SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः -५ ३८९ वृ.शेषंआसनप्रकम्पावधिप्रयोगभगवद्दर्शनपरस्पराह्वानस्वस्वाभियोगिककृतयानविमानविकुर्बिणादिकं तथैव यावद्युष्माभिर्न भेतव्यमिति कृत्वा भगवतः तीर्थकरस्य तीर्थकरमातुश्च पूर्वरुचकसमागतत्वात्पूर्वतोहस्तगत आदर्शो-दर्पणो जिनजनन्योः श्रङ्गारादिविलोकनाधुपयोगी यास तास्तथा, विशेषणपरनिपातः प्राकृतत्वात्, आगायन्त्यः परिगायन्त्यस्तिष्ठन्तीति । ___ अत्रचरुचकादिस्वरूपप्ररूपणेयं-एकादेशेन एकादशेद्वितीयादेशेनत्रयोदशेतृतीयादेशेन एकविंशे रुचकद्वीपे बहुमध्ये वलयाकारोरुचकशैलश्चतुरशीतियोजनसहनण्युचः मूले १००२२ मध्ये ७०२३ शिखरे ४०२४ योजनानि विस्तीर्ण, तस्य शिरसि चतुर्थे सहस्ने पूर्वदिशि मध्ये सिद्धायतनकूट, उभयोः पार्श्वयोश्चत्वारि २ दिककुमारीणां कूटानि, नन्दोत्तराद्यास्तेषु वसन्तीति सम्प्रति दक्षिणरुचकस्थानां वक्तव्यमुपक्रम्यते-'तेणं कालेण मित्यादि, तस्मिन् काले तस्मिन् समये दक्षिणरुचकवास्तव्या इति पूर्वद्रूचकशिरसि दक्षिणदिशि मध्ये सिद्धायतनकूट उभयतश्चत्वारि२ कूटानि,तत्रवासिन्य इत्यर्थः,अध्यैदिक्कुमारीमहत्तरिका तथैवयावविहरन्ति,तद्यथामू. (२२१) समाहारा १ सुप्पइन्ना २, सुप्पबुद्धा ३ जसोहरा ४ । लच्छिमई ५ सेसवई ६, चित्तगुत्ता ७ वसुंधरा ८॥ वृ.समाहारा १ सुप्रदत्ता २ सप्रबुद्धा ३ यशोधरा ४ लक्ष्मीवती ५शेषवती ६ चित्रगुप्ता७ वसुन्धरा ८। भू. (२२२) तहेवजावतुब्माहिं न माइअव्वंतिकट्ठभगवओ तित्थयरस्स तित्थयरमाऊए अ दाहिणेणं भिंगारहत्थगयाओ आगायमाणीओ परिगायमाणीओ चिट्ठति । तेणं कालेणं तेणं समएणंपञ्चस्थिमरुअगवस्थव्वाओ अट्ठ दिसाकुमारीमहत्तरिआओसएहि २ जाव विहरति, तं०॥ वृ. तथैव यावद्युष्माभिर्न भेतव्यमितिकृत्वा जिनजनन्योर्दक्षिणदिग्गतत्वाद्दक्षिणदिग्भागे जिनजननीस्नपनोपयोगिजलपूर्णकलशहस्ता आगायन्त्यः परिगायन्त्यस्तिष्ठन्तीति । साम्प्रतं पश्चिमरुचकस्थानां वक्तव्यतामाह-'तेणं कालेण मित्यादि, सर्वं तथैव नवरं पश्चिमरुचकवास्तव्याः-पश्चिमदिग्भागवतिरुचकवासिन्य इति । मू. (२२३) इलादेवी १ सुरादेवी २, पुहवी ३ पउमावई ४॥ एगनासा ५ नवमिआ ६, भद्दा ७ सीआ य ८ अट्ठमा । वृ. नामान्यासां पद्येनाह-इलादेवी १ सुरादेवी २ पृथिवी ३ पद्मावती ४ एकनासा ५ नवमिका ६ भद्रा ७ सीता ८ चः समुच्चये, अष्टमी चेति । मू. (२२४) तहेव जाव तुब्भाहिं न भाइअवंतिकटु जाव भगवओ तित्थयरस्स तित्थयरमाऊए अपञ्चत्थिमेणं तालिअंटहत्थगयाओआगायमाणीओ परिगायमाणीओ चिट्ठति। तेण कालेणं तेणं समएणं उत्तरिल्लरुअगवत्थव्याओ जाव विहरंति, तंजहा वृ.कूटव्यवस्था तथैव, पश्चिमरुचकागतत्वाजिनजनन्योः पश्चिमदिग्भागेतालवृन्त-व्यजनं तदहस्तगतास्तिष्ठन्तीति, उदीच्या अप्येवमेतेति तत्सूत्रमाह-'तेणं कालेणमित्यादि, व्यक्तं, नवरमुत्तररुचकवास्तव्या-उत्तरदिग्भागवतिरुचकवासिन्य इति । मू. (२२५) अलंबुसा १ मिस्सकेसी २, पुण्डरीआ य ३ वारुणी ४। हासा ५ सव्वप्पभा ६ चेव, सिरी ७हिरि ८ चेव उत्तरओ। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy