SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः-४ ३५१ वृ. 'कहिण'मित्यादि, क्व भदन्त! जम्बूद्वीपेद्वीपे महाविदेहे वर्षेशीतामहानद्यादाक्षिणात्यं शीतामुखवनं शीतानिषधमध्यवर्तीत्यर्थः अतिदेशसूत्रत्वेनोत्तरसूत्रं स्वयं भाव्यं, परं वच्छस्य विजयस्य-विदेहद्वितीयभागाद्यविजयस्य पूर्वत इति । अथ द्वितीये महाविदेहविभागे विजयादिव्यवस्थामाह- 'कहिण मित्यादि, प्रश्नः सुलभः, उत्तरसूत्रे निषधस्य वर्षधरपर्वतस्योत्तरस्यां शीतायामहानद्या दक्षिणस्यां दाक्षिणात्यस्यशीतामुखवनस्यपश्चिमतःत्रिकूटस्य वक्षस्कारपर्वतस्य पूर्वस्यां अत्रान्तरे जम्बूद्वीपे महाविदेहे वर्षे वत्सो विजयः प्रज्ञप्तः, ससीमा राजधानी विजयविभाजकश्च त्रिकूटनामा वक्षस्कारपर्वतः १ सुवच्छो विजयः कुंडला राजधानी तप्तजलाऽन्तरनदी २ महावत्सो विजयः अपराजिता राजधानी वैश्रमणकूटो नाम वक्षस्काराद्रि ३, वत्सावती विजयः प्रभङ्करा राजधानी मत्तजला नदी ४, रम्यो विजयः अङ्कावती राजधानी अझनो वक्षस्कारः ५, रम्यको विजयः पक्ष्मावती राजपूः उन्मत्तजला महानदी ६ रमणीयो विजयः शुभा राजप:मातअनो वक्ष-स्काराद्रिः ७, मङ्गलावती विजयः रत्नसश्चया नगरी ८, सुलभसूत्रेशब्दसंस्कार एव विवरममिति, इमाश्च राजधान्यः शीतादक्षिणदिग्भाविराजधानीत्वेन विजयानामुत्तरार्द्धमध्यमखण्डेषुज्ञेयाः,अथविजयादीनांव्यासादिसाम्येदर्शितेऽपि केनचिप्रकारेण न पार्श्वयोः परस्परं भेदो भविष्यतीत्याशङ्कानिवृत्यर्थमाह ____ एवं जह'इत्यादिएवं-प्रागुक्तप्रकारेण यथैवशीताया महानद्या उत्तरं पार्श्व प्राच्यमिति शेषः तथैव दाक्षिणात्यं पावमिति शेषः भणितव्यं, अत्र विशेषणद्वारेण संग्रहमाह, किंविशिष्टमिदं पार्श्वम् ?-दाक्षिणात्यशीतामुखवनमादौ यत्र तद् दाक्षिणात्यशीतामुखवनादि, अनेन यथा प्रथमविभागस्य कच्छविजय आदिरुक्तस्तथा द्वितीयविभागस्य दाक्षिणात्यशीतामुखवनमादिरुक्तमिति, तथा इमे वक्ष्यमाणा वक्षस्कारकूटाः, कूटशब्देनाव कूटान्येषां सन्तीत्यभ्रादित्वादप्रत्यये कूटा:-पर्वताः, तद्यथा-त्रिकूटेत्यादि, विजयानां राजधानीनां च संग्रहाय पद्यमेकैकं, इमानि च संग्रहसूत्राणि सुखप्रतिपत्तिहेतुभूतानीति न पुनरुक्तिर्विभाव्या, अथ पूर्वसूत्राल्लब्धेऽपि वत्सविजयदिग्नियमे विचित्रत्वात् सूत्रप्रवृत्ते रीत्यन्तरमाह मू. (१७७) वच्छस्स विजयस्स निसहे दाहिणेणं सीआ उत्तरेणं दाहिणिलसीदामुहवणे पुरस्थिमेणं तिउडे पञ्चस्थिमेणं सुसीमारायहाणी पमाणंतंचेवेति, वच्छाणंतरंतिउडेतओ सुवच्छे विजए एएणं कमेणं तत्तजला नई महावच्छे विजए वेसमणकूडे वखारपब्बए वच्छावई विजए मत्तजला नई रम्मे विजए अंजणे वक्खारपब्बए रम्मए विजए उम्मतजला नई रमणिजे विजए मायंजणे वक्खारपब्बए मंगलावई विजए। वृ. 'वच्छस्स'इत्यादि, वत्स्यस्य विजयस्य निषधो दक्षिणेन तथा तस्यैव शीता उत्तरेणेत्यादि स्पष्टं, न चैवं निषधादयो लक्ष्याः लक्षणं वत्सविजयइति वाच्यं, लक्ष्यलक्षणभावस्य कामचारात्, प्रस्तुतेच प्रकरणबलात् वत्स एव लक्ष्यत इति, सुसीमा राजधानी प्रमाणंतदेव-अयोध्यासम्बन्धेयव, प्रमाणाभिधानाय राजधान्याः पुनरुपन्यासेन न पुनरुक्तिदोषः, अथैषां विजयादीनां स्थानक्रमदर्शनायाह-'वच्छाण'मित्यादि, सुगम, नवरंवत्सानन्तरं त्रिकूट: पश्चिमत इति बोध्यं, अन्यथा पूर्वतो दाक्षिणात्यशीतामुखवनस्य प्रतिपत्ति स्यादित्युक्तो द्वितीयो विदेहविभागः। अथ क्रमायातं गजदन्तगिरिं सौमनसाख्यं लक्षयितुमाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy