SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः -७ ४४३ ततो यथावस्थितं तुर्यमण्डले पथप्राप्तिमानं, तच्छेदम्-सप्तचत्वारिंशद्योनसहस्राणि त्रयोदशोत्तराणि अष्टौ च षष्टिभागा योजनस्य एकस्य च षष्टिभागस्य सत्का दशैकषष्टिभागाः, सर्वान्तिमे तुमण्डले तृतीयमण्डलापेक्षया द्व्यशीत्यधिकशततमे यदाधष्टिपथप्राप्तिजिज्ञासातदा षट्त्रिंशत् द्वयशीत्यधिकशकेन गुण्यते जातानि पञ्चषष्टिशतानि द्विपञ्चाशदधिकानि ततः षष्टिभागानयनार्थमेकषष्ट्य भागे लब्धंसप्तोत्तरंशतंषष्टिभागानांपञ्चविंतिरवशिष्टाः एतध्रुवराशी प्रक्षिप्यते जातं पञ्चाशीतिर्योजनानि एकदश षष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्काः षडेकषष्टिभागाः, इह षट्त्रिंशत एवमुत्पत्तिः-पूर्वस्मात् २ मण्डलादनन्तरेऽनन्तरेमण्डले दिवसो द्वाभ्यां २ मुहूर्तेकषष्टिभागाभ्यांहीनः स्यात्, प्रतिमुहूर्तेकषष्टिभागंचाष्टादश एकस्य षष्टिभागस्य सत्का एकषष्टिभागा हीयन्ते, ततः उभयमीलने षट्त्रिंशत् स्यु, ते चाष्टादश भागाः कलया न्यूना लभ्यन्ते न परिपूर्णा परं व्यवहारतः पूर्वं परिपूर्णा विवक्षिताः, तच्च कलया न्यूनत्वं प्रतिमण्डलं भवत् यदा द्वयशीत्यधिकशततमण्डले एकत्र पिण्डितं सत् चिन्त्यते तदा अष्टषष्टिरेकषष्टिभागास्त्रुटयन्ति। एतदपि व्यवहारतः परमार्थतः किञ्चिदधिकमपि त्रुट्यदवसेयम्, ततोऽमी अष्टषष्टिरेकषष्टिभागा अपसार्यन्ते, तदपसारणे पञ्चाशीतिर्योजनानि नव षष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः इति जातं सर्वबाह्यमण्डलानन्तराक्ति- नद्वितीयमण्डलगतष्टिपथप्राप्ततापरिमाणादेकत्रिंशत्सहस्राणि नव शतानि षोडशोत्तराणि योजनानां एकोनचत्वारिंशत्षष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः, इत्येवंरूपाच्छोध्यतेततोयथोक्तं सर्वबाह्यमण्डले ष्टिपथपराप्ततापरिमाणंभवति, तवाग्रे वक्ष्यति, तत एवं पुरुषच्छायायां दृष्टिपथप्राप्ततारूपायां द्वितीयादिषु केषुचिन्मण्डलेषु चतुरशीति किञ्चिन्यूनानि उपरितनेषु मण्डलेष्वधिकान्यधिकतराणि उक्तप्रकारेणाभिवर्द्धयन् र तावदवसेयो यावत्सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरति, तत्र पञ्चाशीतिग्रहणं तद् देहलीप्रदीपन्यायेनो भयपार्श्ववर्त्तिन्योस्त्रयशीतिपञ्चाशीत्योहणार्थमिति । अथोक्ते एव मण्डलक्षेत्रे पश्चानुपूर्व्या सूर्यस्य मुहूर्तगत्याद्याह-'जया णमित्यादि, यदा भगवन् ! सूर्य सवबाह्यमण्डलमुपसंक्रम्य चारं चरति तदा एकैकेनमुहूर्तेन कियत् क्षेत्रं गच्छति गौतम! पञ्च पञ्च योजनसहनाणि त्रीणि पञ्चोत्तराणियोजनशतानिपञ्चदशषष्टिभागान्योजनस्य एकैकेन गच्छति, कथमिति चेत्, उच्यते-अस्मिन् मण्डले परिरयपरिमाणं तिम्रो लक्षा अष्टादश सहस्राणि त्रीणि शतानि पञ्चदशोत्तराणि ततोऽस्य प्रागुक्तयुक्तिवशात् षष्ट्या भक्ते लब्धं यथोक्तमत्र मण्डले मुहूर्तगतिपरिमाणमिति, अत्र ष्टिपथप्राप्ततापरिमाणमाह- सर्वबाह्यमण्डलचारचरणकाले इहगतस्य मनुष्यस्येति प्राग्वत् एकत्रिंशता योजनसहरष्टभिश्चैकत्रिंशदधिकोजनशतैस्त्रिंशता च षष्टिभागैर्योजनस्य सूर्य शीघ्रं चक्षुस्पर्शमागच्छति। तथाहि-अस्मिन् मण्डले सूर्ये चारं चरति दिवसो द्वादशमुहूर्तप्रमाणो, दिवसस्यार्द्धन यावन्मात्रं क्षेत्र व्याप्यतेतावति स्थित उदयमानः सूर्य उपलभ्यते, द्वादशानांच मुहूर्तानामर्द्ध षट् मुहूर्तास्ततो यदत्र मण्डले मुहूर्तगतिपरिमाणं पञ्चयोजनसहस्राणि त्रीणि शतानि पञ्चोत्तराणि पञ्चदश च षष्टिभागा योजनस्य तत् षड्भिर्गुण्यते, दिवसार्द्धगुणिताया एव मुहूर्तगतेईष्टिप For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy