________________
वक्षस्कारः-४
३२७
सभायामलङ्कारपरिधान, ततो व्यवसायः-पुस्तकदघाटनरूपः, ततः अनिका सिद्धायतनाचर्चा, ततः सुधर्मायां गमनं, यथा च परिवारणा-परिवारकरणं स्वस्वोक्तदिशि परिवारस्थापनं यथा यमकयोर्देवयोः सिंहासनयो।परितो वामभागे चतुःसहस्रसामानिकभद्रासनस्थापन सैव ऋद्धिसम्पतरूपनिष्पत्तिस्तु ‘णिज्बहुलंनाम्रः कृगादिषु' इत्यनेन करणार्थे 'निवेत्यासशरयघट्टनवन्देरनः' इत्यनेन चानप्रत्यये स्त्रलिङ्गीय आपप्रत्यये साधुः तथा वाच्यं जीवाभिगमादिभ्यः'। मू. (१४५) जावइयंमि पमाणमि हुँति जमगाओ णीलवंताओ।
तावइअमन्तरं खलु जमगदहाणं दहाणं च ।। वृ.अथयमकौद्रहाश्चयावतां अन्तरेण परस्परं स्थितास्तन्निर्णेतुमाह-'जावइयं'इत्यादि, यावति प्रमाणे अन्तरमाने नीलवतो यमकौ भवतः खलु-निश्चितं तावदन्तरं योजनसप्तभागचतुर्भागाभ्यधिकचतुस्त्रशदधिकाटशतयोजनरूपं यमकद्रहयोहाणां च बोध्यमिति शेषः, उपपत्तिस्तु प्राग्वत् । अथ येषां ह्रदानामन्तरमानमन्तरमुक्तं तान् स्वरूपतो निर्दिशति
मू. (१४६) कहि णं भंते ! उत्तरकूराए नीलवन्तद्दहे नामं दहे प० गो० जमगाणं दक्खिणिल्लाओ चरिमंताओ अहसे चोत्तीसे चत्तारि अ सत्तभाए जोअणस्स अबाहाए सीआए महानईए बहुमज्झदेसभाए एत्थ णं नीलवन्तद्दहे नामं दहे प० दाहिणउत्तरायए पाईणपडीणविच्छिण्णेजहेवपउमदहे तहेव वण्णओ नेअव्वो, नाणतं दोहिं पउमवरवेइआहिं दोहि यवनसंडेहिं संपरिखित्ते, नीलवंते नाम णागकुमारे देवे सेसं तं चैव नेअव्वं, नीलवंतदहस्स पुब्बावरे पासे दस २ जोअणाई अबाहाए एत्थ णं वीसं कंचणगपव्वया प०, एगंजोयणसयं उद्धं उच्चत्तेणं
वृ. 'कहि णमित्यादि, क्व भदन्त ! उत्तरकुरुषु २ नीलवदद्रहो नाम द्रहः प्रज्ञप्तः ?, गौतमयमकयोर्दाक्षिण्या च्चरमान्तादष्ट शतानिचतुस्त्रिंशदधिकानिचत्वारिच सप्तभागान्योजनस्य अबाधया कृत्वा इतिगम्यं,अपान्तराले मुक्त्वेति भावः,शीताया महानद्या बहुमध्यदेशभागेऽत्रान्तरे नीलवदद्रहोनामद्रहःप्रज्ञप्तः, दक्षिणोत्तरायतः प्राचीनप्रतीचीनविस्तीर्ण, पद्मद्रहश्चप्रागपरायतः उदगदक्षिणपृथुरिति पृथग्विशेषणं, यथैवपद्मद्रहे वर्णकस्तथैव नेतव्यः, नानात्वमिति विशेषोऽयं, द्वाभ्यां पद्मवरवेदिकाभ्यां द्वाभ्यां च वनखण्डाभ्या सम्परिक्षिप्तः, अयं भावः-पद्मद्रह एकया पद्मवरवेदिकया एकेन च वनखण्डेन परिक्षिप्तः,अयंतुप्रविशन्त्या निर्यान्त्याच शीतया महानद्या द्विभागीकृतत्वेनोभयोः पार्श्वयोवर्तिनीभ्यां वेदिकाभ्यां युक्त इति सम्यक्, अर्थश्च नीलवद्वर्षधरनिभानि तत्र तत्र प्रदशेषु शतपत्रादीनि सन्ति अथवा नीलवन्नामा नागकुमारो देवोऽत्राधिपतिरिति नीलवान् हद इति, शेषं पद्मादिकं तदेव नेतव्यं, पद्मद्रह इव पद्ममानसङ्ख्यापरिक्षेपादिकं ज्ञातव्यमित्यर्थः । अथ काञ्चनगिरिव्यवस्थामाह
नीलवदद्रहस्यपूर्वापरपार्श्वयोः प्रत्येकंदशदशयोजनान्यबाधया कृत्वेति गम्यं, आपन्तराले मुक्त्वेति भावः, अत्रान्तरे दक्षिणोत्तरश्रेण्यापरस्परंमूले सम्बद्धाः अन्यथा शतयोजनविस्तारानामेषां सहस्रयोजनमाने द्रहायामेऽवकाशासम्भव इति, विंशति काञ्चनकपर्वताः प्रज्ञप्ताः, एक योजनशतमूर्बोच्चत्वेन, गाथाद्वयेनैतेषां विष्कम्भप रिक्षेपावाहमू. (१४७) मूलंमि जोअणसयं पन्नत्तरि जोअणाई मज्झमि ।
___ उवरितले कंचनगा पन्नासं जोअणा हुंति॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org