SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ४/१५२ ३३२ , तेन नाधिकानि न न्यूनानीत्यर्थः चः प्राग्वत् । मू. (१५३) अणिआहिवाण पञ्चत्थिमेण सत्तेव होति जंबूओ । सोलस साहस्सीओ चउद्दिसिं आयरक्खाणं ।। वृ. अनीकाधिपजम्बूस्तृतीयपरिक्षेपजम्बूश्च गाथाबन्धेनाह - 'अणिआहिवाण' इत्यादि, अनीकाधिपाना - गजादिकटकाधीशानां सप्तानां सप्तैव जम्बूः पश्चिमायां भवन्ति, द्वितीयः परिक्षेपः पूर्णः । अथ तृतीयमाह - आत्मरक्षकानामनाध्तदेवसामानिकचतुर्गुणानां षोडशसहस्राणां जम्ब्वः एकैकदिक्षु चतुः सहस्र २ सद्भावात् षोडश सहस्राणि भवन्ति । मू. (१५४) जम्बूए णं तिहिं सइएहिं वनसंडेहिं सव्वओ समंता संपरिक्खित्ता, जंबूए णं पुरत्थिमेणं पन्नासं जोअणाई पढमं वनखंड ओगाहित्ता एत्थ णं भवणे पन्नत्ते कोसं आयामेणं सो चेव वण्णओ सयणिज्जं च, एवं सेसासुविदिसासु भवणा, जंबूए णं उत्तरपुरत्थिमेणं पढमं वनसण्डं पन्नासं जो अणाई ओगाहिता एत्थ णं चत्तारि पुक्खरिणीओ पन्नत्ताओ, तंजहा- पउमा १ पउमप्पभा २ कुमुदा ३ कुमुदप्पभा ४, ताओ णं कोसं आयामेणं अद्धकोसं विक्खम्भेणं पश्च- धनुस याई उव्वेहेणं वण्णओ तासि णं मज्झे पासायवडेंसगा कोसं आयामेणं अद्धकोसं विक्खंभेणं देसूणं कोसं उद्धं उच्चत्तमं वण्णओ सीहासणा सपरिवारा, एवं सेसासु विदिसासु, गाहा वृ. यद्यपि चानयोः परिक्षेपयोर्जम्बूनामुच्चत्वादिप्रमाणं न पूर्वाचार्यैश्चिन्तितं तथापि पद्महदपद्मपरिक्षेपन्ययेन पूर्वपूर्वपरिक्षेप जम्बवपेक्षयोत्तरोत्तरपरिक्षेपजम्ब्वोऽर्द्धमाना ज्ञातव्याः, अत्राप्येकैकस्मिन् परिक्षेपे एकैकस्यां पङ्क्तौ क्रियमाणायां क्षेत्रसाङ्गीण्येर्नानवकाशदोष- स्तथैवोद्भावनीयस्तेन परिक्षेपजातयस्तिस्रस्तथैव वाच्याः, सम्प्रत्यस्या एव वनत्रयपरिक्षेपान् वक्तुमाहसा चैवंपरिवारेति गम्यं, त्रिभि शतिकैः - योजनशतप्रमाणैर्वनखण्डैः सर्पतः सम्परिक्षिप्ताः, तद्यथा-अभ्यन्तरेण मध्यमेन बाह्येनेति, अथात्र यदस्ति तदाह - 'जंबूए ण' मित्यादि, जम्ब्वाः सपरिवारायाः पूर्वेण पञ्चाशदयोजनानि प्रथमवनखण्डमवगाह्यात्रान्तरे भवनं प्रज्ञप्तं, क्रोशमायामेन, उच्चत्वादिकथनायातिदेशमाह - सएव मूलजम्बूपूर्वशाखागतभवन सम्बन्धी वर्णको ज्ञेयः, शयनीयं ताना ध्तयोग्यं, एवं शेषास्वपि दक्षिणादिदिक्षु स्वस्वदिशि पञ्चाशद्योजनान्यवगाह्याद्ये वने भवनानि वाच्यानि, अथात्र वने वापीस्वरूपमाह 'जंबूए णं उत्तरे' त्यादि, जम्बवाः उत्तरपौरस्त्ये दिग्भागे प्रथमं वनखण्डं पञ्चाशदयोजनान्यवगाह्यात्रान्तरे चतनः पुष्करिण्यः प्रज्ञप्ताः, एताश्च न सूचीश्रेण्या व्यवस्थिताः किन्तु स्वविदिग्गतप्रासादं परिक्षिप्य स्थिताः तेन प्रादक्षिण्येन तन्नामान्येवं पद्मा पूर्वस्यां पद्मप्रभा दक्षिणस्यां कुमुदा पश्चिमायां कुमुदप्रभा उत्तरस्यां एवं दक्षिणपूर्वाविदिग्गतवापीष्वपि वाच्यं, ताश्च क्रोशमायामेन अर्द्धक्रोशं विष्कम्भेन पञ्चधनुःशतान्युद्वेधेनेति । " अथात्र वापीमध्यगतप्रासादस्वरूपमाह - 'तासि ण' मित्यादि, तासां वापीनां चतसृणां मध्ये प्रासादावतंसकाः प्रज्ञप्ताः, बहुवचनं च उक्तवक्ष्यमाणानां वापीनां प्रासादापेक्षया द्रष्टव्यं, तेन प्रतिवापीचतुष्कमेकैकप्रासादभावेन चत्वारः प्रासादाः, एवं निर्देशो लाघवार्थं, क्रोशमायामेनार्द्धक्रोशं विष्कम्भेन देशोनं क्रोशमुच्चत्वेन, वर्णको मूलजम्बूदक्षिणशाखागतप्रासादयद् ज्ञेयः, एषु चानाद्दतदेवस्य क्रीडार्थं सिंहासनानि सपरिवाराणि वाच्यानि, जीवाभिगमे त्वपरिवाराणि, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy