SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ३४८ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/१७१ क्षस्कार:-'कहिणं० सर्वं स्पष्टं, नवरं पुष्कलार्वत्तः सप्तमो विजयः स एव चक्रवर्तिविजेतव्यत्वेन चक्रवर्तिविजय इत्युच्यते, एवंपुष्कलावतीचक्रवर्तिविजयोऽपिबोध्यः, सम्प्रत्यष्टमोविजयः ___ 'कहिणंभंते! महाविदेहे'इत्यादि, प्रकटार्थः, नवरंऔत्तराहस्यशीतामहानद्या मुखवनस्यअनन्तरसूत्रे वक्ष्यमाणस्वरूपस्यशीतामहानदीनीलवर्षधरमध्यवर्तिमुखवनस्यवनस्यपश्चिमायामित्यर्थः, दाक्षिणात्याच्छीतामुखवनादयं वायव्यां स्यादिति औत्तराहग्रहणमिति, अथानन्तरमेवोक्तं शीतामुखवनं लक्षयन्नाह- 'कहि णमित्यादि, क्व भदन्त ! महाविदेहे वर्षे शीताया महानद्या उत्तरदिग्वर्तिशीतायाः मुखे-समुद्रप्रवेशे वनं शीतामुखवनं निरस्तं, तथाहि-चत्वारि मुखवनानि-एकं शीतानीलवतोर्मध्ये १ द्वितीयं शीतानिषधयोः २ तृतीयं शीतोदानिषधयोः ३ चतुर्थं शीतोदानीलवतोः ४ एषां मध्ये आधस्यैव शीतात उत्तरेण दर्शनात्। गौतम! नीलवतो दक्षिणस्यांशीतायाउत्तरस्यांपौरस्त्यलवणसमुद्रस्य पश्चिमायांपुष्कलावतीचक्रवर्तिविजयस्य पूर्वस्यां अत्रान्तरे शीता मुखवनं नाम वनं प्रज्ञप्तम्, उत्तरदक्षिणायतेत्यादिविशेषणानि विजयवद्वाच्यानि, इह विजयवक्षस्कारगिर्यन्तरनद्यः सर्वत्र तुल्यविस्ताराःवनमुखानि तु निषधसमीपे नीलवत्समीपे चाल्पविष्कम्भानि शीताशीतोदोभयकूलपार्वे तु पृथुविष्कम्भानि जगत्यनुरोधात्, तथाहि-पूर्वस्यामपरस्यांचदिशि निषधानीलवतो वाऽऽरभ्य जगती वक्रगत्या शीतां शीतोदां वा प्राप्ता, जगतीसंस्पर्शवर्तीनि च मुखवनानि, ततस्तदनुरोधाद् दर्शयतिशीतामहानद्यन्ते द्वे योजनसहने नवच द्वाविंशत्यधिकानियोजनशतानि विष्कम्भेन, अत्रोपपत्ति प्राग्वत्, विजयवक्षस्काराद्यन्तरनदीमेरुपृथुत्वपूर्वापरभद्रशालवनायाममीलने जातानि९४१५६, अस्य राशेर्जम्बूद्वीपरिमाणात्शोधने शेषं ५८४४, अस्य शीताशीतोदयोरेकस्मिन् दक्षिणे उत्तरे वा भागे द्वे मुखवने इति द्वाभ्यां भागे हते आगतानि द्वाविंशत्यधिकान्येकोनत्रिंशद्योजनशतानि २९२२, अत्रो च तेवीसे इति पाठोऽशुद्धः, एतच्च पृथुत्वपरिमाणं न सर्वत्र शीताशीतोदयोर्मुखप्रत्यासत्तावेतत्करणावकाशादत्रैव महाविदेहवर्षस्य सर्वोत्कृष्टविस्तारलाभादित्याहतदनन्तरं च मात्रया २-अंशेनांशेन परिहीयमानं २-हानिमुपगच्छद् नीलवद्वर्षधरपर्वतान्ते एकमेकोनविंसतिभागंयोजनस्य विष्कम्भेन, एकां कलां यावत्पृथुत्वेनेत्यर्थः, 'कालाध्वनोव्यापता'वित्यनेन द्वितीया, अत्र करणं-मुखवनानां सर्वलधुर्विष्कम्भो वर्षधरपार्वे ततो वर्षधरजीवात इदं करणं समुत्तिष्ठति, तथाहि प्रस्तुते नीलवज्जीवा चतुर्नवतिसहस्राणि शतमेकं षट्पञ्चाशदधिकं योजनानां द्वे चैकोनविंशतिभागरूपे कले अथ पूर्वोक्तानि विजय १६ वक्षस्कारः ८ अन्तरनदी ६ गन्धमादन १ माल्यवत् १ गजदन्तपृथुत्वोत्तरकुरुजीवापरिमाणान्येकत्र मील्यन्ते,जातानि चतुर्नवतिसहस्राणि शतमेकंषट्पञ्चाशदधिकं एतस्मिन् प्रागुक्ताज्जीवापरिमा-णाच्छोधिते शेषं द्वेकले तत् एकस्मिन् दक्षिणे उत्तरे वा भागे शीताशीतोदासत्के द्वे वने इति द्वाभ्यां भज्यते आगतैका कला इति, ननु विजयवक्षस्कारादीनां सर्वत्र तुल्यविस्तारकत्वेन वनमुखानां च वर्षधरसमीपे एककलामात्रविष्कम्भकत्वेन सप्तदशकलाधिकैकोनत्रिंशद्योजनशतप्रमाणः शेषजम्बूद्वीपक्षेत्र- विभागः कुत्रान्तर्भावनीयः?,अत्रजगत्या वृत्तत्वेन सङ्कीर्णभूतत्वात् समाधेयं, अयमर्थः-पूर्वस्यामपरस्यां च दिशि निषधानीलवतो वा आरभ्य जगती वक्रगत्या शीताशीतोदे प्राप्ता, जगतीसंस्पर्शवर्तीनि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy