________________
३६२
जम्बूद्वीपप्रज्ञप्ति-उपासूत्रम् ४/१९४ विदेहव्यासे क्व भद्रशालवनाकाश इति प्रश्नो दूरापास्त इति।
अथैतद्वर्णनातिदेशायाह-'सेणंएगाए इत्यादि, प्राग्वत्, अथात्र सिद्धायतनादिवक्तव्यमाह-'मन्दरस्स'इत्यादि, मेरोः पूर्वतः पञ्चशदयोजनानि भद्रशालवनमवगाह्यअतिक्रम्यात्रान्तरे महदेकं सिद्धायतनं प्रज्ञप्तं, पञ्चाशदयोजनान्यायामेन पञ्चविंशतिर्योजनानि विष्कम्भेन षट्त्रिंशद्योजनानिऊर्वोच्चत्वेन अनेकस्तम्भशतसन्नविष्टेत्यादिकः सूत्रतोऽर्थतश्च वर्णकः प्रागुक्तोग्राह्यः
__ अथात्र द्वारादिवर्णकसूत्राण्याह-'तस्सण मित्यादि, प्राग्वत्, तस्स ति, तीसेण मित्यादि, सूत्रद्वयं व्यक्त। अथोक्तरीतिमवशिष्टसिद्धायतनेषुदर्शयति-'मन्दरस्स'इत्यादि, मन्दरस्य पर्वतस्य दक्षिणतो भद्रशालवनं पञ्चाशदयोजनान्यवगाह्येत्याद्यालपको ग्राह्यः, एवं चतुर्दिक्ष्वपि मन्दरस्य भद्रशालवने चत्वारि सिद्धायतनानि भणितव्यानि, यच्च त्रिष्वतिदेष्टव्येषु चत्वार्यतिदिष्टानि तत्र जम्बूद्वीपद्वारवर्णके ‘एवं चत्तारिविदा भाणिअव्वा' इत्येतत्सूत्रव्याख्यानमनुस्मरणीयम् ।
अथैतदतपुष्करिण्यो वक्तव्याः- मन्दरस्स'इत्यादि, सुगमं, अथासांप्रमाणाद्याह-'ताओ ण मित्यादि, मेरोरीशान्यां दिशि भद्रशालवनं पञ्चाशदयोजनान्यवगाह्यात्रान्तरे चतन नन्दानन्दाभिधानाः शाश्वताः पुष्करिण्यः प्रज्ञप्ताः, आसां च प्रादक्षिण्येन नामानि पद्मा पद्मप्रभा कुमुदा कुमुदप्रभाचैवः समुच्चयेताश्च पुष्करिण्यः पञ्चाशदयोजनान्यायामेन पंचविंशतिंयोजनानि विष्कम्भेन दशयोजनान्युद्वेधेन-उण्डत्वेन वर्णको वेदिकावनखण्डानां भणितव्यः प्राग्वत्, यावच्चतुर्दिश तोरणानि।
अर्थतासांमध्ये यदस्ति तदाह-तासांपुष्करिणीनां बहुमध्यदेशभागेअत्रान्तरे महानेकः ईशानदेवेन्द्रस्यदेवराज्ञःप्रासादाक्तंसकः प्रज्ञप्तः, कोऽर्थः?-तंप्रासादंचतसःपुष्करिण्यः परिक्षिप्य स्थिता इति, पञ्चयोजनशतान्यूर्वोच्चत्वेन अर्द्धतृतीयानि योजनशतानि विष्कम्भेन समचतुरस्रत्वादायामेनापि, 'अब्भुग्गयमूसिअ'इत्यादि प्रसादानां वर्णनं प्राग्वत्, एव. मुक्ताभिलापानुसारेण सपरिवार:-ईशानेन्द्रयोग्यशयनीयसिंहासनदिपरिवारयुक्तः प्रासादावतंसको भणितव्यः, अथ प्रादक्षिण्येन शेषविदिग्गतपुष्करिण्यादिप्ररूपणायाह-मेरोः एवमितिपदमुक्तातिदेशार्थं तेन 'भ६सालवणं पन्नासं जोअणाई ओगाहित्ता' इत्यादि ग्राह्यं, नवरंदक्षिणपूर्वस्यामिति-आग्नेय्यांदिशीत्यर्थः, ताश्चोत्पलगुल्मादयःपूर्वक्रमेण तदेवप्रमाणंईशा. नविदिग्गतवप्रासादप्रमामेनेत्यर्थः, दक्षिणपश्चिमायामपि-नैऋत्यां विदिशिपुष्करिण्यो भृङ्गाद्याः प्रादक्षिण्येन ज्ञेयाः, प्रासादावतंसकः शक्रस्य सिंहासनं सपरिवारं, उत्तरपश्चिमाया-वायव्यां विदिशिपुष्करिण्यः श्रीकान्तायाः प्रासादावतंसकः ईशानस्य सिंहासनंसपरिवारं, अत्र उत्तरदिकसम्बद्धत्वेन एशानवायव्यप्रासादौ ईशानेनन्द्रसत्कौ दक्षिणदिकसम्बद्धत्वेन आग्नेयनैर्ऋतप्रासादौ शक्रेन्द्रसत्काविति । सम्प्रति दिग्गजकूटवक्तव्यतामाह_ 'मन्दरेणं भंते! पव्वए' इत्यादि, प्रश्नसूत्रे दिक्षु एशान्यादिविदिकप्रभृतिषुहस्त्याकाराणि कूटानि दिगहस्तिकूटानि, कूटशब्दवाच्यानामप्येषां पर्वतत्वव्यवहारः ऋषभकूटप्रकरण इव ज्ञेयः, स्थानाङ्गेऽष्टमस्थाने तु पूर्वादिषु दिक्षु हस्त्याकाराणि कूटानिति। मू. (१९५) पउमुत्तरे १ नीलवंते २ सुहत्थी ३ अजनागिरी ४ ।
कुमुदे अ६ पलासे अ६, वडिंसे ७ रोअणागिरी ८ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org