SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः -४ ३५९ पुक्खरिणीओ भिंगा भिंगनिमा चेव, अंजणा अंजणप्पभा। पासायवडिंसओ सक्कस्स सीहासनं सपरिवार, उत्तरपुरस्थिमेणं पुक्खरिणीओ-सिरिकंता १ सिरिचंदार सरिमहिआ ३ चेव सिरिनिलया ४ । पासायवडिंसओ ईसानस्स सीहासणं सपरिवारंति मंदरे णं भंते ! पव्वए भद्दसालवने कइ दिसाहत्थिकूडा पं०?, गो० ! अट्ठ दिसाहस्थिकूडा पन्नत्ता, तंजहा इ. 'कहिणमित्यादि, प्रश्नःप्राग्वत्, उत्तरसूत्रे गौतम! उत्तरकुरूणांदक्षिणस्यांदेवकुरूणां उत्तरस्यांपूर्वविदेहस्य वर्षस्यपश्चिमायां पश्चिममहाविदेहस्य वर्षस्य पूर्वस्यांजम्बूद्वीपस्य द्वीपस्य बहुमध्यदेशभागे, अत्रान्तरे जम्बूद्वीपेद्वीपे मन्दरोनाम पर्वतःप्रज्ञप्तः, नवनवतियोजनसहस्राणि ऊर्वोच्चत्वेन एकंयोजनसहस्रमुढेधेन सर्वाग्रेण पूर्ण लक्षमित्यर्त, वक्ष्यमाणचूलासत्कानिचत्वारिंशघोजनानि त्वधिकानि, उच्छ्रयचतुर्थांशो भूम्यवगाहस्तु मेरुवर्जपर्वतेषु ज्ञेय इति, मूले-कन्दे दशयोजनसहस्रणिनवतिं च योजनानि दशचैकादशभागान् योजनस्य विष्कम्भेन एकादशरूपेण छेदेन क्रमादपचीयमानविष्कम्भोऽसौ धरणीतले समे भागेदशयोजनसहस्राणि विष्कम्भेन, मूलतो योजनसहनमूर्द्धगमनेमूलगतानिनवतियो० दशचएकादशभागायोजनस्यतुत्रुटुरित्यर्थः, तदनन्तरं मात्रया २ ऊर्ध्वगमने-उच्चत्वस्य योजनैकादशाशवृद्ध्या विष्कम्भस्य योजनैकादशांशहानिस्तथोच्चत्वैकादशयोजनवृद्ध्या विष्कम्भैकयोजनहानि एवमेकादशयोजनशतवृद्ध्या योजनशतहानि० तथा एकादशयोजनसहस्रवृद्ध्या योजनसहनहानि-रित्येवंरूपेण परिमाणेन परिहीयमाणः २ उपरितले-यत्र चूलिकाया उद्भवस्तत्र एक योजनसहस्रं विष्कम्भेन । समभूतलतोनवनवतियोजनसहस्राण्यर्ध्वगमनेपृथुत्वगतनवयोजनसहमणि तुत्रुटुरित्ययः, अथास्यपरिधिः-मूले एकत्रिंशद्योजनसहस्राणि नवचशतानि दशोत्तराणित्रींश्चैकादशभागान् योजनस्य परिक्षेपण, धरणीतले एकत्रिंसद्योजनसहस्राणि षट् च त्रयोविंशत्यधिकानि योजनशतानि परिक्षेपेण उपरितले त्रीणि योजनसहस्राणि एकं च द्वाषष्ट्यधिकं योजनशतं किञ्चिद्विशेषाधिकं परिक्षेपेण, अथाद्यपरिधिगणितं मूले विष्कम्भस्य सच्छेदत्वाद्विषममिति दर्श्यते-मूले विष्कम्भो दशयोजनसहस्राणि नवत्यधिकानि दश चैकादशभागा योजनस्य तत्र योजनराशावेकादशभागकरणार्थमेकादशभिर्गुणिते उपरितनदशभागक्षेपेचजाता एकादशभागा लक्षमेकादश च सहस्राणि ततोऽस्य राशेर्वर्गकरणे जातं एकको द्विकस्त्रिको द्विकः एककः षट् च शून्यानि ततोऽस्य दशभिर्गुणने जातानि सप्त सून्यानि अथास्य वर्गमूलानयने लब्धस्त्रिकः पञ्चक एककः शून्यमेकको द्विकः अथास्य योजन- करणार्थं ११ भागः लब्धं योजन ३१९१० अंश२,शेषं ५७५८५६७०२०२४, अर्द्धाभ्यधि-कत्वाद्रूपेदत्तेअंशाः३, समभूतलगतपरिधावपि ३१६२२ योजनानिअवशिष्टांशानाम-र्द्धाभ्यधिकत्वाद्रूपेदत्ते त्रयोविंशतिर्योजनानि, शिखरपरिधौ चार्द्धतो न्यूनत्वादशानांसूत्रे किंचिदधिकत्वं न्यवेदि, अत एव मूले विस्तीर्णो मध्ये संक्षिप्तः उपरि तनुकः ऊर्ध्वं मेखलाद्वयाविवक्षया उदस्तगोषुच्छाकारेण संस्थितः सर्वात्मना रलमयः, इदं च प्रायोवचनं, अन्यथा काण्डत्रयविवेचने आद्यकाण्डस्य पृथ्व्युपलशर्करावज्रमयत्वं तृतीयकाणेड जाम्बूनदमयत्वं च भणिष्यमाणं विरुणद्धि, शेषं प्राग्वत्। ___ अथात्र पद्मवरवेदिकाद्याह-'सेणंएगाए'इत्यादि, व्यक्तं, अत्र चारोहेऽवरोहे च इष्टस्थाने विस्तारादिकरणानि सूत्रेऽनुक्तान्यपि उत्तरग्रन्थे बहूपयोगानीति दर्श्यन्ते-तत्र कन्दादारोहे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy