SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ३६३ वृ. उत्तरसूत्रे पद्मोत्तरेति श्लोकः, पद्मोत्तरः नीलवान् सुहस्ती अञ्जनागिरि अञ्जनादीनां गिरा' वित्यादिना दीर्घः, कुमुदः पलाशः अवतंसः रोचनागिरि, अन्यत्र रोहणागिरि, अत्रापि दीर्घत्वं प्राग्वत्, अथैषां दिग्व्यवस्थां पृच्छन्नाह वक्षस्कारः - ४ मू. (१९६) कहि णं भंते! मंदरे पव्वए भद्दसालवने पउमुत्तरे नामं दिसाहत्थिकूडे पं० गोअमा ! मंदरस्स पव्वयस्स उत्तरपरत्थिमेणं पुरत्थिमिल्लाए सीआए उत्तरेणं एत्थ णं पउमुत्तरेनामं दिसाहत्थिकूडे पन्नत्ते पञ्चजो अणसयाई उद्धं उच्चत्तेणं पञ्चगाउअसयाइं उव्वेहेणं एवं विक्खम्भपरिक्खेवो भा० चुल्लहिमवंत सरिसो, पासायाण य तं चैव पउमुत्तरो देवो रायहाणी उत्तरपुरत्थि० मेणं 9 | एवं नीलवंतदिसाहत्यिकडे मंदरस्स दाहिणपुरत्थिमेणं पुरत्थिमिल्लाए सीआए दक्खिणेणं एअस्सवि नीलवंतो देवो रायहाणी दाहिणपुरत्थिमेणं २, एवं सुहत्थिदिसाहत्यिकूडे मंदरस्स दाहिणपुरत्थिमेणं दक्खिणिल्लाए सीओआए पुरत्थिमेणं एअस्सवि सुहत्थी देवो रायहाणी दाहिणपुरत्थिमेणं ३, एवं चेव अंजणागिरिदिसाहत्यिकूडे मंदरस्स दाहिणपञ्चत्थिमेणं दक्खिणिल्लाए सीओआए पञ्च्चत्थिमेणं, एअस्सवि अंजणागिरी देवो रायहाणी दाहिणपञ्च्चत्थिमेणं ४ | एवं कुमुदे विदिसाहत्यिकडे मंदरस्स दाहिणपञ्चत्यिमेणं पञ्चत्थिमिल्लाए सीओआए दक्खिणं एअस्सवि कुमुदो देवो रायहाणी दाहिणपञ्च्चत्थिमेणं ५, एवं पलासे विदिसाहत्यिकूडे मंदरस्स उत्तरपच्चत्थिमेणं पञ्च्चत्थिमिल्लाए सीओआए उत्तरेणं एअस्सवि पलासो देवो रायहाणी उत्तरपञ्च्चत्थिमेणं ६ । एवं वडेंसे विदिसाहत्यिकडे मंदरस्स उत्तरपच्चत्थिमेणं उत्तरिल्लाए सीआए महानईए पञ्चत्थिमेणं एअस्सवि वडेंसो देवो रायहाणी उत्तरपञ्चत्थिमेणं, एवं रोअणागिरी दिसाहत्यिकूडे मंदरस्स उत्तरपुरत्थिमेणं उत्तरिल्लाए सीआए पुरत्थिमेणं एयस्सवि रोअणागिरी देवो रायहाणी उत्तरपुरत्थिमेणं । बृ. 'कहिण 'मित्यादि, क्व भदन्त ! मेरौ भद्रशालवने पद्मोत्तरो नाम दिगहस्तिकूटः प्रज्ञप्तः गौतम ! मन्दरस्यैशान्यां पौरस्त्यायाः - मेरुतः पूर्वदिग्वर्त्तिन्याः शीताया उत्तरस्यां, अनेनोत्तरदिगवर्त्तिन्याः शीताया व्यवच्छेदः कृतः, अत्रान्तरे पद्मोत्तरो नाम दिगहस्तिकूटः प्रज्ञप्तः, एशानवापीचतुष्कमध्यस्थप्रासादप्राच्यजिनभनवयोरन्तरालवर्त्तीत्यर्थः, अत एव दिगहस्तिकूटा अपि मेरुतः पञ्चाशदयोजनातिक्रम एव भवन्ति, प्रासादजिनभवनसमश्रेणिस्थितत्वात्, पञ्चयोजनशतान्यूवचत्वेन पञ्चगव्यूतशतान्युद्वेधेन एवमुच्चत्वन्यायेन विष्कम्भः, अत्र विभक्तिलोपः प्राकृतत्वात्, परिक्षेपश्च भणितव्यः, तथाहि - मूले पञ्चयोजनशतानि मध्ये त्रीणि योजनशतानि पञ्चसप्तत्यधिकानि उपरि अर्द्धतृतीयानि योजनशतानित्येवंरूपो विष्कम्भः, तथा मूले पञ्चदशयोजनशतानि एकाशीत्यधिकानि मध्ये एकादशयोजनशतानि षडशीत्यधिकानि किञ्चनानि उपरि सप्तयोजनशतान्येकनवत्यधिकानि किञ्चिदूनानीति परिक्षेपः प्रसादानांच एतद्वत्तिदेवसत्कानां तदेव प्रमाणमिति गम्य यत् क्षुद्रहिमवतकूटपतिप्रासादस्येति, अत्र बहुवचननिर्देशो वक्ष्यमाणदिगहस्तिकूटवर्त्तिप्रासादेष्वपि समानप्रमाणसूचनार्थं, पद्मोत्तरोऽत्र देवः, तस्य राजधानी उत्तरपूर्वस्यां उक्तविदिग्वर्त्तिकूटाधिपत्वादस्येति, अथ शेषेषु उक्तन्यायं प्रदक्षिणाक्रमेण दर्शयन्नाह- 'एव नीलवन्त' इत्यादि, व्यक्तं, नवरं एवमिति-पद्मोत्तरन्यायेन नीलवन्नाम्ना दिगहस्तिकूटः २ मन्दरस्य दक्षिणपूर्वस्यां पौरस्त्यायाः शीतायाः दक्षिणस्यां ततोऽयं प्राच्यजिनभवनाग्नेय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy