SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः - ४ जुत्ताओविव अच्चीसहस्समालणीआओ रूवगसहस्सकलिआओ भिसमाणीओ भिब्मिसमाणीओ चक्खुल्लो अणलेसाओ सुहफासाओ सस्सिरी अरूवाओ कंचणमणिरयणधूभिआगाओ नानाविहपंचवण्णघंटापडागपरिमंडिअ अग्गसिहराओ धवलाओ मरीइकवयविणिम्भु अंतीओ लाउल्लोइअमहिआओ गोसीसरस सुरभिरत्तचन्दणदद्दरदिष्णपंचंगुलितलाओ उवचि अचंदणकलसाओ चंदणघडसुकयतोरणपडिदुवारदेसभागाओ आसत्तोसत्तविउलवट्टवग्घारि अमल्लदामकलावाओ पंचवण्णसरससुरहिमुक्कपुप्फपुंजोवयारकलिआओ कालागुरुपवरकुंदुरुक्कतुरुक्कघूवडज्झतमघमधेंतगन्धुद्धआभिरामाओ सुगंधवरगंधिआओ गंधवट्टिभूआओ अच्छरगणसंघविकिण्णाओ दिव्वतुडिअसद्दसंपणदिआओ सव्वरयनामईओ अच्छाओ जाव पडिरूवाओ' इति अत्र व्याख्या तु सिद्धायतनतोरणादिवर्णकेषु उञ्छवृत्तिन्यायेन सुलभेति न पुनरुच्यते नवरं अप्सरोगणानां - अप्सरः परिवाराणां यः संघः-समुदायस्तेन सम्यक् - रमणीयतया विकीर्णाआकीर्णा दिव्यानां त्रुटिताना - आतोद्यानां ये शब्दास्तैः सम्यक् श्रोत्रमनोहारितया प्रकर्षेण नदिताशब्दवती, शेषं प्राग्वत्, अथास्यां कति द्वाराणीत्याह- 'तासिणं सभाण' मित्यादि, तयोः ससायोः सुधर्मयोस्त्रिदिशि त्रीणि द्वाराणि प्रज्ञप्तानि पश्चिमायां द्वाराभावात्, तानि द्वाराणि प्रत्येकं द्वे योजने ऊर्ध्वोच्चत्वेन योजनमेकं विष्कम्भेन तावदेव योजनमेकं प्रवेशेन, श्वेता इत्यादि पदेन सूचितः परिपूर्णो द्वारवर्णको वाच्यो यावद्वनमाला, अथ मुखमण्डपादिषनिरूपणायाह'तेसिणं दारण' मित्यादि, तेषा द्वाराणां पुरतः प्रत्येकं २ त्रयो मुखमण्डपाः प्रज्ञप्ताः समाद्वाराग्रवर्त्तिनो मण्डपा इत्यर्थः, ते च मण्डपा अर्द्धत्रयोदशयोजनान्यायामेन षट् सक्रोशानि योजनानि विष्कम्भेन सातिरेके द्वे योजने ऊर्ध्वोच्चत्वेन, एतेषामपि 'अनेगखंभसयसण्णिविट्ठा' इत्यादि वर्णनं सुधर्मासभा इव निरवशेषं द्रष्टव्यं यावद् द्वाराणां भूमिभागानां च वर्णनं, यद्यप्यत्र द्वारान्तमेव सभावर्णनं तदतिदेशेन मुखमण्डपसूत्रेऽपि तावन्मात्रमेवायाति तथापि जीवाभिगमादिषु मुखमण्डपवर्णके भूमिभागवर्णकस्य दृष्टत्वात् अत्रातिदेशः, अथ प्रेक्षामण्डपवर्णकं लाघवादाह- 'पेच्छाघरमण्डवाण' मित्यादि, प्रेक्षागृहमण्डपानां - रङ्गमण्डपानां तदेव --मुखमण्डपोक्तमेव प्रमाणं, भूमिभाग इतिपदेन सर्वं द्वारादिकभूमिभागपर्यन्तं वाच्यं, एषु च मणिपीठिका वाच्या, एतावदर्थसूचकमिदं सूत्रम् 7 13 21 Jain Education International 'सिणं मुहमण्डबाणं पुरओ पत्तेअं २ पेच्छाघरमंडवा पन्नत्ता, ते णं पेच्छावरमंडवा अद्धतेरसजो अणाई आयामेणं जाव दो जोअणाई उद्धं उच्चत्तेणं जाव मणिफासो, तेसि णं बहुमज्झदेसभाए पत्तेअं २ वइरामया अक्खाडयापन्नत्ता, तेसि णं बहुमज्झदेसभाए पत्तेअं २ मणिपेढि - आओ पन्नत्ताओ' त्ति उक्तप्रायं, नवरमक्षपाटः- चतुरस्राकारो मणिपीठिकाधारविशेषः, अस्याः प्रमाणाद्यर्थमाह- 'ताओ णं मणिपेढिआओ जोअणं आयामविक्खंभेणं अद्धजोअगं बाहल्लेणं सव्वमणिमईओ सीसाहणा भाणि अव्वा' इति, अत्र सिंहासनानि भणितव्यानि सपरिवाराणीत्यर्थः, शेषं व्यक्तम्, अथ स्तूपावसरः- तेषा प्रेक्षागृहमण्डपानां पुरती मणिपीठिकाः, अत्र बहुवचनं न प्राकृत शैलीभवं यथा द्विवचनस्थाने बहुवचनं हत्था पाया इत्यादिषु, किन्तु बहुत्वविवक्षार्थं, मात्र तिसृषु प्रेक्षागृहमण्डपद्वारदिक्षु एकैकसद्भावात् तिस्रो ग्राह्याः, अन्यत्र जीवाभिगमादिषु तथा दर्शनात्, अथैतासां मानमाह- 'ताओ ण' मित्यादि, कण्ठ्यं, यद्यप्येतत्सूत्रादर्शेषु 'जोअणं आयामवि खम्भेणं अद्धजोअणं बाहल्लेणं' इति पाठो दृश्यते तथापि जीवाभिगमपाठध्ष्टत्वेन ३२१ For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy