SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः - ४ योजनानीत्यादिसूत्रं प्राग्वत्, केवलं सर्वात्मना वैडूर्यमयी नीलवर्णत्वात् । साम्प्रतं सूत्रे ऽनुक्तोऽपि वाचयितृनामपूर्वार्थजिज्ञापयिषया चूलिकाया इष्टस्थाने विष्कम्भपरिज्ञानाय प्रसङ्गगत्योपायो लिख्यते, यथा तत्राधोमुखगमने करणमिदं- चूलिकायासर्वोपरितनभागादवपत्य यत्र योनादावतिक्रान्ते विष्कम्भजिज्ञासः तस्मिन्नतिक्रान्तयोजनादिके पञ्चभिर्भक्ते लब्धराशिश्चतुर्भिर्युतस्तत्र व्यासः स्यात्, तत् उपरितलाद्विशतियोजनान्यवतीर्णस्ततो विंशतिर्धयते तस्याः पञ्चभिर्भागे लब्धाश्चत्वारः ते चतुर्भि सहिताः अष्टौ एतावानुपरितलाद्विशतियोजनातिक्रमे विष्कम्भः एवमन्यत्रापि भावनीयं, यदा तूर्ध्वमुखगत्या विष्कम्भजिज्ञासा तदाऽयमुपायः - चूलिकाया मूलादुत्पत्य यत्र योजनादी विष्कम्भज्ञासा तस्मिन्नतिक्रान्तयोजनादिके पंचभिर्भक्ते यल्लब्धं तावत्प्रमाणे मूलविष्कम्भादपनीते अवशिष्तंतंत्र विष्कम्भः, तथाहि -मूलात्किल विंशतिर्योजनान्यूर्ध्वं गतस्ततो विंशतिर्धयते तस्याः पंचभिर्भागे लब्धानि चत्वारि योजनानि तानि मूलविष्कम्भाद् द्वादशयोजनप्रमाणादपनीयते शेषाण्यष्टौ एतावान् मूलादूर्ध्वं विंशतियोजनातिक्रमे विष्कम्भः, एवमन्यत्रापि भावनीयं यथा मेरी एकादशभिरंशैरेकोऽशः एकादशभियोजनैरेकं योजनं व्यासस्य चीयते अपचीयते तथाऽस्यां पञ्चभिरंशैरेकोऽशः पञ्चभिर्योजनैरेक योजनं व्यासस्येति तात्पर्यार्थः । अत्र बीजं द्वादशयोजनप्रमाणाञ्चूलाव्यासादारोहेचत्वारिंशद्योजनेषु गतेषु अष्टौ योजनानि त्रुट्यन्ति अवरोहे च तान्येव वर्द्धन्ते मध्यराशावन्त्यराशिना गुणिते एकेन गुणितं तदेव भवतीति जाता अष्टौ अस्य राशेश्चत्वारिंशता भजने भागाप्राप्तौ द्वयो राश्योरष्टभिरपवर्त्ते जातं ' । अथास्य वर्णकसूत्रम् 1 1 'सा णं एगाए पउमवर जाव' इत्यादि, प्राग्वत्, अथास्यां बहुसमरमणीयभूमिभागवर्णनं सिद्धायतनवर्णनं चातिदेशेनाह- 'उप्पिं बहुसम' इत्यादि, अस्याधूलिकाया उपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, स च यावत्पदकरणात् 'से जहा नामए आलिंगपुक्खरे इ वा' इत्यादिको ग्राह्यः, तथा तस्य बहुमध्यदेशभागे सिद्धायतनं वाच्यं, क्रोशमायामेनार्द्धक्रोशं विष्कम्मेन देशोनं क्रोशमुच्चत्वेन अनेकस्तम्भशतसन्निविष्टमित्यादिकः सिद्धायतनवर्णको वाच्यो यावद्धवकडुच्छुकानामष्टोत्तरं शतमिति, अथ प्रस्तुतवने भवनप्रासादादिवक्तव्यगोचरं सूत्रं - मन्दरचूलिकायाः पूर्वतः पण्डकवनं पञ्चाशद्योजनान्यवगाह्य अत्रान्तरे महदेकं भवनं-सिद्धायतनं प्रज्ञप्तं, एवमुक्ताभिलापेन य एव सीमनसवने पूर्ववर्णितो- नन्दनवनप्रस्तावोक्तो गमः कूटवर्ज सिद्धायतनादिव्यवस्थाधायकः सध्शालापकः पाठः स एवात्रापि भवनानां पुष्करिणीनां प्रासादावतंसकानां च ज्ञातव्यः, यावच्छक्रेशानप्रासादावतंसकास्तेनैव प्रमाणेनेति, अत्र वापीनामानि प्रागुक्तयुक्त्या सूत्रेऽध्थन्यपि ग्रन्थान्तरतो लिख्यन्ते, तद्यथा - ऐशानप्रसादे पूर्वादिक्रमेण पुण्डा १ पुण्ड्रप्रभा २ सुरक्ता ३ रक्तावती ४ आग्नेयप्रासादे क्षीररसा १ इक्षुरसा २ अमृतरसा ३ वारुणी ४ नैऋतप्रासादे शंखोत्तरा १ शङ्खा २ शङ्खावर्त्ता ३ बलाहका ४ वायव्यप्रासादे पुष्पोत्तरा १ पुष्पवती २ सुपुष्पा ३ पुष्पमालिनी ४ चेति । अथात्राभिषेकशिलावक्तव्यतामाह मू. (२००) पंडकवने णं भंते! बने कइ अभिसेअसिलाओ प० गो० चत्तारि अभिसेअसिलाओ प०, तं० - पंडुसिला १ पंडुकंबलसिला २ रत्तसिला ३ रत्तकं बलसिलेति ४ । 13 24 Jain Education International , ३६९ For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy