________________
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ५ / २२६ तैलमभ्यंजयंतीत्यर्थः अभ्ययित्वा च सुरभिणा गंधवर्त्तकेन गंधद्रव्याणां - उत्पलकुष्ठादीनामुद्वर्त्तकेन - चूर्णपिण्डेन गंधयुक्त गोधूमचूर्णपिण्डेन वा उद्वर्त्तयन्ति प्रक्षिततैलापनयनं कुर्वन्ति उद्वर्त्य च भगवन्तं तीर्थकरं करतलपुटेन तीर्थकरमातरं च बाह्वोर्गृह्णन्ति गृहीत्वा च यत्रैव पौरस्त्यं कदलीगृहं यत्रैव चतुःशालं यत्रैव च सिंहासनं तत्रैवोपागच्छंति उपागत्य च भगवन्तं तीर्थकरं तीर्थकरमातरं च सिंहासने निषादयन्तिनिषाद्य च त्रिभिरुदकैर्मज्जयंति - स्नपयंति, तान्येव त्राणि दर्शयति- 'तद्यथे' त्यादिना, गंधोदकेन- कुंकुमादिमिश्रितेन पुष्पोदकेन जात्यादिमिश्रितेन शुद्धोदकेन - केवलोदकेन, मज्जयित्वा सर्वालङ्कारविभूषितौ कुर्वन्ति, मातृपुत्राविति शेषः, कृत्वा च भगवन्तं तीर्थकरं करतलपुटेन तीर्थकरमातरंच बाहाभिर्गृह्णन्ति गृहीत्वा च यत्रैवोत्तराहं कदलीगृहं यत्रैव च चतुःशालकं यत्रैव च सिंहासनं तत्रैव उपागच्छति उपागत्य च भगवन्तं तीर्थकरं तीर्थकरमातरं च सिंहासने निषादयन्ति निषाद्य च आभियोगान् देवान् शब्दयन्ति शब्दयित्वा च एवमावादिषुः - क्षिप्रमेव भो देवानुप्रियाः ! क्षुद्रहिमवतो वर्षधर पर्वताद् गोशीर्षचन्दनकाष्ठानि संहरतसमानयत, ततस्ते आभियोगा देवास्ताभी रुचकमध्यवास्तव्याभिश्चतसृभिर्दिक्कुमारीमहत्तरिकाभिरेवं - अनन्तरोक्तमुक्ताः - आज्ञप्ताः सन्तः हृष्टतुष्ट इत्यादि यावद् विनयेन वचनं प्रतीच्छंतिअङ्गीकुर्वन्ति प्रतीष्य च क्षिप्रमेव क्षुद्रहिमवतो वर्षधरपर्वतात् सरसानि गोशीर्षचन्दनकाष्ठानि संहरन्ति ।
३९२
ततस्ते मध्यरुचकवास्तव्याश्चतनो दिक्कुमारीमहत्तरिकाः शरकं शरप्रतिकृति- तीक्ष्णमुखमग्न्युत्पादकं काष्ठविशेषं कुर्वन्ति कृत्वा च तेनैव शरकेन सह अरणि-लोकप्रसिद्धं काष्ठविशेषं घटयन्ति-संयोजयन्ति, घटयित्वा च शरकेनाग्निं मथ्नन्ति, मथित्वाच अग्निं पातयन्ति, पातयित्वा च अग्निसन्धुक्षन्ति - सन्दीपयन्ति, सन्धुक्ष्य च गोशीर्षचन्दनकाष्ठानि प्रस्तावात् खण्डशः कृतानीति बोध्यं याशैश्चन्दनकाष्ठैरग्निरुद्दीपितः स्यात् ताध्शानीतिभावः, प्रक्षिपन्ति प्रक्षिप्य पूर्वोहि काष्ठप्रक्षेपोऽग्न्युद्दीपनाय अयं च रक्षाकरणायेति विशेषः, प्रक्षिप्य च अग्निहोमं कुर्वन्ति,
कृत्वा च भूतेः - भस्मनः कर्म- क्रिया तां कुर्वन्ति, येन प्रयोगेणेन्धनानि भस्मरूपाणि भवन्ति तथा कुर्वन्तीत्यर्थः कृत्वा च जिनजनन्योः शाकिन्यादिदुष्टदेवताभ्यो द्दगदोषादिभ्यश्च रक्षाकरी पोट्टलिकां बध्नन्ति, बध्ध्वा च नानामणिरत्नानां भक्ती - रचना तया विचित्रौ द्वौ पाषाणवृत्तगोलकी पाषाणगोलकावित्यर्त गृह्णन्ति गृहीत्वा च भगवतस्तीर्थकरस्य कर्णमूले टिट्टिआवेंतीत्यनुकरणशब्दोऽयं तेन टिट्टिआवेंति- परस्परं ताडनेन टिट्टीतिशब्दोत्पादनपूर्वकं वादयन्तीत्यर्थः ।
अनेन हि बाललीलावशादन्यत्र व्यासक्तं भगवन्तं वक्ष्यमाणाशीर्वचन श्रवणे पटुंकुर्वन्तीति भाव:, तथा कृत्वा च भवतु भगवान् पर्वतायुः २ इत्याशीर्वचनं ददतीति, ततः उक्तसकलकार्यकरणानन्तरं ता रुचकमध्यवास्तव्याश्रतम्रो दिक्कुमारीमहत्तरिका भगवन्तं तीर्थकरं करतलपुटेन तीर्थकरमातरं च बाहाभिर्गृह्णन्ति गृहीत्वा च यत्रैव भगवतस्तीर्थकरस्य जन्मभवनं तत्रैवोपागच्छंति उपागत्य च तीर्थकरमातरं शय्यायां निषादयन्ति निषाद्य च भगवन्तं तीर्थकरं मातुः पार्श्वे स्थापयन्ति, स्थापयित्वा च नातिदूरासन्नगा आगायन्त्यः परिगायन्त्यस्तिष्ठन्ति, एतासां च मध्येऽष्टावधोलोकवासिन्यो गजदन्तगिरिणामधोभवनवासिन्यः, यत्वेतदधिकारसूत्रे 'सएहिं २ कूडेहिं' इति पदं तदपरसकलदिक्कुमार्यधिकारसूत्रपाठसंरक्षणार्थं, साधारणसूत्रपाठे हि यथासम्भवं विधिनिषेधौ समाश्रयणीयाविति, ऊर्ध्वलोकवासिन्योऽष्टौ नन्दनवने योजनपञ्चशतिककूटवासिन्यः अन्याश्च
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org