SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः - ४ ३४९ चवनमुखानि ततस्तदनुरोधात् वर्षधरसमीपे तेषां स्तोको विष्कम्भः शीताशीतोदासमपे तु भूयानिति, एषामिष्टस्थाने विष्कम्भपरिज्ञानाय सूत्रेऽनुक्तमपि प्रसङ्गगत्या करणमुच्यते-अतिक्रान्तं योजनादिकं गुरुपृथुत्वेन २९२२ इत्येवंरूपेण गुण्यते, गुणितश्च योजनराशि कलीकरणार्थमेकनोविंशत्या गुण्यते, तन्मध्ये च गुरुपृथुत्वगणितः कलाराशि प्रक्षिप्यते, ततः कलीकृतेन वनायामपरिमाणराशिना ह्रियते, ततो लभ्यते इष्टस्थाने वनमुखविष्कम्भः, यथा यथानिषधान्नीलवतो वा षोडशसहस्राणि पंच शतानि द्विनवत्यधिकानि योजनानां द्वे च कले इत्येतावद् गत्वा विष्कम्भो ज्ञातुमिष्टः तेनैष राशिम्रियते १६५९२ कला २, धृत्वा च एकोनत्रिंशच्छतैर्द्वाविंशत्यधिकैर्गुण्यते, जातो योजनराशि ४८४८१८२४, कलाद्वयमपि २९२२ अनेनैव गुण्यते जातः कलाराशि ५८४४, ततो योजनराशी ४८४८१८२४ सवर्णिते जातं ९२११५४६५६ ततः कलाराशि ५८४४ क्षेपे जातं ९२११६०५०० ततोऽस्य मुखवनायामेन १६५९२ सवर्णितेन कलाद्वययुक्तेन ३१५२५० भागे हते लब्ध इष्टस्थाने २९२२ योजनरूपो विष्कम्भः, एवमन्यत्रापि । अथास्य पद्मवरवेदिकादिवर्णनायाह - 'से णं एगाए पउ०' इत्यादि, तन्मुखवनमेकया पद्मवरवेदिकया एकेन च वनखण्डेन सम्परिक्षिप्तम् । अथ शीतामुखवनस्य वर्णको वाच्यः-- "किहे किण्होभासे' इत्यादि, कः कियत्पर्यन्तमित्याह - यावद्देवता आसते शेरते इत्यादि, अत्र विजयदिशि पद्मवरवेदिका गोपिका लवणदिशि तु जगत्येव गोपिका इत्येका, इयंच पद्मवरवेदिकां जगतीवन्मुखवनव्यास एवान्तर्लीना, यत्र तु वनव्यासः कलाप्रमाणस्तत्र विजयव्यासं रुणद्धीति तात्पर्य, अन्यथा विजयदिभिर्जम्बूदद्वीपस्य परिपूर्णलक्षपूर्तावुभयतो जगत्यादेः क्वाकाशः स्यात्, अत“अविवक्खिऊण जगई सवेइवणमुहचउक्क पिहुलत्तं । - 119 11 गुणतीस सयदुवी इंति गिरिअंति एगकला ।।" इति, अथोपसंहारमाह- 'एवं उत्तिरिल्लं' इत्यादि, एवं - विजयादिकथनेन उत्तरदिग्वर्त्ति पार्श्व समाप्तम्, प्राच्यमिति शेषः, प्राक् चतुर्विभागतयोद्दिष्टस्य विदेहक्षेत्रस्य प्राच्योत्तरपार्श्व विजयादिकथनापेक्षया पूर्ण निर्दिष्टमित्यर्थः । अथ प्रतिविजयमेकैकां राजधानीं निद्दि'शन्नाह - 'विजया' इत्यादि, विजया भणिताः, अत्र च भणितानामपि विजयानां यत्पुनर्भणनमुक्तं तद्राजधानीनिरूपणार्थं, राजधान्यश्चेमाः पद्यबन्धेन संगृह्णाति । मू. (१७२) खेमा १ खेमपुरा २ चेव, रिट्ठा ३ रिद्वपुरा ४ तहा। खग्गी ५ मंजूसा ६ अविअ, ओसही ७ पुंडरीगिणी ८ ॥ यू. कच्छविजयतः क्रमेण नामतो ज्ञेयाः, क्षेमा १ क्षेमपुरा २ अरिष्ठा ३ अरिष्ठपुरा ४ तथा खङ्गी ५ मंजूषा ६ अपि चेति समुच्चये औषधी ७ पुंडरीकिणी ८ इति एताः शीताया औदीच्यानां विजया नां दक्षिणार्द्धमध्यमखण्डेषु वेदितव्याः, अथैषु श्रेणिस्वरूपमाह पू. (१७३) सोलस विज्जाहरसेढीओ तावइआओ अभिओगसेढीओ सव्वाओ इमाओ ईसाणस्स, सव्वेसु विजएसु कच्छवत्तव्वया जाव अट्ठो रायाणो सरिसनामगा विजएसु सोलसण्हं वक्खारपव्वयाणं चित्तकूडवत्तव्वया जाव कूड़ा चत्तारि २ बारसण्हं नईणं गाहावइवत्तव्वया जाव उभओ पासिं दोहिं पउमवरवेइआहिं वनसंडेहि अ वण्णओ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy