________________
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ७/२५८ सर्वाभ्यन्तरान्मण्डलात् तृतीयं यन्मण्डलं तत आरभ्य यस्मिन् मण्डले दृष्टिपथप्राप्तता ज्ञातुमिष्यते तत्तन्मण्डलसद्व्यया षट्त्रिंशत् गुण्यते, तद्यथा
सर्वाभ्यन्तरान्मण्डलात्तृतीये मण्डले एकेन चतुर्थे द्वाभ्यां पञ्चमे त्रिभिर्यावत् सर्वबाह्यमण्डले द्व्यशीत्याधिकशतेन गुणयित्वा ध्रुवराशिमध्ये प्रक्षिप्यते, प्रक्षिप्ते सति यद्भवति तेन हीना पूर्वमण्डलसत्कष्टिपथप्राप्तता तस्मिन् विवक्षिते मण्डले ६ष्टिपथप्राप्तता ज्ञातव्या, अथ त्र्यशीतियोजनादिकस्य ध्रुवराशेः कथमुपपत्ति ?, उच्यते, सर्वाभ्यन्तरमण्डले दृष्टिपथप्राप्ततापरिमाणे सप्तचत्वारिंशत्सहस्रणि द्वे शते त्रिषष्ट्यधिके योजनानामेकविंशतिश्च षष्टिभागा योजनस्य एतच्च नवमुहूर्त्तगम्यं तत एकस्मिन् मुहूर्तैकषष्टिभागे किमागच्छतीति चिन्तायां नव मुहूर्ता एकषष्ट्यां गुण्यन्ते जातानि पञ्चशतान्येकोनपञ्चाशदधिकानि तैर्मागे हते लब्धानि षडशीतिर्योजनानि पञ्च षष्टिभागा योजनस्य एकस्य च षष्टिभागस्यैकषष्टिधाच्छिन्नस्य चतुर्विंशतिर्भागाः इदं च सर्वाभ्यन्तरे मण्डले एकस्य मुहूर्तैकषष्टिभागस्य गम्यं द्वितीयमण्डलपरिरयवृद्ध्यङ्कभजनाद्यल्लभ्यते मुहूर्तैकषष्टिभागेन तच्छोधनार्थमुपक्रम्यते, पूर्वपूर्वमण्डलादनन्तरानन्तरे मण्डले परिरयपरिमाणचिन्त्यामष्टादशाष्टादश योजनानि व्यवहारतः परिपूर्णानि वर्धन्ते ततः पूर्वपूर्वमण्डलगतमुहर्त्तगतिपरिमाणादनन्तरानन्तरेमण्डले मुहूर्त्तगतिपरिमाणचिन्तायां प्रतिमुहूर्तमष्टादश २ षष्टिभागा योजनस्य वर्द्धन्ते, प्रतिमुहूर्तैकषष्टिभागं चाष्टादशैकस्य षष्टिभागस्य सत्का एकषष्टिभागाः ।
?
सर्वाभ्यन्तरानन्तरे च द्वितीयमण्डले नवमुहूर्तेरेकेन मुहूर्तैकषष्टिभागेनोनैर्यात् क्षेत्रं व्याप्यते तावति स्थितः सूर्यो दृष्टिपथप्राप्तो भवति ततो नव मुहूर्ता एकषष्ट्या गुण्यन्ते जातान्यष्टानवतिशतानि चतुःषष्ट्यधिकानि, तेषां षष्टिभागानयनार्थमेकषष्ट्या भागो हियते लब्धमेकषष्ट्यधिकं शतं षष्टिभागानां त्रिचत्वारिंशत् षष्टिभागस्य सत्का एकषष्टिभागाः, तत्र विंशत्यधिकेन षष्टिभागशतेन लब्धे द्वे योजने अवशेषा एकचत्वारिंशत् षष्टिभागाः एकस्य च षष्टिभागस्य सत्कास्त्रिचत्वारिंशदेकषष्टिभागाः, एतच्च द्वे योजने एकचत्वारिंशत्वष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्कास्त्रिचत्वारिंशदेकषष्टिभागा इत्येवंरूपं प्रागुक्तात् षडशीतिर्योजनानि पञ्च षष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्काश्चतुर्विंशतिरेकषष्टिभागा इत्येतस्माच्छोध्यन्ते, शोधिते च तस्मिन् स्थितानि त्र्यशीतिर्योजनानि त्रयोविंशति षष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्का द्विचत्वारिंशकषष्टिभागाः एतावच्च सर्वाभ्यन्तरमण्डलगत दृष्टिपथप्राप्ततापरिमाणाद् द्वितीय- मण्डलगत - पथप्राप्ततापरिमाणे हीनं स्यात्, एतच्चोत्तरोत्तरमण्डलदृष्टिपथप्राप्तता चिन्तायां हानौ ध्रुवं अत एव ध्रुवराशिरित्युच्यते ।
ततो द्वितीयस्मान्मण्डलादनन्तरे तृतीये मण्डले एष एव ध्रुवराशिरेकस्य षष्टिभागस्य सत्कैः षट्त्रिंशता भागभागैः सहितोयावानू राशि स्यात्, तथाहि त्र्यशीतिर्योजनानि चतुर्विंशति षष्टिभागा योजनस्य सप्तदश च षष्टिभागस् सत्का एकषष्टिभागा इति तावान् द्वितीयमण्डलगताद् धृष्टिपथप्राप्ततापरिमाणाच्छोध्यते, ततो भवति यथोक्तमत्र मण्डले दृष्टिपथप्राप्ततापरिमाणं ।
४४२
चतुर्थ मण्डलं स एव ध्रुवराशिर्द्वासप्तत्या सहितः क्रियते, चतुर्थं हि मण्डलं तृतीयमण्डलापेक्षया द्वितीयं, ततः षट्त्रिंशद द्वाभ्यां गुणिता द्विसप्ततिः स्यात् तया सहितस्त्रयशीत्यादिको राशिः ८३ २४ / ५३/, इत्येवंस्वरूपी जातः, अयं च तृतीयमण्डलगतात् दृष्टिपथप्राप्ततापरिमामाच्छोध्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org