________________
३८८
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ५/२१७ शिल्पोपगतः एकां महतीं 'पुष्पच्छाधिकां वा' छाद्यते - उपरि स्थग्यते इति छाद्या छाद्यैव छाधिका पुष्पैर्भृता छाधिका पुष्पछाधिका तां पुष्पपटलं वा- पुष्पाधारभाजनविशेषं पुष्पचङ्गेरिकां वा प्रतीतां यावत् समन्तात् तकलहे या पराङमुखी सुमुखी तत्संमुखीकरणाय केशेषु ग्रहणं कचग्रहस्तप्रकारेण गृहीतं तथा करतलाद्विप्रमुक्तं सत् प्रभ्रष्टं करतलप्रभ्रष्टविप्रमुक्तं प्राकृतत्वात् पदव्यत्ययस्ततो विशेषणसमासः तेन कचग्रहगृहीतकरतलप्रभ्रष्टविप्रमुक्तेन दशार्द्धवर्णेन पञ्चवर्णेन कुसुमेनजात्यपेक्षया एकवचनं कुसुमजातेन पुष्पपुञ्जपचारो-बलिप्रकारस्तेन कलितं करोति, एवमेता अपि ऊर्ध्वलोकवास्तव्या अटी दिक्कुमारीमहत्तरिकाः पुष्पवद्दलए विउव्वित्ता इत्यादिकं योजनपरिमण्डलान्तं प्राग्वद् व्याख्येयं वाक्ययोजना तु योजनपरिमण्डलं यावत् दशार्द्धवर्णस्य कुसुमस्य वर्ष वर्षन्तीति, कथंभूतस्य कुसुमस्य ? जलजं - पद्मादि स्थलजं-विचकिलादि भास्वरं - दीप्यमानं प्रभूतं च- अतिप्रचुरं ततः कर्मधारयः भास्वरं च तत् प्रभूतं च भास्वरप्रभूतं जलस्थलजं च तत् भास्वरप्रभूतं च तत्तथा, 'वृन्तस्थायिनः' वृन्तेन - अघोभागवर्त्तिना तिष्ठतीत्येवंशीलस्य, तथा, वृन्तमघोभागे पत्राण्युपरीत्येवं स्थानशीलस्येत्यर्थः, कथंभूतं वर्षं ? – जान्ववधिक उत्सेधो जानूत्सेधस्तस्य प्रमाणं- द्वात्रिंशदंगुललक्षणं तेन सध्शी मात्रा यस्य स तथा तं द्वात्रिंशदंगुलानि चैवं चरणस्य चत्वारि जंघायाश्चतुर्विंशति जानुनश्चत्वारीति, एवमेव सामुद्रिके चरणादिमानस्य भणनात्, वर्षित्वा च कियत्पर्यन्तोऽयं 'एव' मित्यादिवाक्यसूचितसूत्रसंग्रह इत्याह
यावत् 'कालागुरुपवर'त्ति अत्र यावच्छब्दोऽवधिवाची 'जाव सुरवराभिगमणजोग्गं' ति अत्र यावत्करणात् कुंदुरुक्कतुरुक्कडज्झतधूवमघमघन्तगंधुद्धआभिरामं सुगंधवरगंधिअं गंधवट्टिभूअं दिव्वंति पर्यन्तं सूत्रं ज्ञेयं, तत्कालागुरुप्रभृतिघूपधूपितं धूपालापकव्याख्या प्राग्वत्, अथ एव 'सुरवराभिगमनयोग्यं' सुरवरस्य- इन्द्रस्याभिगमनाय - अवतरणाय योग्यं कुर्वन्ति, कृत्वा च यत्रैव भगवांस्तीर्थकरस्तीर्थकरमाता च तत्रैवोपागच्छंति, उपागत्य च यावच्छब्दात् 'भगवओ तित्थयरस्त तित्थयरमायाए य०' इति ग्राह्यं, आगायन्त्यः परिगायन्त्यस्तिष्ठन्तीति । अथ रुचकवासिनीदिककुमारीवक्तव्ये प्रथमं पूर्वरुचकस्थानामष्टानां वक्तव्यमाहयू. (२१८) तेणं कालेणं तेणं समएणं परुत्थिमरु अगवत्यच्चाओ अट्ठ दिसाकुमारीमहत्तरिआओ सएहिं २ कूड़ेहिं तहेव जाव विहरंति, तंजहा
वृ. 'तेणं कालेणं तेणं समएण' मित्यादि, तस्मिन् काले तस्मिन् समये पौरस्त्यरुच - कवास्तव्याः - पूर्वदिग्भागवर्तिरुचककूटवासिन्योऽष्टौ दिक्कुमारी महत्तरिकाः स्वकेषु स्वकेषु कटेषु तथैव यावद् विहरन्ति तद्यथा
मू. (२१९)
नंदुत्तराय १ नंदा २, आनंदा ३ नंदिवद्धणा ४ । विजयाय ५ वेजयंती ६, जयंती ७ अपराजिआ ८ ॥
वृ. नन्दोत्तरा १ चः समुच्चये नन्दा २ आनन्दा ३ नन्दिवर्धना ४ विजया ५ चः पूर्ववत् वैजयन्ती ६ जयन्ती ७ अपराजिता ८ इत्येता नामतः कथिताः ।
भू. (२२०) सेसं तं चैव जाव तुब्भाहिं न भाइअव्वंतिकट्टु भगवओ तित्थयरस्स तित्थयरमायाए अ पुरत्थिमेणं आयंसहत्थगयाओ आगायमाणीओ परिगायमाणीओ चिट्ठति । तेणं कालेणं तेणं समएणं दाहिणरुअवगत्थव्वाओ अट्ठ दिसाकुमारीमहत्तरिआओ तहेव जाव विहरति, तंजहा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org