________________
४०२
जम्बूद्वीपप्रज्ञप्ति-उपासूत्रम् ५/२२९
इत्युक्तमिति ये आहुस्ते आगमसाम्मत्यं युक्तिसाङ्गत्यं च प्रष्टव्याः ।
उपागत्य च योजनशतसाहस्रकैः-योजनलक्षप्रमाणैर्विग्रहै:-क्रमैरिवगंतव्यक्षेत्रातिक्रमरूपैः, एतेन स्थावरस्वरूपस्य विमानस्य पदंयासरूपाः क्रमाः कथं भवेयुरिति शङ्का निरस्ता, अवपतन् अवपतन्तयोत्कृष्टया यावत्करणात् 'तुरिआए' इत्यादिग्रहः, देवगत्या व्यतिव्रजन् २ तिर्यगसंख्येयानांद्वीपसमुद्राणांमध्यंमध्येन यत्रैव नंदीश्वरवरद्वीपो यत्रैवस्यैव पृथुत्वमध्यभागे दक्षिणपूर्व-आग्नेयकोणवर्तीरतिकरपर्वतस्तत्रैवोपागच्छति,इदंचस्थानांगाद्याशयेनोक्तं, अंयथा प्रवचनसारोद्धारादिषु पठ्यमानानां पूर्वाद्यञ्जनगिरिविदिग्व्यवस्थितवापीद्वयद्वयांतपराले बहिकोणयोप्रत्यासत्तौ प्रत्येकं द्वयरमावेनतिष्ठतामष्टानांरतिकरपर्वतानांमध्ये विनिगमनाविरहात् कतरोरतिकरपर्वतोदक्षिणपूर्वस्यादिति, ननु सौधर्मादवतरतः शक्रस्य नंदीश्वरद्वीप एवावतरणं युस्तिमत्, नपुनरसंख्येयद्वीपसमुद्रातिक्रमेण तत्रागमनमिति, उच्यते, निर्याणमार्गस्यासंख्याततमस्य द्वीपस्य वा समुद्रस्य वा उपरिस्थितत्वेन सम्भाव्यमानत्वात् तत्रावतरणं, ततश्च नंदीश्वराभिगमनेऽसंख्याद्वीपसमुद्रातिक्रमणं युक्तिमदेवेति, अत्र दृष्टांताय सूत्र।
एवंजाचेव'त्ति एवमुक्तरीत्या यैव सूर्याभस्य वक्तव्यतायथा सूर्याभः सौधर्मकल्पादवतीर्णस्तथाऽयमपीत्यर्थः, नवरं अयं भेदः-शक्राधिकारोवक्तव्यः-सौधर्मेद्रानाम्नासर्व वाच्यम् 'जावतंदिव्य इत्यादि, प्रायोव्यक्तं, नवरमत्र प्रथमयावच्छब्दो दृष्टांतविषयीकृतसूर्याभाधिकारस्यावधिसूचनार्थः, सचावधिर्विमानप्रतिसंहरणपर्यतो वाच्यः, द्वितीययावच्छब्दो 'दिव्वं देवजुई दिव्वं दिव्वाणुभावं' इति पदद्वयग्राही, अस्यचायमर्थ-दिव्यां देवर्द्धि-परिवारसम्पदं स्वविमानवर्जसौधर्मकल्पवासिदेवविमानानां मेरौ प्रेषणात्, तथा दिव्यां देवद्युतिं शरीराभरणादिहासेन तथा दिव्यं देवानुभावं देवगतिहस्वताऽऽपादनेन, तथा दिव्यंयानविमानं पालकनामकंजंबूद्वीपपरिमाणंयूनविस्तरायामकरणेन प्रतिसंहरन् २-संक्षिपन् संक्षिपन्निति, तृतीययावच्छब्दो 'जेणेव जंबुद्दीवे दीवे जेणेव भरहे वासे' इति ग्राहकः, ननु पूर्वत्रिसोपानप्रतिरूपकेणोत्तारः शक्रस्योक्तोऽपरभ्यां केषामुत्तार इत्याह-'तए णं सक्कस्स देविंदस्स देवरन्नो' इत्यादि व्यक्तम् । अथ शक्रः किमकार्षीदित्याह-'तएणंसे सक्के देविंदे देवराया चउरासीए'इत्यादि, कण्ठ्यं, यावत्पदसंग्राह्यतुपूर्वसूत्रानुसारेण बोध्यं, यदवादीत्तदाह-'नमुत्थुते इत्यादि, नमोऽस्तुतुभ्यं रलकुक्षिधारिके! एवंप्रकारं सूत्रं यथा दिक्कुमार्य आहुस्तथाऽवादीदित्यर्थः, यावच्छब्दादिदंग्राह्यम्-जगप्पईवदाईएचक्खुणो अमुत्तस्स सब्बजग-जीववच्छलस हिअकारगमग्गदेसिअवागिद्धिविभुप्पभुस्स जिनस्स नाणिस्स नायग्सस् बुद्धस्स बोहगस्स सव्वलोगणाहस्स सव्वजगमङ्गलस्स णिम्ममस्स पवरकुलसमुप्पभवस्सजाईएखत्तियस्सजंसिलोगुत्तमस्सजननीति, कियत्पर्यतमित्याह-धंयाऽसि पुण्याऽसि त्वं कृतार्थाऽसि, अहं देवानुप्रिये ! शक्रो नाम देवेंद्रो देवराजा भगवतस्तीर्थकरस्य जंममहिमा करिष्यामि, तन युष्माभिर्न भेतव्यमितिकृत्वा अवस्वापिनीं ददाति-सुते मेरुं नीते सुतविरहात मा दुःखभागभूदिति दिव्यनिद्रया निद्राणां करोतीत्यर्थः ।
दत्वाचतीर्थकरस्य मेरु नेतव्यस्यभगवतः प्रतिरूपकं-जिनसशं रूपं विकुर्वति, अस्मासु मेरु गतेषु जंममहव्यापृतिव्यग्रेषुआसन्नदुष्टदेवतया कुतूहलादिनाऽपहतनिद्रा सतीमा इयं तथा भवत्विति भगवद्रूपानिर्विशेष रूपं विकुर्वतीत्यर्थः, विकुळ च तीर्थकरमातुः पार्वे स्थापयति स्थापयित्वा च पञ्च शक्रान् विकुर्वति, आत्मना पञ्चरूपो भवतीत्यर्थः, विकुळ च तेषां पञ्चानां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org