SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः - ५ वातुमारब्धेन भगवतस्तीर्थकरस्य जन्मभवनस्य सर्वतो दिक्षु समन्ताद्विदिक्षु योजनपरिमण्डलं 'से जहानामए कम्मारदारए सिआ जाव' इत्येतस्तूत्रैकदेशसूचितद्दष्टान्तसूत्रान्तर्गतेन तहेवेति दार्शन्तिकसूत्रबलादायातेन सम्मार्जतीतिपदेन सहान्वयोजना कार्या, तच्चेदं ध्ष्टान्तसूत्रं । ३८५ से जहानामए कम्मयरदारए सिआ तरुणे बलवं जुगवं जुवाणे अप्पायंके थिरग्गहत्थे दढपाणिपाए पितरोरुपरिणए घणनिचि अवट्टवलिअखंधे चम्मेठ्ठगदुहणमुठ्ठि असमायनिचिअगत्ते उरस्सबलसमण्णागए तलजमलजुअलपरिघबाहू लंघणपवणजइणपमद्दणसमत्ये छेए दक्खे पट्टे कुसले मेहावी निउणसिप्पोवगए एगं महंतं सिलागहत्थगं वा दंडसंपुच्छामिं वा वेणुसिलागिगं वा गहाय रायंगणं वा रायंते उरं वा देवकुलं वा सभं वा पवं वा आरामं वा उज्जाणं वा अतुरिअमलचवलमसंभंतं निरंतरं सनिउणं सव्वओ समंता संपमज्जति' स यथानामको - यत्प्रकारनामकः कर्मदारकः स्याद्-भवेत्, आसनमृत्युर्हि दारको न विशिष्टसामर्थ्यभाग् भवतीत्यत् आह तरुणः - प्रवर्द्धमानवयाः, स च बलहीनोऽपि स्यादित्यत आह-- बलवान्, कालोपद्रवोऽपि विशिष्टसामर्थ्यविघ्नहेतुरित्यत आह-युगं - सुषमदुष्षमादिकालः सोऽदुष्टो - निरुपद्रवो विशिष्टबल हेतुर्यस्यास्त्यसौ युगवान्, एवंविधश्च को भवति ? - युवा - यौवनवयस्थः, ईशोऽपि ग्लानः सन् निर्बलो भवत्यतः अल्पातङ्कः, अल्पशब्दोऽत्राभाववचनः, तेन निरातङ्क इत्यर्थः, तथा स्थिरः- प्रस्तुत कार्यकरणेऽकम्पोऽग्रहस्तो- हस्ताग्रं यस्यासौ तथा, तथा ध्ढं- निबिडितरचयमापन्नं पाणिपादं यस्य स तथा पृष्ठं प्रतीतं अन्तरे- पार्श्वरूप ऊरू- सक्थिनी एतानि परिणतानि - परिनिष्ठिततां गतानि यस्य स तथा, सुखादिदर्शनात् पाक्षिकः क्तान्तस्य परनिपातः अहीनाङ्ग इत्यर्थः, घननिचितौ - निबिडतरचयमापन्नी वलिताविव वलिती हृदयाभिमुखी जातावित्यर्थः वृत्ती स्कन्धी यस्य स तथा तथा चर्मेष्टर्केनचर्मपरिणद्धकुट्टनोपगरणविशेषेण द्रुघन-घनेन मुष्टिकया च - मुष्ट्या समाहताः समाहताः सन्तस्ताडितास्ताडिताः सन्तो ये निचिता- निबिडीकृताः प्रवहणप्रेष्यमाणवस्त्रग्रन्थकादयस्तदवद् गात्रं यस्य स तथा । उरसि भवमुरस्यं ईशेन बलेन समन्वागतः - आन्तरोत्साहवीर्ययुक्तः तली- तालवृक्षौ तयोर्यमलं- समश्रेणीकं यद्युगलं-द्वयं परिघश्च-अर्गला तन्निभे-तत्सध्श दीर्घसरलपीनत्वादिना बाहू यस्य स तथा लंघने-गत्तदिरतिक्रमे प्लवने-मनाक् विक्रमवति गमने जवने अतिशीघ्रगमने प्रमर्दने - कठिनस्यापि वस्तुनश्चूर्णने समर्थः, छेकः- कलापण्डितः दक्षः - कार्याणामविमलम्बिकारी प्रष्ठो वाग्मी कुशलः सम्यकक्रियापरिज्ञानवान् मेधावी - सकृतश्रुतदृष्टकर्मज्ञः 'निपुणशिल्पोपगतः' निपुणं यथा भवत्येवं शिल्पक्रियासु कौशलं उपगतः - प्राप्तः, एकं महान्तं शलाकहस्तकंसरित्पर्णादिशलाकासमुदायं सरित्पर्णादिशलाकामयीं सम्मार्जनीमित्यर्थः वाशब्दा विकल्पार्थाः दण्डसंपुंछनी - दण्डयुक्तांसम्मार्जनीं वेणुशलाकिकीं वंशशलानिर्वृत्तां सम्मार्जनीं गृहीत्वा, राजाङ्गणं वा राजान्तःपुरं वा देवकुलं वा सभां वा, पुरप्रधानानां सुखनिवेशनहेतुमण्डपिकामित्यर्थः, प्रपां वा-पानीयशालां आरामं वा दम्पत्योर्नगरासन्नरतिस्थानं उद्यानं वा-क्रीडार्थागतजनानां प्रयोजनाभावेनोर्ध्वावलम्बितयानवाहनाद्याश्रयभूतं तरुखण्डं त्वरितमचपलमसम्भ्रान्तं, त्वरायां चापल्ये सम्ब्रमे वा सम्यककवचराद्यपगमासम्भवात्, तत्र त्वरा - मासौत्सुक्यं चापल्यं - कायौत्सुक्यं सम्भ्रमश्च–गतिस्खलनमिति निरन्तरंनतु अपान्तरालमोचनेन सुनिपुणमल्पस्याप्यचोक्षस्यापसारणेन 13 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy