SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ ३२२ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/१४३ राजप्रश्नीयादिषु प्रेक्षामण्डपमणिपीठिकातः स्तूपमणि पीठिकाया द्विगुणमानत्वेन ६ष्टत्वाच्चायं सम्यक् पाठः सम्भाव्यते, आदर्शेषु लिपिप्रमादस्तु सुप्रसिद्ध एव, अथ स्तूपवर्णनायाह- तासां मणिपीठाकानामुपरि प्रत्येकं २ स्तूपाः प्रज्ञप्ताः, जीवाभिगमादौ तु चैत्यस्तूपा इति, द्वे योजने ऊर्वोच्चत्वेन द्वे योजने आयामविष्कम्भाभ्यां व्याख्यातो विशेषप्रतिपत्ति रिति देशोन वे योजने आयामविष्कम्भाभ्या ग्राह्ये, अन्यथा मणिपीठिकास्तूपयोरभेद एव स्यात्, जीवाभिगमादौ तु सातिरेके द्वे योजने उच्चत्वमित्यर्थः, ते च श्वेताः, श्वेतत्वमेवोपमया द्रढयति-'संखदल'त्ति यावत्करणात् 'संखदलविमलनिम्मलदधियणगोखीरफेणरययनिअर्पगातासव्वरयनामयाअच्छा जाव पडिरूवा' इति प्राग्वत्, कियङ्करं ग्राह्यमित्याह-यावदष्टाष्टमङ्गलकानीति । अथ तच्चतुर्दिशियदस्तितदाह-'तासिणंथूभाण'मित्यादि, तेषां स्तूपानांप्रत्येकं चतुर्दिक्षु चतम्रोमणिपीठिकाः प्रज्ञप्ताः, ताश्चमणिपीठिकाःयोजनमायामविष्कम्भेनअर्द्धयोजनंबाहल्येन, अत्र जिनप्रतिमा वक्तव्याः, तत्सूत्रं चेदम्-'तासिणं मणिपेढिआणं उप्पि पत्तेअंपत्तेअंचत्तारि जिनपडिमाओ जिनुस्सेहप्पमाणमित्ताओ पलिअंकसण्णिसण्णाओ थूभाभिमुहीओ सण्णिखित्ताओचिट्ठति, तंजहा-उसमा वद्धमाणा चन्दानना वारिसेणा' इति, एतदवर्णनादिकंवैताये सिद्धायतनाधिकारेप्रागुक्तं, गताः स्तूपाः, चेइअरुक्खाण मित्यादि, व्यक्तम्, अत्र चैत्यवृक्षवर्णको जीवाभिगमोक्तो वाच्यः, स चायम्-'तेसिणचेइअरुक्खाणं अयमेआरूवे वण्णावासे पन्नत्ते, तं०-वरइमूलरययसुपइडिअविडिपा रिट्ठामयकंदवेरुलिअरुइलखंधा सुजायवरजायरूवपढमविसालसाला नानामणिरयणविविहसाहप्पसाहवेरुलिअपत्ततवणिजपत्तवेंटा जम्बूनयरतमउसअसुकुमालपवालपल्लववरंकुरधरा विचित्तमणिरयणसुरभिकुसुमफलभरणमिअसाला सच्छाया सप्पभाअस्सिरीआसउज्जोआ अमयरसमरसफला अहिअमणनयणणिव्वुइकरापासादीआजावपडिरूवा ४'इति, अत्रव्याख्या-तेषांचैत्यवृक्षानामयमेतद्रूपोवर्णावासः प्रज्ञप्तस्तद्यथा __वज्ररत्नमयानि मूलानि येषां ते वज्रमूला-तथा रजता-रजतमयी सुप्रतिष्ठिता विडिमाबहुमध्यदेशभागे ऊर्द्धविनिर्गता शाखा येषां ते तथा ततः पूर्वपदेन कर्मधारयः, रिष्ठरत्नमयः कन्दो येषां ते तथा तथा वैडूर्यरत्नमयो रुचिरः स्कन्धो येषां ते तथा ततः पूर्वपदेन कर्मधारयः, सुजातं-मूलद्रव्यशुद्धं वरं प्रधानं यज्जातरूपं-रूप्यं तदात्मिकाः प्रथमिका-मूलभूता विशालाः शालाः-शाखा येषांतेतथा, तथा वैडूर्याणि-वैडूर्यमयानिपत्राणि येषांतेतथा, तथा तपनीयानितपनीयमयानि पत्रवृन्तानि येषां ते तथा, ततः पूर्ववत् पदद्वयपदद्वयमीलनेन कर्मधारयः, जाम्बूनदा-जाम्बूनदनामकसुवर्णविशेषमया रक्तवर्णा मृदुसुकुमारा-अत्यन्तकोमलाः प्रवाला-ईषदुन्मीलितपत्रभावरूपाः पल्लवा-जातपूर्णप्रथमपत्रभावरूपावरांकुराः-प्रथममुद्भिद्यमानास्तान् धरन्ति ये ते तथा, विचित्रममिरत्नमयानि सुरभीणि कुसुमानि फलानि च तेषां भरेण नमिता नामं ग्राहिताः शाखा येषां ते तथा, सती-शोभना छाया येषां ते सच्छायाः, एवं सत्प्रभाः अत एव सश्रीकाः तथा सोयोताः मणिरत्नानामुदद्योतभावात्, अमृतरससमरसानि फलानि येषां ते तथा, अधिक नयनमनोनिवृतिकराः, शेषं प्राग्वत्। तेणंचेइअरुक्खा अन्नेहिं बहूहिं तिलयलवयछत्तोवगसिरीससत्तिवण्णलोद्दधवचंदननीवकुडयकयंबपण सतालतमालिआलपिअंगुपारावयरायरुक्खनन्दिरुक्खेहिं सब्बओसमन्ता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy