SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः - ५ ४०३ मध्ये एकः शक्रो भगवंतं तीर्थकरं परमशुचिना सरसगोशीर्षचंदनलिप्तेन धूपवासितेनेति शेषः करतलयोः-- ऊर्ध्वाधोव्यवस्थितयोः पुटं सम्पुटं शुक्तिकासम्पुटमिवेत्यर्थः तेन गृह्णाति एकः शक्रः पृष्ठत आतपत्रं-छत्रं धरति द्वौ शक्रावुभयोः पार्श्वयोश्चामरोत्क्षेपं कुरुतः एकः शक्रः पुरतो वज्रपाणि सन् प्रकर्षति - निर्गमयति, आत्मानमिति शेषः, अग्रतः प्रवर्त्तत इत्यर्थः, अत्र च सत्यपि सामानिकादिदेवपरिवारे यदिंद्रस्य स्वयमेव पञ्चरूपविकुर्वणं तत् त्रिजगदुरोः परिपूर्णसेवालिसुत्वेनेति । अथ यथा शक्रो विवक्षितस्थानमाप्नोति तथा आह-- ततः स शक्रो देवेंद्रो देवराजा अयैर्बहुभिर्भवनपतिवान- मंतरज्योतिष्कवैमानिकैर्देवैर्देवीभिश्च सार्द्ध सम्परिवृतः सर्वद्धर्या यावत्करणात् 'सव्वजुईए' इत्यादि पदसङ्ग्रहः पूर्वोक्तो ज्ञेयः, तयोत्कृष्टया यावत्करणात् 'तुरिआए' इत्यादिग्रहः व्यतिव्रजन् २ यत्रैव मंदरपर्वतो यत्रैव च पण्डकवनं यत्रैव चाभिषेकशिला यत्रैव चाभिषेकसिंहासनं तत्रैवोपागच्छति उपागत्य च सिंहासनवरगतः पूर्वाभिमुखः सनिषण्ण इति, पालकविमानं च गृहीतस्वामिकस्य स्वस्वामिनः पादचारित्वेन तमनुव्रजतां देवानामप्यनुपयोगित्वभिषेकशिलायां यावदनुव्रजदभूदिति सम्भाव्यते । मू. (२३०) तेणं कालेणं तेणं समएणं ईसाणे देविंदे देवराया सूलपाणी वसभवाहणे सुरिंदे उत्तरद्धलोगाहिवई अट्ठावीसविमाणवाससय सहस्साहिवई अरयंवरवत्थघरे एवं जहासके एवं जहा सके इमं नाणतं महाघोसा घंटा लहुपरक्कमो पायत्ताणियाहिवई पुष्फओ विमाणकारी दक्खिणे निजाणमग्गे उत्तरपुरत्थिमिल्लो रइकरपव्वओ मंदरे समोसरिओ जाव पङ्खुवासइत्ति, एवं अवसिट्ठावि, इंदा भाणिअव्वा जाव अछुओत्ति, इमं नाणत्तं वृ. 'तेणं कालेणमित्यादि, तस्मिन् काले सम्भवज्ञ्जिनजन्मके तस्मिन् समये दिक्कुमारीकृत्यानं तरीये न तु शक्रागमनानंतरीये सर्वेषामिंद्राणां जिनकल्याणकेषु युगपदेव समागमनारम्भस्य जायमानत्वात्, यत्तु सूत्रे शक्रागमनानंतरीयमीशानेंद्रागमनमुक्तं तत्क्रमेणैव सूत्रबंधस्य सम्भवात्, ईशानो देवेंद्रो देवराजा शूलपाणिर्वृषभवाहनः सुरेंद्र उत्तरार्द्धलोकाधिपति, मेरोरुत्तरतोऽस्यैवा-धिपत्यात्, अष्टाविशतविमानावासशतसहस्रधिपति अरजांसि - निर्मलानि अम्बरवस्त्राणि - स्वच्छ- तयाऽऽकाशकल्पानि वसनानि धरति यः स तथा, एवं यथा शक्रः सौधर्मेद्रस्तथाऽयमपि, इदमत्र नानात्वं- विशेषः महाघोषा घंटा लघुपराक्रमनामा पदात्यनीकाधिपति पुष्पकनामा विमानकारी दक्षिणा निर्याणभूमि उत्तरपौर्तयो रतिकरपर्वतः मंदरे समवसृतः-सभागतः यावत्पदात् 'भगवंतं तित्थयरं तिक्खुत्तो आयाहिणपयाहिणं केरइ २ त्ता वंदइ नमसइ वंदित्ता नमसित्ता नच्चासण्णे णाइदूरे सुस्सूसमाणे नम॑समाणे अभिमुहे विनएणं पंजलिउडे' इति, पर्युपास्ते । - अथातिदेशेनावशिष्टानां सनत्कुमारादद्राणां वक्तव्यमाह - 'एवं अवसिठ्ठावि' इत्यादि, एवं सौधर्मेशानेंद्ररीत्या अवशिष्टा अपि इंद्रा वैमानिकानां भणितव्याः यावदच्युतेंद्र:- एकादशद्वादशकल्पाधिपतिरिति, अत्र यो विशेषस्तमाह- इदं नानात्वं भेदः, चतुरशीति सहस्राणि शक्रस्य अशीति सहस्रमीशानेंद्रस्य द्विसप्तति सहस्राणि सनत्कुमारेंद्रस्य एवं सप्ततिमहिंद्रस्य चः समुच्चये षष्टिर्ब्रह्मेद्रस्य चः प्राग्वत् पञ्चाशल्लांतकेंद्र चत्वारिंशच्छुक्रेद्रस्य त्रिंशत्सहस्रारेंद्रस्य विंशतिरानतप्राणतकल्पद्विकेंद्रस्य दशारणाच्युतकल्पद्विकेंद्रस्य, एते संख्याप्रकाराः सामानिकाना देवानां क्रमेण दशकल्पेंद्रसम्बधिनामिति । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy