SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ वक्षस्कार:- १ इणट्टे समट्ठे" अत्र व्याख्या - स यथानामकः प्रातः सन्ध्यायां देवतायाः पुरतो या वादनायोपस्थाप्यते सा किल मङ्गलपाठिका, तालाभावे च वाद्यते इति विताले ---तालाभावे भवतीति वैतालिकी तस्या वैतालिक्या वीणाया 'उत्तरमंदामुच्छियाए' इति मूर्च्छनं मूर्च्छा सा सञ्जाता अस्या इति मूर्च्छिता उत्तरमन्दया- उत्तरमन्दाभिधया गन्धारस्वरान्तरगतया सप्तम्या मूर्च्छनया मूर्च्छता तस्याः, अयमाशयःगन्धारस्वरस्य सप्त मूर्च्छना भवन्ति, तथाहि 119 11 "नंदी य खुड्डिमा पूरिमा य चोत्थी य सुद्धगंधारा । उत्तरगंधारावि अ हवई सा पंचमी मुच्छा ॥ सुत्तरमायामा छट्ठी सा नियमसो उ बोद्धव्वा । उत्तरमंदाय तहा हवई सा सत्तमी मुच्छा ॥ ४१ ॥२॥ अथ किंस्वरूपा मूर्च्छना ?, उच्यते, गन्धारादिस्वरस्वरूपामोचनेन गायतोऽतिमधुरा अन्यान्यस्वरविशेषा यान् कुर्वन् आस्तां श्रोतॄन् मूर्च्छितान् करोति किन्तु स्वयमपि मूर्च्छित इव तान् करोति, यदिवा स्वयमपि साक्षान्मूर्च्छा करोति, यदुक्तम् 119 11 “अन्नन्नसरविसेसे उप्पावंतस्स मुच्छणा भणिया । कत्तावि मुच्छिओ इव कुणए मुच्छंव सो वत्ति ।।" गन्धारस्वरान्तर्गतानां च मूर्च्छनानां मध्ये सप्तमी उत्तरमन्दा मूर्च्छना किलातिप्रकर्षप्राप्ता ततस्तदुपादानं, तया च मुख्यवृत्या वादयिता मूर्च्छितो भवति परमभेदोपचाद्वीणापि मूर्च्छितेत्युक्ता, साऽपि यद्यङ्के सुप्रतिष्ठिता न भवति ततो न मूर्च्छना प्रकर्ष विदधाति तत आह-अङ्के उत्सङ्गे स्त्रीयाः पुरुषस्य वा सुप्रतिष्ठितायाः तथा कुशलेन-वादननिपुणेन नरेण नार्या वा सुष्ठु अतिशयेन सम्यक्प्रगृहीतायाः तथा चन्दनस्य सारो - गर्भस्तेन निर्मापितो यः कोणो-वादनदण्डः तेन परिघट्टितायाः - संघट्टिताया: प्रत्यूषकालसमये - प्रभातकालसमये, कालश्च वर्णोऽपि स्यादत आह-‘समयेति' समयश्च सङ्केतोऽपि स्यात आह- 'काले' ति मंदं मंदं-शनैः शनैः एजितायाःचन्दनसारकोणेन मनाक् कम्पितायाः तथा व्येजितायाः - विशेषतः कम्पितायाः, एतदेव पर्यायेण व्याचष्टे-चालितायाः तथा घट्टिताया: - ऊर्ध्वाधोगच्छता चन्दनसारकोणेन गाढतरं वीणादण्डेन सह तन्त्रयाः स्पृष्टाया इत्यर्थः, तथा स्पन्दितायाः नखाग्रेण स्वरविशेषोत्पादनार्थमीषच्चालितायाः क्षोभितायाः मूर्च्छा प्रापिताया ये उदारा मनोहरा मनोज्ञाः कर्णमनोनिर्वृतिकराः सर्वतः समन्ताच्छब्दा अभिनिस्सरन्ति, स्यात्-कथञ्चिद्भवेदेतद्रूपस्तेषां मणीनां तृणानां च शब्दः ?, भगवानाह - गौतम नायमर्थः समर्थः । पुनरपि गौतम - प्राह - 'से जहानामए किंनराण वा किंपुरिसाण वा महोरगाण वा गंधव्वाण वा भद्दसालवणगयाण वा नंदनवनगयाण वा सोमनसवनगयाण वा पंडगवनगयाण वा महाहिमवंत मलयमंदरगिरिगुहासमन्नागयाण वा एगओ सहियाणं संमुहागयाणं समुपविट्ठाणं सन्निविद्वाणं पमुइयपक्कीलियाणं गीयरइ गंधव्वहरिसिअमणाणं गेजं पज्जं कत्थं पयबद्धं पायबद्धं उक्खित्तायं पवत्तायं मंदायं रोइयावसाणं सत्तसरसमण्णागयं अट्ठरससंपउत्तं इक्कारसालंकारं उद्दोसविष्पमुक्कं अट्ठगुणोववेयं रत्तं तिङ्काणकरणसुद्धं सकुहरगुंजंतवंसतंतीतलताललयग्गहसुसंपउत्तं महुरं समं सुललिअं मनोहरमउयरिभियपयसंचारं सुरई सुणइ वरचारुरूवं दिव्वं नट्टसज्जं गेयं पगीयाणं, भवे एयारूवे सिया ?, गो० ! एवंभूए सिआ,' अत्र व्याख्या For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy