SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः - ४ ३३३ एवं शेषाषु दक्षिणपूर्वादिषु विदिक्षु वाप्यः प्रासादाश्च वक्तव्याः, एतासां नामदर्शनाय गाथाद्वयं । मू. (१५५) पउमा पउमप्पभा चेव, कुमुदा कुमुदप्पहा । उप्पलगुम्मा नलिना, उप्पला उप्पलुजला ॥। वृ. पद्मादयः प्रागुक्ताः पुनः पद्यबन्धबद्धत्वेन संगृहीता इति न पुनरुक्ति, एताश्च सर्वा अपि सत्रिसोपानचतुर्द्वाराः पद्मवरवेदिकावनखण्डयुक्ताश्च बोध्याः, अथ दक्षिणपूर्वस्यां उत्पलगुल्मा पूर्वस्यां नलिना दक्षिणस्यां उत्पलोज्ज्वला पश्चिमायां उत्पला उत्तरस्यां तथा अपरदक्षिणस्यां । मू. (१५६) भिंगा भिग्गप्पभा चेव, अंजणा कज्जलप्पभा । सिरिकंता सिरिमहिआ, सिरिचंदा चेव सिरिनिलया ॥ वृ. भृङ्गाभृङ्गप्रभा अञ्जना कजलप्रभा तथा अपरोत्तरस्यां श्रीकान्ता श्रीमहिता श्रीचन्द्रा श्रीनिलया, चैवशब्दः प्राग्वत्, अथास्य वनस्य मध्यवर्त्तीनि कूटानि स्वरूपतो लक्षयति नू. (१५७) जंबूए णं पुरथिमिल्लस भवणस्स उत्तरेणं उत्तरपुरत्थिमिल्लस्स पासायवडेंसगस्स दक्खिणेणं एत्थ णं कूडे पन्नत्ते अट्ट जोअणाई उद्धं उच्चत्तेगं दो जोअणाई उव्वेहेणं मूले अट्ठ जोअणाई आयामविक्खम्भेणं बहुमज्झदेसभाए छ जोअणाई आयामविक्खम्भेणं उवरिं चत्तारि जोणाई आयामविक्खम्भेणं वृ. 'जंबूए णं' इत्यादि, जम्ब्वा अस्मिन्नेव प्रथमे वनखण्डे पौरस्त्यंस्य भवनस्य उत्तरस्यां उत्तरपौरस्त्यस्य-ईशानकोणसत्कस्य प्रासादावतंसकस्य दक्षिणस्यां अत्रान्तरे कूटं प्रज्ञप्तं अष्टी योजनान्यूर्ध्वोच्चत्वेन द्वे योजने उद्वेधेन, वृत्तत्वेन य एव आयामः स एव विष्कम्भ इति, मूलेऽष्ट योजनान्यायामविष्कम्भाभ्यां बहुमध्यदेशभागे, भूमितश्चतुर्षु योजनेषु गतेष्वित्यर्थः, षड् योजनान्यायामविष्कम्भाभ्यां, उपरिशिखरभागे चत्वारि योजनान्यायामविष्कम्भाभ्यां, अथामीषां रिधिकथनाय पद्यमाहमू. (१५८) पणवीसद्वारस बारसेव मूले अ मज्झि उवरिं च । सविसेसाई परिरओ कूडस्स इमस्स बोद्धव्वो । वृ. 'पणवीसे' त्यादिकं सर्वं प्रथमपाठगतऋषभकूटाभिलापानुसारेण वाच्यं, नवरं पञ्चविंशतिं योजनानि सविशेषाणि किञ्चिदधिकानि मूले परिरय इत्यादि यथासंख्यं योज्यम्, जिनभद्रगणिक्षमाश्रमणैस्तु 'अट्ठसहकूडसरिसा सव्वे जम्बूनयामया भणिआ' । इत्यस्यां गाथायामृषभकूटसमत्वेन भणितत्वात् द्वादश योजनानि अष्टौ मध्ये चेत्यूचे, तत्वं तु बहुश्रुतगम्यं, एषु च प्रत्येकं जिनगृहमेकैकं विडिमागतजिनगृहतुल्यमिति । मू. (१५९) मूले विच्छिन्ने मज्झे संखित्ते उवरिं तणुए सव्वकणगामए अच्छे वेइआवनसंडवण्णओ, एवं सेसावि कूडा इति । जम्बूए णं सुदंसणाए दुवालस नामधेज्जा पं०, तं० वृ. अथ शेषकूटवक्तव्यतामतिदेशेनाह एवं सेसावि कूडा' इति, एवमुक्तरीत्या वर्णप्रमाणपरिध्याद्यपेक्षया शेषाण्यपि सप्त कूटानि बोध्यानि, स्थानविभागस्त्वयं तेषां तथाहि पूर्वदिग्भाविनो भवनस्य दक्षिणतो दक्षिणपूर्वदिग्भाविनः प्रासादावतंसकस्योत्तरतो द्वितीयं कूटं तथा दक्षिणदिग्भाविनो भवनस्य पूर्वतो दक्षिणपूर्वदिग्भाविनः प्रासादावतंसकस्य पश्चिमायां तृतीयं तथा दक्षिणदिग्भाविनो भवनस्य पश्चिमायां दक्षिणापरदिग्भाविनः प्रासादावतंसकस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy