________________
वक्षस्कारः - ५
३९१
रयणभत्तिचित्ते दुविहे पाहाणवट्टगे गहाय भगवओ तित्थयरस्स कण्णमूलंमि टिट्टिआणिवंति भवउ भयवं पव्वयाउए २ ।
तए णं ताओ रुअगमज्झवत्थव्वाओ चत्तारि दिसाकुमारीमहत्तरिआओ भयवं तित्थयरं करयलपुडेणं तित्थयरमायरं च बाहाहिं गिण्हंति गिण्हित्ता जेणेव भगवओ तित्थयरस्स जम्मणभवणे तेणेव उवागच्छंत २ त्ता तित्ययरमायरं सयमिज्जसि निसी आविंति निसीआवित्ता भयवं तित्थयरं माउए पासे ठवेति ठवित्ता आगायमाणीओ परिगायमाणीओ चिट्ठतीति ।
वृ. कूटव्यवस्था तथैव, उत्तररुचकागतत्वाजिनजनन्योरुत्तरदिग्भागे चामरहस्तगता आगायन्त्यः परिगायन्त्यसतिष्ठन्ति । अथ विदिगरुचकवासिनीनामागमनावसरः
'तेणं काले 'मित्यादि, व्यक्तं, नवरं विदिगरुचकवास्तव्यास्तस्यैव रुचकपर्वतस्य शिरसि चतुर्थे सहस्रे चतसृषु विदिक्षु एकैकं कूटं तत्र वासिन्यश्चतत्र विदिककुमार्यो यावद् विहरन्ति, इमाश्च स्थानाङ्गे विद्युत्कुमारीमहत्तरिका इत्युक्ता इति, एतासां चैशान्यादिक्रमेणनामान्येवं - चित्रा १ चः समुच्चये चित्रकनका २ शतेरा ३ सौदामिनी ४ तथैव यावन्न भेतव्यमितिकृत्वा, विदिगागतत्वात् भगवतस्तीर्थकरस्य तीर्थकरमातुश्च चतसृषु विदिक्षु दीपिकाहस्तगता आगायन्त्यः परिगायन्त्यस्तिष्ठन्तीति । अथ मध्यरुचकवासिन्य आगमितव्याः
तस्मिन्काले तस्मिन् समये मध्यरुचकवास्तव्या मध्यभागवर्त्तिरुचकवासिन्यः, कोऽर्थः ? - चतुर्विंशत्यधिकचतुः सहस्रप्रमाणे रुचकशिरोविस्तारे द्वितीयसहने चतुर्दिग्वर्त्तिषु चतुर्षु कटेषु पूर्वादिक्रमेण चतस्रस्ता वसन्तीत्यर्थः, श्री अभयदेवसूरयस्तु षष्ठाङ्गवृत्तो मल्लयध्ययने 'मज्झिमरु अगवत्थव्वा' इत्यत्र रुचकद्वीपस्याभ्यन्तरार्द्धवासिन्य इत्याहुः, अत्र तत्वं बहुश्रुतगम्यं, चतस्रो दिक्कुमारिका यावद् विहरन्ति तद्यथा - रूपा १ रूपासिका २ सुरूपा ३ रूपकावती ४, तथैव युष्माभिर्न मेतव्यमितिकृत्वा भगवतीस्तीर्थकरस्य चतुरंगुलवर्जं नाभिनालं कल्पयन्ति कल्पयित्वा च विदरकं गर्त्ता खनन्ति खनित्वा च विदरके कल्पितां तां नाभिं निधानयन्ति, निधानयित्वा च रत्तनैश्च वज्रेश्च प्राकृतत्वाद् विभक्तिव्यत्ययः पूरयन्ति पूरयित्वा च हरितालिकाभिः - दूर्वाभिः पीठं बघ्नन्ति - पीठं बध्वा तदुपरि हरितालिका वपन्तीत्यर्थः, वितरकखननादिकं च सर्वं भगवदवयवस्याशातनानिवृत्यर्थं, पीठं बध्वा च त्रिदिशि पश्चिमावर्जदिकत्रये त्रीणि कदलीगृहाणि वि०, ततस्तेषां कदलीगृहाणां बहुमध्यदेशभागे त्रीणि चतुःशालकानिभवनविशेषान् वि०, ततस्तेषा चतुःशालकानां बहुमध्यदेशभागे त्रीण सिंहासनानि विकुर्वन्ति, तेषां सिंहासनानामयमेताध्शो वर्णव्यासः प्रज्ञप्तः, सिंहासनानां सर्वो वर्णकः पूर्ववद् भणितव्यः । सम्प्रति सिंहासनविकुर्वणानन्तरीयकृत्यमाह - 'तए णंताओ रुअगमज्झवत्थव्वाओ चत्तारि दिसाकुमारी ओ' इत्यादि, ततस्ता रुचकमध्यवास्तव्याः चतस्न दिक्कुमारीमहत्तरिका यत्रैव भगवांस्तीर्थकरस्तीर्थकरमाता च तत्रैवोपागच्छंति उपागत्य च भगवन्तं तीर्थकरं करतलसम्पुटेन तीर्थकरमातरं च बाहाभिर्गृह्णन्ति गृहीत्वा च यत्रैव कदलीगृहं यत्रैव चतुःशालकं यत्रैव च सिंहासनं तत्रैवोपागच्छंति, उपागत्य च भगवन्तं तीर्थकरं तीर्थकरमातरं च सिंहासने निषादयन्ति - उपवेशयन्ति निषाद्य च शतपाकैः सहस्रपाकैः - शतकृत्वोऽपरापरौषधिरसेन कार्षापणानां शतेन वा यत्पक्वं तच्छतपाकमेवं सहस्रपाकमपि बहुवचनं तथाविधसुरभितैलसंग्रहार्थं तैलैरभ्यङ्गयंति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org