________________
वक्षस्कारः-५
४०१
सीहासणे तेणेव उवागच्छइ २ त्ता' इति ग्राह्य, सिंहासने पूर्वाभिमुखः सन्निषण्ण इति।अथास्थानं सामानिकादिभि यथापूर्यतेतथाऽऽह-‘एवं चेव'इत्यादि, व्यक्तं, नवरंअवशेषाश्च-आभ्यंतरपार्षद्यादयः । अथ प्रतिष्ठासोः शक्रस्य पुरः प्रस्थायिनां क्रममाह--
'तए णं तस्स'इत्यादि, एतदव्याख्या भरतचक्रिणोऽयोध्याप्रवेशाधिकारतो ज्ञेया, 'तए ण'मित्यादि, तदनन्तरं छत्र च भृङ्गारंच छत्रभृङ्गारं सामाहारदेकवद्भावः, छत्रंच 'वेरुलिअभिसंतविमलदण्ड'मित्यादिवर्णकयुक्तं भरतस्यायोध्याप्रवेशाधिकारतो ज्ञेयं, भृङ्गारश्च विशिष्टवर्णकचित्रोपेतः, पूर्व च भृङ्गारस्य जलपूर्णत्वेन कथनात् अयं च जलरिक्तत्वेन विवक्षित इति नपौनरुक्त्यं, तदनंतरंवज्रमयो-रत्नमयःतथा वृत्तं-वर्तुलंलष्टं-मनोज्ञ संस्थितं-संस्थानं आकारो यस्य स तथा, तथा सुश्लिष्टः-सुश्लेषापन्नावयवो मसृण इत्यर्थः परिघृष्टइवपरिघृष्टः खरशाणया पाषाणप्रतिमावत् मृष्ट इवमृष्टः सुकुमारशाणयापाषाणप्रतिमेव सुप्रतिष्ठितोनतुतिर्यपतितया वक्रस्तत एतेषां पदद्वयरमीलनेन कर्मधारयः, अत एव शेषध्वजेभ्यो विशिष्टः- अतिशायी, तथाऽनेकानिवराणि पश्चवर्णानि कुडभीनां-लघुपताकानांसहस्राणितैः परिमण्डितः-अलंकृतः सचासावभिरामश्चेति, वातोद्भूतेत्यादिविशेषणद्वयंव्यक्तं, तथा गगनतलं-अम्बरतलमनुलिखत्संस्पृशत् शिखरं-अग्रभागो यस्य स तथा, योजनसहनमुत्सृतोऽत एवाह
'महइमहालए इति अतिशयेन महान् महेंद्रध्वजः पुरतो यथानुपूा सम्प्रस्थित इति, 'तएणमित्यादि, तदनंतरं स्वरूपं स्वकर्मानुसारिनेपथ्यं वेषः परिकच्छितः परिगृहीतो यैस्तानि तथा, सुसज्ञानिपूर्णसामग्रीकतया प्रगुणानि सर्वालङ्गारविभूषितानि पञ्चानीकानि पञ्चानीकाधिपतयश्च पुरतो यथानुपूा सम्पस्थितानि, 'तयनन्तरं च णमित्यादि, तदनंतरं बहवः
आभियोगिका देवाश्च देव्यश्च स्वकैः स्वकैः रूपैः यथास्वकर्मोपस्थितैरुत्तरवैक्रियस्वरूपैयविच्छब्दास्वकैः स्वकै विभवैः यथास्वकर्मोपस्थितैर्विभवैः-सम्पत्तिभि स्वकैर्नियोगः-उपकरणैः शक्रं देवेंद्र देवराज पुरतश्च मार्गतश्च-पृष्ठतः पार्वतश्च उभयोः ययानुपूर्व्या-ययावृद्धक्रमेण सम्प्रस्थिताः,तदनंतरं बहवः शीधर्मकल्पवासिनो देवाश्च देव्यश्च सर्वद्धर्या यावत्करणादिंद्रस्यहरिनिगमेषिणंपुरःस्वाज्ञप्तिविषयक प्रागुक्तआलापको ग्राह्यः तेन स्वानि२ यानविमानवाहनानि आरूढाः संतो मार्गतश्च यावच्छब्दात् पुरतः पार्वतश्च शक्रस्य सम्प्रस्थिताः । ____ अथ यथा शक्रः सौधर्मकल्पानियोति तथा चाह-- ततः स शक्रस्तेन-प्रागुक्तस्वरूपेण पञ्चभिः संग्रामिकैरनीकैः परिक्षिप्तेन-सर्वतः परिवृतेन यावत् पूर्वोक्तः सर्वो महेंद्रध्वजवर्णको ग्राह्यः, महेंद्रवजेनपुरतः प्रकृष्यमाणेन-निर्गम्यमानेचतुरशीत्या सामानि-कसहस्रर्यावत्करणात् 'चउहिं चउरासीहिआयरक्खदेवसाहस्सीहिं' इत्यादि ग्राह्य, परिवृतः सर्वद्धर्यायावद्रवेण यावत्करणात् 'सब ईए' इत्यादिप्रागुक्तंग्राह्यं, सौधर्मस्य कल्पस्य मध्यंमध्येन तांदिव्यां देवर्द्धि यावच्छब्दाद् 'दिब्बं देवजुइंइत्यादि ग्रहः, सौधर्मकल्पवासिनं देवानुमुपदर्शयन् २ यत्रैव सौधर्मकल्पस्योत्तराहोनिर्याणमार्गो-निर्गमनसम्बंधीपंथास्तत्रैवोपा-गच्छति, यथावरयितानागराणां विवहोत्सवस्फातिदर्शनार्थं राजपथेयातिनतुनष्टरथ्यादौतथाऽयमपि, एतेन समग्रदेवलोकाधारभूतपृथिवीप्रतिष्ठितविमाननिरुद्धमार्गत्वेनेतस्ततः सञ्चरणा-भावेन मध्यंमध्येनेति उत्तरिल्ले निजाणमग्गे [13/26
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org