SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ ३२६ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/१४३ द्वियोजनप्रमाणणिपीठिकोपरिस्थितत्वेन पूर्वे महान्तो महेन्द्रध्वजास्तदपेक्षया इमौ च क्षुल्लावित्यर्थादागतमिति, तयोः क्षुल्लमहेन्द्रध्वजयोरेकैकराजधानीसम्बन्धिनोरपरेण पश्चिमायांचोप्पालो नाम प्रहरणक्रोशः-प्रहरणभाण्डागारं, तत्र बहूनि परिघरत्नप्रमुखाणियावत्पदात्प्रहरणरत्नानि सन्निक्षिप्तानि तिष्ठन्ति, 'सुहम्माण'मित्यदि, सुधर्मयोरुपर्यष्टाष्टमङ्गलकानि इत्यादि तावद्वक्तव्यं यावद् बहवः सहस्रपत्रहस्तकाः सर्वरलमया इत्यादि । सुधर्मसभातः परं किमस्तीत्याह-'तासि ण'मित्यादि, तयोः सुधर्मसभयोरुत्तरपूर्वस्यां दिशि द्वे सिद्धायतने प्रज्ञप्ते इति शेषः, प्रतिसभकैकसद्भावादिति, अत्र लाघवार्थमतिदेशमाह-एष एवु-सुधर्मासभोक्त एव जिनगृहानामपि गमः-पाठोऽवगन्तव्यः, स चायम् _ 'तेणंसिद्धाययनाअद्धतेरसजोअणाइंआयामेणंछस्सकोसाइविक्खम्भेणं नवजोअणाई उद्धं उच्चत्तेणं अनेगखम्भसयसण्णिविट्ठा' इत्यादि, यथा सुधर्मायास्त्रीणि पूर्वदक्षिणोत्तरवर्तीनि द्वाराणितेषांपुरतो मुखमण्डपाः तेषां च पुरतः प्रेक्षाण्डपाः तेषांपुरतः स्तूपाः तेषापुरतश्चैत्यवृक्षाः तेषांपुरतोमहेन्द्रध्वजाः तेषांपुरतोनन्दापुष्करिण्य उक्तास्तदनुसभायांषड्मनोगुलिकासहस्राणि षड् गोमानसीसहस्राण्युक्तानि एवमनेनैव क्रमेण सर्वं वाच्यम्, अत्र च सुधर्मातो यो विशेषस्तमाह-'नवरं इमंनाणत्तं'इत्यादि व्यक्तम्, अथ सुधर्मासभोक्तमेव सभाचुष्केऽतिदिशन्नाह ___ “एवं अवसेसाणवि'इत्यादि, एवं सुधर्मान्यायेन अवशिष्टानामुपपातसमादीनां वर्णनं ज्ञेयं, कियत्पर्यन्तमित्याह-यावदुपपातसभायां-उत्पित्सुदेवोत्पत्युपलक्षितसभायां शयनीयं वर्णनीयं तच्च प्राग्वत्, तथा हृदश्च वक्तव्यो नन्दापुष्करिणीमानः, सचोत्पन्नदेवस्य शुचित्वजलक्रीडादिहेतुः, ततोऽभिषेकसभायां-अभिनवोत्पन्नदेवाभिषेकमहोत्सवसथानभूतायां बहु आभिषेक्यंअभिषेकयोग्यं भाण्डं वाच्यं, तथा अलङ्कारसभायां-अभिषिक्तसुरभूषणपरिधानस्थानरूपायां सुबहु अलङ्कारिकभाण्डं-अलङ्कारयोग्यं भाण्डं तिष्ठति, व्यवसायसभयोः-अलंकृतसुरशुभाध्यवसायानुचिन्तन्थानरूपयोः पुस्तकरलेततो बलिपीठे अर्चनिकोत्तरकालं नवोत्पन्नसुरयोर्बलिविसर्जनपीठे द्वे योजने आयामविष्कम्भाभ्यां योजनं बाहल्येन यावत्पदात् 'सव्वरयनामया अच्छा पासाईआ४' ततोनन्दाभिधानेपुष्करिण्यौबलिक्षेपोत्तरकालंसुधर्मासभा जिगमिषतोरभिनवोत्पन्नसुरयोर्हस्तपादप्रक्षालनहेतुभूते, अतएव सूत्रे प्रथमोक्ते अपिनन्दापुष्करिण्यौप्रयोजनक्रमवशात् पश्चाद् व्याख्याते क्रमप्राधान्याद् व्याख्यानस्य, अथ यथा सुधर्मासभातः उत्तरपूर्वस्यां दिशि सिद्धायतनंतथा तस्योत्तरपूर्वस्यां दिशि उपपातसभा, एवं पूर्वस्मात् पूर्वस्मात्परंपरमुत्तरपूर्वस्यां वाच्ययावद्वलिपीठादुत्तरपूर्वस्यां नन्दापुष्करिणीति,अत्रच जमिगाओरायहाणीओ इत्यादिसूत्रेषु द्विवचनेन, 'तासिंजाव उप्पिं माणवए चेइअखम्भे' इत्यादिसूत्रेष्वेकवचन्ने निर्देशः सूत्रकाराणां प्रवृत्तिवैचित्र्यादिति । वर्णिते यमिकाभिधे राजधान्यौ, अनायरधिपयोर्यमकदेवयोरुत्पत्यादिस्वरूपख्यानाय विस्तरारुचि सूत्रकृत् संग्रहगाथामाहमू. (१४४) उववाओ संकप्पो अभिसेअविहूसणा य ववसाओ। अच्चणिअसुधम्मगमो जहा य परिवारणाइद्धी। वृ. 'उववाओ संकप्पो' इत्यादि, उपपातो-यमकयोर्दैवयोरुत्पत्तिर्वाच्या, ततः उत्पन्नयोः सुरयोःशुभव्यवसायचिन्तनरूपः सङ्कल्पः, ततोऽभिषेकः-इन्द्राभिषेकः, ततः विभूषणा-अलङ्कार Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy