________________
वक्षस्कारः-४
३२३ संपरिक्खित्ता' इति, ते चैत्यवृक्षा अन्यैर्बहुभिस्तिलकसलवगच्छत्रोपगशिरीषसप्तपर्णदधिप
लोध्रधवचन्दननीपकुटजकदम्बप-नसतालतमालप्रियालप्रियंगुपारापताजवृक्षनन्दिवृक्षःसर्वतः समन्तात् सम्परिक्षिप्ताः, एतेच वृक्षाः केचिनामकोशतः केचिल्लोकतश्चावगन्तव्याः, ते णं तिलया जाव नंदिरुक्ख मूलवन्तो कंदवन्तो जाव सुरम्मा' ते च तिलकादयो वृक्षा मूलवन्तः कन्दवन्त इत्यादि वृक्षवर्णनं प्रथमोपा- ङ्गतोऽवसेयं यावत्सुरम्या इति, 'ते णं तिलया जाव नन्दिरुक्खा अन्नाहिं बहूहिं पउमलयाहिं जाव सामलयाहिं सव्वओ समन्ता संपरिक्खित्ता' तेच तिलकादयो वृक्षाः अन्याभिर्बहूभि पद्मलताभि- विच्छयामलताभि सर्वतः समन्तात् सम्परिक्षिप्ताः, यावच्छब्दादत्र नागलताचम्पकलताद्या ग्रह-णीयाः, 'ताओणं पउमलयाओ जाव सामलयाओ निच्चं कुसुमिआओ जाव पडिवाओ' ताश्च पद्मलताद्या नित्यं कुसुमिता इत्यादि लतावर्णनं यावप्रतिरूपाः, 'तेसिणं चेइअरुक्खाणं उप्पिं अमंगलया बहवे झया छत्ताइच्छत्ता, तेषां चैत्यवृक्षानामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजाः छत्रातिच्छत्राणीत्यादि चैत्यस्तूपकवद्वक्तव्यं । गताश्चैत्यवृक्षाः, अथ महेन्द्रध्वजावसरः
__ 'तेसिणं चेइअरुक्खाण मित्यादि, तेषां चैत्यवृक्षाणां पुरतस्तिस्र मणिपीठिकाः प्रज्ञप्ताः, ताश्चमणिपिठिकाः योजनमायामविष्कम्माभ्यांअर्द्धयोजनंबाहल्येन तासिणंउपिपत्तेइत्यादि, तासांमणिपीठिकानामुपरि प्रत्येकं २ महेन्द्रध्वजाः प्रज्ञप्ताः, ते चार्द्धष्टमानि-सार्द्धसप्तयोजनानि ऊर्बोच्चत्वेन अर्द्धक्रोशं-धनुःसहस्रमुद्वेधेन-उण्डत्वेन तदेव बाहल्येन, 'वइरामयवदृ'इतिपदोपलक्षितः परिपूर्णो जीवाभिगमायुक्तवर्णको ग्राह्यः, स चायम-'वइरामयवट्टलठ्ठसंठिअसुसिलिट्ठपरिघट्टमट्ठसुपइडिआ अनेगवरपञ्चवण्णकुडभीसहस्सपरिमण्डिआभिरामा वाउछुअविजयवेजयन्तीपडागाछत्ताइच्छत्तकलिआतुंगागगणतलमभिलंमाणसिहरापासादीआ जाव पडिरूवा'इति, अत्र व्याख्या-वज्रमयाः तथा वृत्तं-वर्तुलं लष्टं-मनोज्ञं संस्थितं-संस्थानं येषांतेतथातथासुश्लिष्टा यथा भवन्तिएवं परिघृष्टाइवखरशाणयापाषाणप्रतिमेवसुश्लिष्टपरिघृष्टाः तथा मृष्टा -सुकुमारशाणया पाषाणप्रतिमेव तथा सुप्रतिष्ठिताः-मनागप्यचलनात् तथा अनेकैवरैः-प्रधानैः पञ्चवर्ण कुडभीनां-लघुपताकानां सहस्रैः परिमण्डिताः सन्तोऽभिरामाः शेषप्राग्वत्, 'तेसिणंमहिंदज्झयाणंउपिंअट्टमङ्गलयाझया छत्ताइछता' इत्यादिसर्वतोरणवर्णक इव वाच्यं जीवाभिगमत इति ।
उक्ता महेन्द्रध्वजाः,अथपुष्करिण्यः ताश्च ‘वेइआवनसंड' इत्यादिपर्यन्तसूत्रेण संगृह्यते, तथाहि-'तेसि णं महिंदज्झयाणं पुरओ तिदिसिं तओ नंदा पुक्खरिणीओ पन्नताओ अद्धतेरसजोअणाइंआयामेणंछस्सकोसाइंजोअणाई विक्खम्भेणंदसजोअणाइंउववेहेणंअच्छाओ सण्हाओ पुक्खरिणीवण्णओ पत्तेअं २ पउमवरवेइआपरिक्खित्ताओ पत्तेअं२ वनसण्डपरिक्खित्ताओवण्णओं तथा तासिणंनन्दापुक्खरिमीणंपत्तेअं२ तिदिसिंतओतिसोवाणपडिरूवगा पन्नत्ता, तेसिणंतिसोवाणपडिरूवगाणंवण्णओतोरणवण्णओअभाणिअब्बोजावछत्ताइछत्ताई इति, अत्र जगतीगतपुष्करिणीवत् सर्वं वाच्यं, अथ सुधर्मसभायां यदस्ति तदाह
तासि नमित्यादि, तयोः सभयोः सुदर्मयोः षट् मनोगुलिकानां-पीठिकानां सहस्राणि प्रज्ञप्तानि, तथाहि-पूर्वस्यां द्वे सहस्र पश्चिमायां वे सहस्र दक्षिणस्यामेकं सहस्रं उत्तरस्यमेकं सहस्रं, 'जाव दामा' इत्यत्र यावत्पदादिदं ग्राह्यम् “तासु णंमणोगुलिआसुबहवे सुवण्णरुप्पमया फलगा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org