________________
वक्षस्कार:- ४
३५७
६, गन्धिलो विजयोऽवध्या राजधानी देवो वक्षस्कारः ७, गन्धिलावती विजयोऽयोध्या राजधानी ८, एवं - उक्ताभिलापेन शीतोदाकृतविभागद्वयगतविजयादिनिरूपणेनेत्यर्थः मन्दरस्स् पाश्चात्यं पार्श्व भणितव्यामिति, अथात्र संग्रहमाह
'तत्थ ताव सीओओ' इत्यादि, विवृतप्रायं, नवरं तत्र संग्रहे विवक्षितव्ये तावदिति भाषाक्रमे अङ्केति पदैकदेशे पदसमुदायोपचारात् अङ्कावती, 'एवं पम्हेति' पक्ष्मावतीति, अथ द्वात्रिंशतोऽपि विजयानां नामानयनोपायमाह - 'एवं इत्य परिवाडी' इत्यादि, एवम् उक्तरीत्या अत्र - परिपाट्यां विभागचतुष्टयगतविजयानुपूर्व्या द्वी विजयौ कुटसहग्नामको भणितव्यौ, स्वस्वविजयविभेदकवक्षस्कारगिरितृतीयचतुर्थकूटस ध्शनामकावित्यर्थः, तथाहि
चित्रकूटवक्षस्कारे कूटचतुष्टयमध्ये आद्यं सिद्धायतनकूटं ततः स्ववक्षस्कारनामकं ततस्तृतीयं कंच्छनामकं चतुर्थं सुकच्छनामकं तेन कच्छसुकच्छविजयावित्यर्थः, एवं सर्वत्र भावनीयमिति, दिशि- प्राच्याद्याः विषरीतदिशो विदिशश्च भणितव्याः, यथा प्राच्याः प्रतीची उदीच्याचापाची, एवं दिविदिग्नियमः कार्य, तथाहि - कच्छो विजयः शीताया महानद्याः उत्तरस्यां नीलवतो वर्षधरस्य दक्षिणस्यां चित्रकूटसरलवक्षस्कारपर्वतस्य पश्चिमायां माल्यवतो गजदन्ताकारवक्षस्कारपर्वतस्य पूर्वस्वामिति, एवं सुकच्छादिषु विजयेष्वपि स्वस्वदिश्यवस्त्वनुसारेण तत्तद्दिगनियमः कार्य, एवं शीतोदामुखवनं च भणितव्यं तद्विभागतो दर्शयति-शीतोदायाः दाक्षिणात्यं चौत्तराहं चेति, अथ चतुर्थविभागगतविजयादिसंग्रहः
.
'सीओआए' इत्यादि, सम्प्रत्यनुक्तपूर्वं पाश्चात्यविभागद्वयगतान्तरनदीसंग्रहमाह - सीओओ' इत्यादि, प्राग्वत्, नवरं 'उत्तरिल्लविजयाण' इति औत्तराहविजयानां, 'अंतराउ 'त्ति अन्तरनद्यः 'ते लुग्वा' इत्यनेन उत्तरपदलोपः, यत्तु पूर्वविभागे विजयादिसंग्रहः प्राच्यविभागद्वयेऽन्तरनदीसंग्रहश्च नोक्तस्तत्र सूत्रकाराणां प्रवृत्तिविचित्र्यं हेतुर्व्यवच्छिन्नसूत्रता वेति ।
अत्र सरलवक्षस्कारकूटेषुनामव्यवस्थोपायमाह - 'इत्य परिवाडीए' इत्यादि, अत्र परिपाट्या अर्थाद्वक्षस्कारानुपूर्व्या द्वौ द्वौ कूटी विजयसदृशनामकौ भणितव्यौ, अयं भावः -- प्रतिवक्षस्कारं चत्वारि २ कूटानि, तत्राद्यद्वयं नियतं, तच् सूत्रकार एव व्यक्तीकरिष्यतीति, अपरं च द्वयमनियतं तत्र यो यो वक्षस्कारगिरियों यौ विजयौ विभजति तन्मध्ये यो यः पाश्चात्यो विजयस्तन्नामकं तस्मिन् वक्षस्कारे तृतीयं कूटं, यो यश्चाग्रिमो विजयसतन्नामकं चतुर्थं कूटं, द्वौ द्वौ चावस्थितौ कूटी, तद्यथा- एक सिद्धायतनकूटं द्वितीयं पर्वतसध्शनामकं कूटं वक्षस्कारसध्शनामकमित्यर्थः, कस्मिन्नपि वक्षस्कारे इमे नाम्नी न व्यभिचरत इत्यवस्थितौ, ननु सिद्धायतनकूटमवस्थितिमिति युक्तं पर्वतसगनामकं तु भिन्न २वक्षस्कारनामानुयायित्वेन कथमवस्थितमिति ?, उच्यते, पर्वतसगनामकत्वेन धर्मेणास्यावस्थितत्वं एताध्शधर्मस्य सर्वेष्वपि वक्षस्कारद्वितीयकूटेषु अव्यभिचारात्, न च तर्हि अपरकूटद्वयस्य विजयसमनामकत्वेन धर्मेणावस्थितत्वं भवतु, उक्तधर्मस्य सर्वत्राव्यभिचारात् इति वाच्यम्, विजयसमनामकस्य धर्मस्य द्वयोः कूटयोः साधारयेनान्यतरानिश्चयेन झटिति नामव्यवहारानुपपत्तेरिति । सम्प्रति महाविदेहवर्षस्य पूर्वापरविभागकारिणं मेरुं पृच्छन्नाह
मू. (१९४) कहि णं भंते! जंबुद्दीवे २ महाविदेहे वासे मंदरे नामं पव्वए पन्नत्ते ?,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International