________________
वक्षस्कारः-५
३८३ अष्टी दिक्कुमार्यो महत्तरिकाः प्रत्येकं २ आसनानि चलितानि पश्यन्ति दृष्ट्वा चावधिं प्रयुञ्जन्ति प्रयुज्य च भगवन्तं तीर्थकरमवधिना आभोगयंति आभोग्य च अन्यमन्यं शब्दयन्ति शब्दयित्वा चएवमवादिषुः, यदवादिषुस्तदाह-उप्पन्ने इत्यादि, उत्पन्नः खलु भो! जंबूद्वीपे द्वीपे भगवांस्तीधकरः तज्जीतमेतत्-कल्प एषोऽतीतप्रत्युत्पन्नानागतानामधोलोकपास्तव्यानामष्टानां दिक्कुमारीमहत्तरिकाणां भगवतोजन्ममहिमा कर्तु, तद् गच्छामो वयमपि भगवतोजन्ममहिमां कुर्म इतिकृत्वा-धातूनामनेकार्थत्वानिश्चित्य मनसाएवं-अनन्तरोक्तंवदन्ति, उदित्वा च प्रत्येक २ आभियोगिकान् देवान् शब्दयन्ति, शब्दयित्वा च एवमवादिषुः, किमवादिषुरित्याह
__ "खिप्पामेव'इत्यादि, भो देवानुप्रियाः! क्षिप्रमेव अनेकस्तम्भशतसन्नविष्टानि लीलास्थितशालभलिकाकानीत्येवमनेन क्रमेण विमानवर्णको भणितव्यः,स चायं-'ईहाभिगउसभतुरगणरमगरविहगवालगकिन्नररुरुसरभचमरकुलरवणलयपउमलयभत्तिचित्ते खंभुग्गयवइरवेइआपरिगयाभिरामे विजाहरजमलजुअलजन्तजुत्तेविवअच्चीसहस्समालिणीए रूवगसहस्सकलिए भिसमाणे भिब्मिसमामे चक्खुल्लोअणलेसे सुहफासे सस्सिरीअरूवे घंटावलिअमहुरमणहरसरे सुभे कंते दरिसणिज्जे निउणोविअमिसिमिसेंतमणिरयणघंटिआजालपरिक्खित्ते'त्ति, कियत्पर्यन्तमित्याहयावद्योजनविस्तीर्णानि दिव्यानि यानाय-इष्टस्थाने गमनाय विमानानि अथवा यानरूपाणिवाहनरूपाणि विमानानि यानविमानानि विकुर्वत-वैक्रियशक्त्या सम्पादयत विकुर्वित्वा च एनामाइप्तिं प्रत्यर्पयत, अथ यानविमानवर्णकव्याख्याप्राग्वद्ज्ञेया, तोरणादिवर्णकेषु एतद्विशेषणगणस्य व्याख्यातत्वात्, ततस्ते किं चक्रुरित्याह- 'तए णमित्यादि ततस्ते आभियोगिका देवा अनेकस्तम्भशतसन्निविष्टानि यावदाज्ञां प्रत्यर्पयन्ति, अर्थताः किं कुर्वन्तीत्याह-'तए णं ताओ'इत्यादि, ततस्ताअधोलोकवास्तव्याअष्टौ दिककुमारीमहत्तरिकाः हट्ठतुडेत्यायेकदेशदर्शनेन सम्पूर्ण आलापको ग्राह्यः, स चायं- हतुद्दचित्तमानंदिआ पीअमणा परमसोमणस्सिआ हरिसवसविसप्पमाणहिअया विअसिअव-रकमलनयणा पचलिअवरकडगतुडिअकेऊरमउडकुण्डलहारविरायंतरइअवच्छा पालंबपलंबमाण- धोलंतभूसणधरा ससंभमं तुरिअंचवलं सीहासणाओ अब्मुडेन्ति २ ता पायपीढाओ पचोरुहंति २ त्ता' इति प्रत्येकं २ चतुर्भि : सामानिकसहस्रैः चतसृभिश्च महत्तरिकाभिर्यावदन्यैर्बहुभिर्देवैर्देवीभिश्च सार्द्ध संपरिवृताः तानि दिव्यानि यानविमानान्यारोहंति, आरोहणोत्तरकालं येनप्रकारेणसूतिकागृहमुपतिष्ठन्ते तथाऽऽह
__ "दुरुहित्ता इत्यादि,आरुह्यच सर्वद्धर्यासर्वद्युत्या घनमृदङ्ग-मेघवद् गम्भीरध्वनिकंमृदङ्गं पणवो-मृत्पटहः, उपलक्षणमेतत्तेनान्येषामपितूर्याणा संग्रहः, एतेषां प्रवादितानांयोरवस्तेन, तया उत्कृष्टयायावत्करणात् 'तुरिआए चलाए' इत्यादिपदसंग्रहः प्राग्वत् देवगत्या यत्रैव भगवतस्तीर्थकरस्य जन्मनगरं यत्रैव च तीर्थकरस्य जन्मभवनं तत्रैवोपागच्छंति उपागत्य च भगवतस्तीर्थकरस्य जन्मभवनं तैर्दिव्यैर्यानविमानस्वकृत्वः आदक्षिणप्रदक्षिणं कुर्वन्ति, त्रीन् वारान् प्रदक्षिणयन्तीत्यर्थः, त्रि प्रदक्षिणणीकृत्य च उत्तरपौरस्त्ये दिग्भागे-ईशानकोणे ईषचतुरङ्गुलमसम्प्राप्तानि धरणितले तानि दिव्यानि यानविमानानि स्थापयन्तीति । अथ यच्चक्रुस्तदाह
स्थापयित्वाचप्रत्येकं २ अष्टावपीत्यर्थः चतुर्भिः सामानिकसहनैर्यावत् सार्द्धं सम्परिवृता दिव्येभ्यो यानविमानेभ्यः प्रत्यवरोहंति प्रत्यवरुह्य च सर्वर्या यावच्छब्दात् सर्वधुत्यादिपरिग्रहः
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only