________________
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ५ / २१४ कियत्पर्यन्तमित्याह - 'संखपणवमेरिझल्लरिख - रमुहिहुडुक्क मुरजमुइंगदुंदुहिनिग्घोसनाइएणं ति, यत्रैव भगवांस्तीर्थकरमाता च तत्रैवोपागच्छंति, उपागत्य च भगवन्तं तीर्थकरं तीर्थकरमातरं च त्रि प्रदक्षिणयन्ति त्रि प्रदक्षिणीकृत्य च प्रत्येकं करतलपरिगृहीतं शिरस्यावर्त्त मस्तके अञ्जलिं कृत्वा एवं वक्ष्यमाणमवादिषुः, यदवादिषुस्तदाह - नमोऽस्तु ते - तुभ्यं रत्नं- भगवल्लक्षणं कुक्षो धरतीति रत्नकुक्षिधारिके अथवा रत्नगर्भावद् गर्भधारकत्वेनापरसत्रीकुक्षिभ्योऽतिशायित्वेन रत्नरूपां कुक्षिं धरतीति, शेषं तथैव, तथा जगतो- जगद्वर्त्तिजनानां सर्वभावानां प्रकाशकत्वेन प्रदीप इव प्रदीपो भगवान् तस्य दीपिके, सर्वजगन्मङ्गलभूतस्य चक्षुरिव चक्षु सकलजगद्भावदर्शकत्वेन तस्य, चः समुच्चये, चक्षुश्च द्रव्यभावभेदाभ्या द्विधा, तत्राद्यं भावचक्षुरसहकृतं नार्थप्रकाशकं तेन भावचक्षुषा भगवानुपमीयते, तञ्चामूर्त्तमिति ततो विशेषमाह - मूर्तस्य मूर्तिमतः चक्षुर्ग्राह्यस्येत्यर्थः, सर्वज- गञ्जीवाना वत्सलस्य - उपकारकस्य उक्तार्थे विशेषणद्वारा हेतुमाह - हितकारको मार्गो मुक्तिमार्ग सम्यग्ज्ञानदर्शनचारित्ररूपस्तस्य देशिका - उपदेशिका उफदेशदर्शिकेत्यर्थः, तथा विभ्वी सर्वभाषा- नुगमनेन परिणमनात् सर्वव्यापिनी सगकलश्रोतृजनहृदयसङ्कङ्क्रान्ततात्पर्यार्था एवंविधा वागऋद्धि - वाकसम्पत्तस्याः प्रभुः - स्वामी सातिशयवचनलब्धिक इत्यर्थः, तस्य तथा, अत्र विशेषणस्य परनिपातः प्राकृतत्वात् ।
जिनस्य - रागद्वेषजेतुः ज्ञानिनः - सातिसयज्ञानयुक्तस्य नायकस्य-धर्मवरचक्रवर्त्तिनः बुद्धस्य -1 - विदिततत्वस्य बोधकस्य परेषामावेदिततत्वस्य सकललोकनाथस्य - सर्वप्राणिवर्गस्य बोधिबीजाधानसंरक्षणाभ्यां योगक्षेमकारित्वात् निर्ममस्य-ममत्वरहितस्य प्रवरकुलसमुद्भवस्य जात्या क्षत्रियस्य एवंविधविख्यातगुणस्य लोकोत्तमस्य यत्वमसि जननी तत्वं धन्याऽसि पुण्यवत्यसि कुतार्थाऽसि वयं हे देवानुप्रिये ! अधोलोकवास्तव्या अष्टौ दिककुमारीमहत्तरिकाः भगवतो जन्ममहिमां करिष्यामस्तेन युष्माभिर्न भेतव्यं, असम्भाव्यमानपरजनापातेऽस्मिन् रहः स्थाने इमा विसध्शजातीयाः किमितशङ्काकुलं चेतो न कार्यमित्यर्थः, अथैतासामितिकर्त्तव्यतमाह-
'इतिकट्टु उत्तरपुरत्थिमं दिसीभाग' मित्यादि, इतिकृत्वा - प्रस्तावादित्युक्त्वा ता एवोत्तरपौरस्त्यं दिग्भागमपक्रामन्ति, अपक्रम्य च वैक्रियसमुदघातेन समवघ्नन्ति समवहत्य च सङ्ख्यातानि योजनानि दण्डं निसृजन्ति, निसृज्य च किं ताः कुर्वन्ति ?, तदेवाह - तद्यथा रत्नानां यावत्पदात् 'वइराणं वेरुलिआणं लोहि अक्खाणं मसारगल्लाणं हंसगडमाणं पुलयाणं सोगंधियाणं जोईरसाणं अंजणाणं पुलयाणं रयणाणं जायरूवाणं अंकाणं फलिहाणं रिट्ठाणं अहाबायरे पुग्गले परिसाडेइ, अहासुहुमे पुग्गले परिआएइ, दुम्बंपि वेउव्वि असमुग्धाएणं समोहणइ २ त्ता' इति पदसंग्रहः, एतत्स विस्तरव्याख्या पूर्वं भरताभियोगिकदेवानां वैक्रियकरणाधिकारे कृता तेन ततो ग्राह्या, वाक्ययोजनार्थं तु किञ्चिल्लिख्यते, एषां रत्नानां बादरान् पुदगलान् परिशाटय सूक्ष्मान् पुदगलान् गृह्णन्ति, पुनर्वैक्रियसमुदघातपूर्वकं संवर्त्तकवातान् विकुर्वन्ति, बहुवचनं चात्र चिकीर्षितकार्यस्य सम्यकसिद्धयर्थं पुनः पुनर्वातविकुर्वणाज्ञापनार्थं, विकुर्व्य च तेन-तत्कालविकुर्वितेन शिवेनउपद्रवरहितेन मृदुकेन – भूमिसर्पिणा मारुतेन अनुद्भूतेन - अनूर्ध्वचारिणा भूमितल विमलकरणेन मनोहरेण सर्वर्तुकानां - षडऋतुसम्भवानां सुरभिकुसुमानां गंधेनुवासितेन पिण्डिमः - पिण्डितः सन् निहरिमो- दूरं विनिर्गमनशीलो यो गंधस्तेन उद्धरेण बलिष्ठेनेत्यर्थः तिर्यकप्रवातेन तिर्यक्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
३८४