SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः-४ योजनस्येत्येवंविस्तारात् कन्दादारोहणे धरणीतले नवतिर्योजनानि दश चैकादशभागाः कथं त्रुटयेयुरिति, ननु मेखलाद्वये प्रत्येकं परितः पञ्चयोजनशतविस्तारयोर्नन्दनसौमनसवनयोः सद्भावात् प्रत्येक योजनसहस्रस्य युगपत् त्रुटि ततः किमित्येकादशभागपरिहाणि?, उच्यते, कर्णगत्या समाधेयमिति, का च कर्णगतिरिति चेत्, उच्यते, कन्दादारभ्य शिखरं यावदेकान्तऋजुरूपायां दवरिकायां दत्तायां यदपान्तराले कापि कियदाकाशं तत्सर्वं कर्णगत्या मेरोराभाव्यमिति मेरुतया परिकल्प्य गणितज्ञाः सर्वत्रैकादशभागपरिहाणि परिवर्णयन्ति, अयं चार्थ श्रीजिनभद्रगणिक्षमाश्रमणपूज्यैरपि विशेषण- वत्यां लवणोदधिधनगणितनिरूपणावसरे दृष्टान्तद्वारेण ज्ञापित एवेति। सम्प्रत्येतदगतवनखण्डवक्तव्यतामाह-'मन्दरेण मित्यादि, प्रश्नसूत्रं व्यक्तं, उत्तरसूत्रे चत्वारि वनानि प्रज्ञप्तानि, तद्यथा-भद्राः-सद्भूमिजातत्वेत सरलाः शालाः सालावा-तरुशाला यस्मिन्तभद्रशालभद्रसालं वा,अथवा भद्राःशाला-वृक्षायत्रतद्भद्रशालंनन्दयति-आनन्दयति देवादीनतिनन्दनंसुमनसां देवानामिदंसौमनसं देवोपभोग्यभूमिकासनादिमत्वात्पण्डते-गच्छति जिनजन्माभिषेकस्थानत्वेन सर्ववनेष्वतिशायितामिति णकप्रत्यये पण्डकं, इमानि चत्वार्यपि स्वस्थाने मेरंपरिक्षिप्यस्थितानि, आद्यवनं स्थानतः पृच्छति- 'कहिण', प्रश्नः प्राग्वत्, निर्वचनसूत्रे गौ०! धरणीतलेऽत्र मेरो भद्रशालवनंप्रज्ञप्तं, प्राचीनेत्यादि प्राग्वत्, सौमनसविधुप्रभगन्धमादनमाल्यवद्भिर्वक्षस्कारपर्वतैः शीताशीतोदाभ्यां च महानदीभ्यामष्टभागप्रविभक्तं-अष्टधाकृतं, तद्यथा-एको भागो मेरोः पूर्वतः १ द्वितीयोऽपरतः २ तृतीयो विद्युप्रभसौमनसमध्ये दक्षिणतः ३ चतुर्थो गन्धमादनमाल्यवन्मध्ये उत्तरतः ४ तथा शीतोदया उत्तरतो गच्छन्त्या दक्षिणखण्डं पूर्वपश्चिमविभागेन द्विधा कृतं ततो लब्धः पञ्चमो भागः५ तथा पश्चिमतो गच्छन्त्या पश्चिमखण्डं दक्षिणोत्तरविभागेन द्विधा कृतं ततो लब्धः षष्ठो भागः६ तथा शीतया महानद्या दक्षिणाभिमुखं गच्छन्त्या उत्तरखण्डं पूर्वपश्चिमभागेन द्विधा कृतं ततो लब्धः सप्तमो भागः७तथा पूर्वतो गच्छन्त्या पूर्वखण्डं दक्षिणोत्तरविभागेन द्विधा कृतं ततो लब्धोऽष्टमो भागः ८। मन्दरस्य पूर्वतः पश्चिमतश्च द्वाविंशतिर योजनसहस्राण्यायामेन, कथमिति चेत्, उच्यते, कुरुजीवा त्रिपञ्चाशदयोजनसहस्राणि, एकैकस्यांच वक्षस्कारगिरेर्मूले पृथुत्वं पञ्चयोज-नशतानि ततो द्वयोः शैलयोर्मूले पृथुत्वपरिमाणंयोजनसहर॑तस्मिन् पूर्वराशौ प्रक्षिप्ते जातानि चतुःपञ्चाशद् योजनसहस्राणि, तस्मान्मेरुव्यासे शोधिते शेषं चतुश्चत्वारिंशदयोजन सहस्राणि तेषामढ़ें द्वाविंशतिर्योजनसहस्राणिपूर्वतः पश्चिमतश्च भवन्ति, अथवेदमुपपत्यन्तरं-शीतावनमुखं २९२२ योजनानिअन्तरनदीषट्कं७५० योजनानि वक्षस्काराष्टकं ४००० योजनानि विजयषोडशकपृथुत्वं ३५४०६ योजनानि शीतोदावनमुखं २९२२ योजनानि एतेषां विस्तारसर्वाग्रमीलने षट्चत्वारिंशद् योजनसहमणि एतच्च लक्षप्रमाणमहाविदेहजीवायाः शोध्यते शेषं चतुःपञ्चशदयोजनसहस्राणि एतावद्भद्रशालवनक्षेत्रं तच्च मेरुसहितमिति धरणीतलसत्कदशयोजनसहस्रशोधने शेषं चतुश्चत्वारिंशदयोजनसहस्राणि तस्याद्धे एकैकपार्वे द्वाविंशतिर्योजनसहवाणीति, उत्तरतो दक्षिणतश्चार्द्धतृतीयानि योजनसतानि विष्कम्भेन, दक्षिणत उत्तरतश्च तद्भद्रशालयनमर्द्धतृतीययोजनशतानि यावद् देवकुरुत्तरकुरुषु प्रविष्टमित्यर्थः, अत एव देवकुरुमेरूत्तरकुरुव्यासरुद्ध For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy