SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/१९४ करणमिदं-ऊर्ध्वगतस्य यत्र योजनादौ विस्तारजिज्ञासा तस्मिन् योजनादिके एकादशभिर्भक्ते यल्लब्ध तस्मिन् कन्दविस्तारादपनीते यदवशिष्टं स तत्र प्रदेशे मेरुव्यासः, तथाहि-कन्दाघोजनलक्षमूर्ध्वं गतस्ततो योजनलक्षं ध्रियते तस्मिन्नेकादशभिर्भक्ते लब्धानि नवतिशतानि नवत्यधिकानियोजनानांदश चैकादशभागायोजनस्य अस्मिन् कन्दव्यासात दशयोजनसहस्राणि नवत्यधिकानि दश चैकादशभागायोजनस्येत्येवंपरिमाणादपनीयते शेषंयोजनसहनं, एतावानत्र प्रदेशे मेरूपरितलेव्यासः,अथवा योजनसहनमारूढस्ततोयोजनसहस्रएकादशभिर्भक्तेलब्धानि नवतियोजनानि दश चैकादशभागा योजनस्य अस्मिन् योजनसहनमारूढस्ततो योजनसहनं एकादशभिर्भक्ते लब्धानि नवतियोजनानि दश चैकादशभागा योजनस्य अस्मिन् पूर्वोक्तात् कदन्व्यासाच्छोधिते शेषं दशयोजनसहस्राणि एवमन्यत्रापि भाव्यं । अथ शिखरादवरोहे करणं, यथा मेरुशिखरादवपत्य यत्र योजनादौ विष्कम्भजिज्ञासा तस्मिन्योजनादिके एकादशभिर्भक्ते यल्लब्धततसहितं तत्रप्रदेशे मेरुव्यासमान, यथाशिखरायो जनलक्षमवतीर्णस्ततो लक्षे एकादशभिर्भक्ते लब्धानि नवतिशतानि नवत्यधिकानि दश चैकादशभागाः अस्मिन् योजनसहस्रप्रक्षेपेजातानि १००९०". इयान्कन्दे व्याप्तः, अथवा शिखरान- वनवतियोजनसहस्राण्यवतीर्णस्ततस्तेषामेकादशभिर्भागे हते लब्धानि नवहस्राणि तानि सहस्रसहितनि जातानि दशसहस्राणि एतावान् धरणीतले विस्तारः, एवमन्यत्रापि, अथ मेरौ मूलादारोहेमौलितोऽवरोहे चविष्कम्भविषयकहानिवृद्धिज्ञानार्थंकरणमिदं उपरितनाधस्तनयोर्विस्तारयोविश्लेषे कृते तयोर्मध्यवर्त्तिनापर्वतोच्छ्रयेण भक्ते यल्लब्धं साहानिवृद्धिश्च, तथाहिउपरितने विस्तारेयोजनसहनं अधस्तनाद्योजन १००९०"..इत्येवंरूपाच्छोधिते शेष ९०९० सवर्णनार्थं योजनराशिमेकादशगुणीकृत्य अधस्तना दश भागाः प्रक्षेप्याः जातं १०००००१..अस्य च भजनार्थं मध्यवर्तिनि पर्वतोच्छ्रये १००००० इत्येवंरूपे एकादशगुणे कृते जातं १०००००/,......अत्र छेदराशेरेकादश-गुणत्वाद्भागाप्राप्तौ उभयोर्लक्षणापवर्ते कृते जातं .. इयती प्रतियोजनं हानिर्वृद्धिश्च तथा इदमेव लब्धमर्थीकार्य एककस्या सम्भवात् छेद एव द्विगुणीक्रियते जातं इयं मेरोरेकस्मिन् पार्वे वृद्धिानिश्चेति। अथोच्चत्वपरिज्ञानाय करणमिदं-मेरोर्यत्र भूतलादौ प्रदेशे यो यावान् विस्तारः तस्मिन् मूलविस्ताराच्छोधिते यच्छेषं तदेकादशभिर्गुणितं सत् यावद् भवति तावत्प्रमाण उत्सेधः, तथाहि-शिखरव्यासो योजनसहनं तस्मिन् कन्दव्यासात् पूर्वोक्ताच्छोधिते शेषं नवतिसहस्रणि नवत्यधिकानि दश चैकादशभागा योजनस्येत्येतदात्मकं योजनराशिरेकादशभिर्गुण्यते जातं ९९९९० ये च दशैकादशभागास्तेऽपि एकादशभिर्गुण्यन्ते जातं ११० तस्यैकादशभिर्भागे हृते लब्धानि दश योजनानि पूर्वराशौ प्रक्षिप्यन्ते जातं योजनानां लक्षं, एतावदधोविस्तारोपरितनविस्तारयोरन्तरे उच्चत्वं, एवं मध्यभागादावप्युच्चत्वपरिमाणं भावनीयमिति। नन्विह कस्मादेकादशलक्षणः छेदः कस्माद्वा तेन शेषं गुण्यते ?, उच्यते, एकादशानां योजनानामन्ते एकं योजनं एकादशानां योजनशतानामन्ते एकं योजनशतं एकादशानां योजनसहस्रानामन्ते एक योजनसहनं त्रुटयति तत एकादशलक्षणः छेदः, तेनोच्चत्वपिज्ञानाय विस्तारशेषं गुण्यते, अन्यथा योजनानां दशसहस्राणि नवत्यधिकानि दश चैकादशभागा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy