SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ ४४६ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/२५८ मण्डले दृष्टिपथप्राप्तता ज्ञातुमिष्यते तृतीयमण्डलादारभ्य ततन्मण्डलसङ्घययाषट्त्रिंशद्गुण्यते, तद्यथा-तृतीयमण्डलचिन्तायामेकेन चतुर्थमण्डलचिन्तायां द्वाभ्यांएवं यावत्सर्वाभ्यन्तरमण्डलचिन्तायांद्वयशीत्यधिकेनशतेन, इत्थंचगुणयित्वायल्लभ्यतेतध्रुवराशेरपनीय शेषेणध्रुवराशिना सहितं पूर्वरमण्डलगतं दृष्टिपथप्राप्ततापरिमाणं तत्र मण्डले द्रष्टव्यं । यथा तृतीये मण्डले षट्त्रिंशदेकेन गुण्यते, 'एकेन च गुणितं तदेव भवतीति जाता षट्त्रिंशदेव साध्रुवराशेरपनीयते, जातं शेषमिदं-पञ्चाशीतिर्योजनानिनवषष्टिभागायोजनस्य एकस्य च षष्टिभागस्य सत्काश्चतुर्विंशतिरेकषष्टिभागाः एतेन पूर्वमण्डलगत दृष्टिपथप्राप्तापरिमाणंएकत्रिंशत् सहस्राणि नवशतानिषोडशोत्तराणि योजनानामेकोनचत्वारिंशदेवकषष्टिभागायोजनस्य एकस्य षष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः इत्येवंरूपसहितं क्रियते कृते च तृतीये मण्डले यथोक्तं दृष्टिपथप्राप्ततापरिमाणं भवति तच्च प्रागेव प्रदर्शितं, चतुर्थे मण्डले षट्त्रिंशद द्वाभ्यां गुण्यते गुणयित्वा ध्रुवराशेरपनीय शेषेण ध्रुवराशिना तृतीयमणडलगतं दृष्टिपथप्राप्ततापरिमाणं सहितंक्रियते, ततइदंतत्र मण्डले धष्टिपथप्राप्ततापरिमाणंभवति-द्वात्रिंशत्सहस्राणि षडशीत्यधिकानि योजनानामष्टपञ्चाशत् षष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्काः एकादशैकषष्टिभागाः एवं शेषेष्वपि मण्डलेषु भावनीयं, यदा तु सर्वाभ्यन्तरे मण्डले दृष्टिपथप्राप्ततापरिमाणं ज्ञातुमिष्यते तदा षट्त्रिंशद् द्व्यशीत्यधिकेन शतेन गुण्यते । तृतीयमण्डलादारभ्य सर्वाभ्यन्तरस्स्मण्डलस्यद्व्यशीत्यधिकशततमत्वात्, ततोजातानि पञ्चषष्टिः शतानि द्विपञ्चाशदधिकानि, तेषामेकषष्ट्या भागेहते लब्धंसप्तोत्तरंशतंषष्टिभागानां शेषाः पञ्चविंशति, एतत्पञ्चाशीतिर्योजनानि नव षष्टिभागायोजनस्य एकस्यषष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः इत्येवंरूपाद् ध्रुवराशेः शोध्यते, जातानिपश्चात्त्र्यशीतिर्योजनानि द्वाविंशति षष्टिभागायोजनस्यएकस्यषष्टिभागस्य सत्काः पञ्चत्रिंशदेक-षष्टिभागाः,इहषट्त्रिंशदेकषष्टिभागाः कलया न्यूनाः परमार्थतो लभ्यन्ते, एतच्च प्रागेवोपदर्शितं, तच्च कलाया न्यूनत्वंप्रतिमण्डलं भवत् यदाद्वयशीत्यधिकशततमण्डले एकत्रपिण्डितं सचिन्त्यते तदा अष्टषष्टिरेकषष्टिभागा लभ्यन्ते ततस्ते भूयः प्रक्षिप्यन्ते ततो जातमिदंत्र्यशीतिर्योजनानि त्रयोविंशतिः षष्टिभागाः योजनस्य एकस्यषष्टिभागस्य सत्काद्विचत्वारिंशदेकषष्टिभागाः, एतेनसर्वाभ्यन्तरानन्तरद्वितीयमण्डलगतं दृष्टिपथप्राप्ततापरिमाणं सप्तचत्वारिंशत्सहस्राणि शतमेकोनाशीत्यधिकं योजनानां सप्तपञ्चाशत् षष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्का एकोनविंशतिरेकषष्टिभागाः इत्येवंरूपसहितं क्रियतेततोयथोक्तंसर्वाभ्यन्तरे मण्डले दृष्टिपथप्राप्ततापरिमाणं भवति, तच्च सप्तचत्वारिंशत्सहस्राणि द्वेशतेत्रिषष्ट्यधिके योजनानामेकविंशतिश्च षष्टिभागायोजनस्यएवं दृष्टिपथप्राप्ततायां कतिपयेषु मण्डलेषुसातिरेकाणिपञ्चाशीति र योजनानि अग्रेतनेषुचतुरशीतिर पर्यन्तेयथोक्ताधिकसहितानि त्र्यशीति योजनानि अभिवर्द्धयन् २ तावद्वक्तव्योयावत् सर्वाभ्यन्तरमण्डलमुपसंकायचारंचरति । इदं च सर्वाभ्यन्तरमण्डलं सर्वबाह्यानन्तरात् मण्डलात् पश्चानुपूर्व्या गण्यमानं त्र्यशीत्यधिकशततमं, प्रतिमण्डलं चाहारात्रगणनादहोरात्रोऽपित्र्यशीत्यधिकशततम-स्तेनाय. मुत्तरायणस्य चरमो दिवस इत्याद्यभिधातुमाह-एस णं दोच्चे छम्मासे' इत्यादि, एष द्वितीयः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy