SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ३८६ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ५/२१४ सम्प्रमार्जयेदिति, अथोक्त ध्ष्टान्तस्य दान्तिकयोजनायाह तथैवैता अपि योजनपरिमण्डलं- योजनप्रमाणं वृत्तक्षेत्रं सम्मार्जयन्तीति-- यत्तत्र योजनपरिमण्डले तृणं वा पत्रं वा काष्ठं वा कचवरं वा अशुचि - अपवित्रं अचोक्षं मलिनं पूतिकंदुरभिगंधं तत्सर्वमाधूय २- सञ्चाल्य २ एकान्ते योजनमण्डलादन्यत्र एडयन्ति - अपनयन्ति, अपनीयार्थात् संवर्त्तकवातोपशमं विधाय च यत्रैव भगवांस्तीर्थकरस्तीर्थकरमाता च तत्रैवोपागच्छंति उपागत्य च भगवतस्तीर्थकरस्य तीर्थकरमातुश्च नातिदूरासन्ने आगायन्त्य आ - ईषतस्वरेण गायन्त्यः प्रारम्भकाले मंदरस्वरेण गायमानत्वात् परिगायन्त्यो - गीतप्रवृत्तिकालानन्तरं तारस्वरेण गायन्त्यस्तिष्ठन्ति । अथोर्ध्वलोकवासिनीनामवसरः मू. (२१५) तेणं कालेणं तेणं समएणं उद्धलोगवत्थव्वाओ अट्ट दिसाकुमारीमहत्तरिआओ सएहिं २ कूडेहिं सएहिं २ भवणेहिं सएहि २ पासायवडेंसएहिं पत्तेअं २ चउहिं सामानिअसाहस्सीहिं एवं तं चैव पुव्ववण्णिअं जाव विहरंति, तंजहा वृ. 'तेणं कालेण' मित्यादि, व्यक्तं, नवरं ऊर्ध्वलोकवासित्वं चासां समभूतलात् पञ्चशतयोजनोच्चनन्दनवनगतपञ्चशतिकाष्टकूटवासित्वेन ज्ञेयं, नन्वधोलोकवासिनीनां गजदन्तगिरिगतकूटाष्टके यथा क्रीडानिमित्तको वासस्तथैव तासामप्यत्र भविष्यतीति चेत्, मैवं यथाऽधोलोकवासिनीनां गजदन्तगिरीणामधो भवनेषु वासः श्रूयते तथैतासामश्रूमाणत्वेन तत्र निरन्तरं वासस्ततश्चोर्ध्वलोकवासित्वं । यू. (२१६) मेहंकरा 9 मेहवई २, सुमेहा ३ मेहमालिनी ४ । सुवच्छा ५ वच्छमित्ताय ६, वारिसेणा ७ बलाहगा ।। वृ. ताश्चेमा नामतः पद्यबन्धेनाह - " मेघङ्करा १ मेघवती २ सुमेघा ३ मेघमालिनी ४ सुवत्सा ५ वत्समित्रा ६ चः समुच्चये वारिषेणा ७ बहालका ८ । नू. (२१७) तए णं तासिं उद्धलोगवत्थव्याणं अड्डव्हं दिसाकुमारीमहत्तरिआणं पत्तेअं २ आसणाई चलति, एवं तं चैव पुव्ववण्णिअं भाणिअव्वं जाव अम्हे णं देवाणुप्पिए! उद्धलोगवत्थव्वाओ अट्ट दिसाकुमारीमहत्तरिआओ जेणं भगवओ तित्थगरस्स जम्मणमहिमं करिस्सामो तेणं तुब्मेहिं न भाइअव्वंतिकट्टु उत्तरपुरत्थिमं दिसीभागं अवक्कमति २ ता जाव अब्भवद्दलए विउव्वंति २ ता जाव तं निहयरयं नट्टरयं भट्ठरयं पसंतरयं उवसंतरयं करेति २ खिप्पामेव पशुवसति । एवं पुप्फबद्दलंसि पुप्फवासं वासंति वासित्ता जाव कालागुरुपवर जाव सुरवरामिगमणजोग्गं करेति २ त्ता जेणेवं भयवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छति २ त्ता जाव आगायमाणीओ परिगायमाणीओ चिट्ठति । वृ. अथ यत्तासां वक्तव्यं तदाह- 'तए णं तासिं उद्धलोगवत्थव्वाण' मित्यादि, व्यक्तं, नवरं तदेव पूर्ववर्णितं भणितव्यं कियत्पर्यन्तमित्याह- 'जाव अम्हेण' मित्यादि, अत्र यावच्छब्दोऽवधिवाचको नतु संग्राहकः, 'अवक्कमित्ता जाव 'त्ति अत्र यावत्पदात् 'वेउव्वि असमुग्धाएणं समोहति २त्ता जाव दोच्चंपि वेउव्वि असमुग्धाएणं समोहणंति २ त्ता' इति बोध्यम्, 'अनवादलकानि विकुर्व्वन्ति' अभ्रे - आकाशे वाः पानीयं तस्य दलकानि अभ्रवार्दलकानि मेघानित्यर्थः, 'विउव्वितता जाव' त्ति अत्र यावत्करणादिदं ध्श्यम् For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy