशतं च षष्टिभागान् योजनस्यैकैकेन मुहूर्तेन गच्छति तथाहि--अस्मिन् मण्डले परिरयपरिमाणं त्रीणि लक्षाणि अष्टादश सहस्राणि द्वे शते सप्तनवत्यधिके योजनानां ततोऽस्य षष्ट्या मागे हृते लब्धं यथोक्तमत्र मण्डले मुहूर्त्तगतिप्रमाणं, अत्रापि ६ष्टिपथप्राप्तताप - रिमाणमाह - तदा इहगतस्य मनुष्यस्येति प्राग्वत् एकत्रिंशता योजनसहस्रैः षोडशाधिकैः नवभिश्च योजनशतैरेकोनचत्वारिंशता च षष्टिभागैर्योजनस्य एकं च षष्टिभागमेक षष्टिधा छित्वा तस्य सत्कैः षष्ट्या चूर्णिकाभागैः सूर्यश्चक्षु स्पर्शमागचछति, तथाहि
४४४
अस्मिन् मण्डले सूर्ये चारं चरति दिवसो द्वादशमुहूर्त्तप्रमाणो द्वाभ्यां मुहूर्तैकषष्टिभागाभ्यामधिकः तेषां चार्द्धे षड् मुहूर्त्तीः एके मुहूर्तैकषष्टिभागेनाभ्यधिकास्ततः सवर्णनार्थं षडपि मुहूर्ता एकषष्ट्या गुण्यन्ते तत एकः षष्टिभागस्तत्राधिकः प्रक्षिप्यते, ततो जातानि त्रिणि शतानि सप्तषष्ट्यधिकानि एकषष्टिभागानां ततः प्रस्तुतमण्डले यत्परिमाणं त्रीणि लक्षाणि अष्टादशसहस्राणि द्वे शते सप्तनवत्यधिके, इदं च योजनराशि षष्ट्या गुणयित्वा सवर्णिता मुहूर्त्तगतिरिति यथा व्यवह्रियते तथा प्रागुक्तम्, एतदेभिस्त्रिभिः शतैः सप्तषष्ट्याऽधिकैर्गुण्यते जाता एकादश कोट्योऽष्टषष्टिर्लक्षाश्चतुर्दशसहस्राणि नवशतानि नवनवत्यधिकानि, एतस्य एकषष्ट्या गुणितया षष्ट्या भागो हियते लब्धान्येकत्रिंशत्सहस्राणि नव शतानि षोडशोत्तराणि, शेषमुद्धरति चतुर्विंशतिशतानिएकोनचत्वारिंशदधिकानि न चातो योजनान्यायान्ति ततः षष्टिभागानयनार्थमेकषष्ट्या भागो हियते लब्धा एकोनचत्वारिंशत् षष्टिभागाः एकस्य च षष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः । अथ तृतीयं मण्डलं
'से पविसमाणे' इत्यादि, अथ प्रविशन् - जंबूद्वीपाभिमुखं चरन् सूर्य द्वितीयेऽहोरात्रे उत्तरायणसत्के इत्यर्थः बाह्यतृतीयं मण्डलमुपसंक्रम्य चारंचरति, तदा किमित्याह- 'जयाण' मित्यादि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org