________________
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् १/६ स यथानामकः किन्नराणां वा किंपुरुषाणां वा महोरगाणां वा गन्धर्वाणां वा, वाशब्दाः सर्वेऽपिविकल्पार्थाः, एते किन्नरादयोरत्नप्रभायाः उपरितनयोजनसहस्रवर्त्तिव्यन्तरनिकायाष्टकमध्यगतपञ्चमषष्ठसप्तमाष्टमनिकायरूपा व्यन्तरविशेषाः, तेषां कथम्भूतानामित्याहभद्रशालवनगतानां वा इत्यादि, तत्र मेरोः समन्ततो भूमौ भद्रशालवनं, तत्र प्रथममेखलायां नन्दनवनं, द्वितीयमेखलायां सोमनसवनं, शिरसि चूलिकायाः पार्वेषु सर्वतः पण्डकवनं तत्र गतानां, महाहिमवान्-हेमवतक्षेत्रस्योत्तरतः सीमाकारी वर्षधरपर्वतस्तस्य, उपलक्षणं चैतत् शेषवर्षधरपर्वतानांमलयपर्वतस्य मन्दरगिरेश्च मेरुगिरेगुहांसमन्वागतानां गुहाप्राप्तानां, वाशब्दा विकल्पार्था, एतेषु स्थानेषुप्रायः किन्नरादयः प्रमुदिता भवन्तिततएतेषामुपादानं, एकतः-एकस्मिन् स्थाने सहितानां-समुदितानांतथा परस्परं सम्मुखागतानां सम्मुखं स्थितानां नैकोऽपि कस्यापि पृष्ठं दत्वा स्थित इत्यर्थः, पृष्ठदाने हर्षविघातोत्पत्तेः,तथा सम्यक्-परस्परानाबाधया उपविष्टाःसमुपविष्टास्तेषां।तथासन्निविष्टानां सम्यक् स्वशरीरानाबाधयानतुविषमसंस्थानेन निविष्टास्तेषां, तथा 'प्रमुदितप्रक्रीडितानां' प्रमुदिताः-हर्षे गताः प्रक्रीडिताः-क्रीडितुमारब्धवन्तस्ततो विशेषणसमासः तेषां, तथा गीतेरतिर्येषातेगीतरतयो गन्धर्वैकृतंगान्धर्वनाट्यादितत्रहर्षितमनसः गान्धर्वहर्षित- मनसः, ततः पूर्वपदेन विशेषणसमासस्तेषां, 'रागगीत्यादिकं गीतं पदस्वरतालावधानात्मकंगान्धर्व' मिति भरतादिशास्त्रवचनात् गद्यादिभेदादष्टधागेयं, तत्र गधं यत्र स्वरसञ्चारेण गद्यं गीयते यत्र तु पद्यं वृत्तादि यद् गीयते तत्पद्यं यत्र कधिकादि गीयते तत् कथ्यं पदबद्धं यदेकाक्षरादि यथा तेतेइत्यादि पादबद्धं यदृत्तादिचतुर्भागमात्रे पादे बद्धं उलिप्तकं प्रथमतः समारभ्यमाणं, अत्र ककारात्पूर्वं दीर्घत्वं प्राकृतत्वात्, एवमुत्तरत्रापि द्रष्टव्यं, प्रवृत्तकं ।
प्रथमसमारम्भादूर्ध्वमाक्षेपपूर्वकं प्रवर्त्तमानं, तथा मन्दाकं मध्यभागे सकलमूर्च्छनादिगुणोपेतं मन्दं मन्दं सञ्चरन् अथवा मन्दमयते-गच्छति अतिपरिघोलनात्मकत्वात् मन्दायं रोचितावसानं-रोचितं अवसानं यस्य तत् शनैः २ प्रक्षिप्यमाणस्वरं यस्य गेयस्यावसानं तद्रोचितावसानमित्यर्थः, इह हि पद्यंपादबद्धं चैक एव भेदः, उभयत्रापि वृत्तरूप-तानतिक्रमात्, तेन गेयस्याष्टप्रकारताकथनं न विरुद्धमिति, तथा सप्त स्वराः षडादयः, उक्तं च॥१॥
“सज्जे रिसह गंधारे, मज्झिमे पंचमे सरे।
धेवए चेव नेसाए, सरा सत्त विआहिआ॥" ते च सप्त स्वराः पुरुषस्य स्त्रीया वा नाभीतः समुद्भवन्ति, 'सत्त सरा नाभीओ' इति पूर्वमहर्षिवचनात्, तथा अष्टमी रसैः-श्रृङ्गारादिभि सम्यक्-प्रकर्षणयुक्तं, तथा एकादशालङ्काराः पूर्वान्तर्गते स्वरप्राभृते सम्यगभिहितास्तानि च पूर्वाणि सम्प्रति व्यवच्छिन्नानि तेन तेभ्यो लेशो विनिर्गतानि यानि भरतविशाखिलप्रभृतीनि तेभ्यो वेदितव्याः, तथा 'षडदोषविप्रमुक्त' षड्भिर्दोषैर्विप्रमुक्तं, ते चामी षड्दोषाः॥१॥ “भीअं१ दुअ२ मुप्पिच्छं ३ उत्तालं च कमसो मुणेयव्वं ।
काकस्सरमणुण्णासं ६छद्दोसा हुंति गेयस्स ॥" अत्र व्याख्या-भीतं-उत्त्रस्तं, किमुक्तं भवति?-यत् उत्रस्तेन मनसा गीयते तद्भीतपुरुषनिबन्धनत्वात् तद्धर्मानुवृत्तत्वाभीतमुच्यते, द्रुतं यत् त्वरितं गीयते, त्वरितगाने हि
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only