SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ३३४ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/१५९ पूर्वतश्चतुर्थं तथा पश्चिमदिग्भाविनो भवनस्य दक्षिणतो दक्षिणापरदिग्भाविनः प्रासादावतंसकस्योत्तरतः पञ्चमं तथा पश्चिमदिग्भाविनो भवनस्योत्तरतः उत्तरपश्चिमदिग्भाविनः प्रासादावतंसकस्य दक्षिणतः षष्ठं तथा उत्तरदिग्भाविनो भवनस्य पश्चिमायां उत्तरपश्चिमदिग्भाविनः प्रासादावतंसकस्य पूर्वतः सप्तमं तथा उत्तरदिग्भाविनो भवनस्य पूर्वतः उत्तरपूर्वदिग्भाविनः प्रासादावतंसकस्य अपरतोऽष्टममिति, अत्रैषां स्थापना यथा यन्त्रे तथा विलोकनीया, अथ जम्ब्वा नामोत्कीर्त्तनमाहमू. (१६०) सुदंसणा १ अमोहा २ य, सुप्पबुद्धा ३ जसोहरा ४ । विदेहजंबू ५ सोणसा ६, निअया ७ निचमंडिआ ८ ॥ मू. (१६१) सुभद्दा य ९ विसाला य १०, सुजाया ११ सुमणा १२ विआ । सुदंसणाए जंबूए, नामधेजा दुवालस ।। वृ. जम्ब्वाः सुदर्शनायाः द्वादश नामधेयानि प्रज्ञप्तानि तद्यथा - सुष्ठु - शोभनं नयनमनसोरानन्दकत्वेन दर्शनं यस्याः सा तथा, अमोघा - सफला, इयं हि स्वस्वामिभावेन प्रतिपन्ना सती जम्बूद्वीपाधिपत्यं जनयति, तदन्तरेण तद्विषयस्य स्वामिभावस्यैवायोगात्, सुष्ठु - अतिशयेन प्रबुद्धा- उत्फुल्ला उत्फुल्लफुल्लयोगादियमप्युत्फुल्ला, सकलभुवनव्यापकं यशो धरतीति यशोधरा, 'लिहादित्वादच्' जम्बूद्वीपो ह्यनया जम्ब्वा भुवनत्रयेऽपि विदितमहिमा ततः सम्पन्नं यथोक्तयशोधारित्वमस्याः, विदेहेषु जम्बूः विदेहजम्बूर्विदेहान्तर्गतोत्तरकुरुकृनिवासत्वात्, सौमनस्यहेतुत्वात् सौमनस्या, न हि तां पश्यतः कस्यापि मनो दुष्टं भवति, नियता सर्वकालमवस्थिता शाश्वतत्वात् नित्यमण्डिता सदा भूषणभूषितत्वात्, सुभद्रा - शोभनकल्याणभाजिनी, न ह्यस्याः कदाचिदुपद्रवसम्भवो महर्द्धिकेनाश्रितत्वात्, चः समुच्चये, विशाला - विस्तीर्णा, चः पूर्ववत्, आयामविष्कम्भाभ्यामुच्चत्वेन चाष्टयोजनप्रमाणत्वात्, शोभनं जातं - जन्म यस्यः सा सुजाता, विशुद्धमणिकनकरत्नमूलद्रव्यजनिततया जन्मदोषरहितेति भावः, शोभनं मनो यस्याः सकाशाद्भवति सा सुमनाः, अपि चेति समुच्चये, अत्र जीवाभिगमादिषु विदेहजम्ब्वादीनां सुदशर्नादीनां च नाम्ना व्यत्यासेन पाठो दृश्यते तत्रापि न कञ्चिद्विरोध इति । मू. (१६२) जंबूए णं अट्टमंगलगा०, से केणट्टेणं भंते! एवं बुच्चइ-जंबू सुदंसणा २ गोअमा ! जंबूए णं सुदंसणाए अनाढिए नामं जंबुद्दीवाहिवई परिवसइ महिद्धीए, से णं तत्य चउण्हं सामाणि असाहस्सीणं जाव आयरक्खदेवसाहस्सीणं, जंबुद्दीवरस णं दीवस्स जंबूए सुदंसणाए अणाढिआए रायहाणीए अन्नेसिं च बहूणं देवाण य देवीण य जाव विहरइ, से तेणट्टेणं गो० ! एवं बुचइ, अदुरुत्तराणं च णं गोअमा ! जंबूसुदंसणा जाव भुविं च ३ धुवा निअआ सासाया अक्खया जाव अवट्ठिआ। कहि णं भंते! अणाढिअस्स देवस्स अणाढिआ नामं रायहाणी पन्नत्ता ?, गोअमा ! जंबूद्दीवे मंदरस्स पव्वयस्स उत्तरेणं जं चेव पुव्ववण्णिअं जमिगापमाणं तं चेव नेअव्वं, जाव उववाओ अभिसेओ अ निरवसेसोत्ति । वृ. 'जंबू णं अट्ठट्ठमंगलगा' इति व्यक्तं, उपलक्षणाद् ध्वजच्छत्रादिसूत्राणि वाच्यानीति, सम्प्रति सुदर्शनाशब्दप्रवृत्तिनिमित्तं पिपृच्छिरिदमाह- 'सेकेणट्टेण' मित्यादि, प्रश्नः प्रतीतः, उत्तरसूत्रे गौतम ! जम्ब्वां सुदर्शनायामनाद्दतो नाम जम्बूद्वीपाधिपतिर्न आधता - आदरविषयीकृताः शेषजम्बूद्वीपगता देवा येनात्मनोऽनन्यसदेशं महर्द्धकत्वमीक्षमाणेन सोऽनाध्त इति यथार्थनामा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy