________________
३२०
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/१४३ पासायवडेंसएहिं सव्वओ समन्ता संपरिक्खित्ते' स प्रासादवतंसकोऽन्यैश्चतुर्भिः प्रासादावतंसकैस्तदोच्चत्वप्रमाणमात्रैः, अत्रोच्चत्वशब्देनोत्सेधोगृह्यतेप्रमाणशब्देनच विष्कम्भायामी, तेन मूलप्रासादापेक्षया अर्धोच्चत्वविष्कम्भायामैरित्यर्थः, सर्वतः समन्तात् सम्परिक्षिप्ताः, एषामुच्चत्वादिकं तु साक्षाद् सूत्रकृदेवाह-एकत्रिंशद्योजनानि-सार्द्धपञ्चदशयोजनानि विष्कम्भायामाभ्यामिति,अथ द्वितीयप्रासादपंक्ति, तत्पाठश्चैवम्-'तेणंपासायवडेंसयाअन्नेहि चउहिं तदद्धत्तप्पमाणमित्तेहिं पासायवडेंसएहिं सव्वओ समंता संपरिक्खित्ता' इति, ते प्रथमपंक्तिगताश्चत्वारः प्रासादाः प्रत्येकमन्यैश्चतुर्मिस्तदर्बोच्चत्वविष्कम्भायामैर्मूलप्रासादापेक्षया चतुर्भागप्रमाणैः प्रासादः परिक्षिप्ताः,अतएवैतेषोडशप्रासादाः सर्वसङ्ख्यया स्युः, एषामुञ्चत्वादिकं तु सूत्रकृदाह-ते प्रासादाः सातिरेकाणि-अर्द्धक्रोशाधिकानि सार्द्धपञ्चदशयोजनान्युनत्वेन सातिरेकाणि-क्रोशचतुर्यांशाधिकानि अर्धाष्टमयोजनान्यायामविष्कम्माभ्यामिति,
अथ तृतीया पंक्ति, तत्सूत्रमेवम्- 'तेणं पासायवडेंसया अन्नेहिं चउहिं चदद्भुच्चत्तपमाणमित्तेहिंपासायवडेंसएहिंसव्वओसमन्तासंपरिक्खित्ता' ते द्वितीयपरिधिस्ताः षोडश प्रासादाः प्रत्येकमन्यैश्चतुर्भिस्तदोच्चत्वविष्कम्भायामैर्मूलप्रासादापेक्षया-ऽष्टांशप्रमाणोन्मत्वविष्कम्भायामैः सर्वतः समन्तात् सम्परिक्षिप्ताः, अत एवैते तृतीयपंक्तिगताश्चतुःषष्टिप्रासादाः, एतेषामुञ्चत्वादिप्रमाणं सूत्रकृदाह-ते चतुःषष्टिरपि प्रासादाः सातिरेकाण्यर्धाष्टमयोजनांन्युश्चत्वेन सातिरेकत्वं चप्राग्वत्, अध्युष्टानि-अर्द्धतृतीयानिसातिरेकाणि साईक्रोशाष्टांशाधिकानि विष्कम्भायामाभ्यां, एषा सर्वेषां वर्णकः सिंहासनानि च सपरिवाराणि प्राग्वत् ।
अत्रच पंक्तिप्रासादेषुसिंहासनंप्रत्येकमेकैकं, मूलप्रासादेतुमूलसिंहासनंसिंहासनपरिवारोपेतमित्यादि क्षेत्रसमासवृत्तौ श्रीमलयगिरिपादाः तथा प्रथमतृतीयपंक्त्योर्मूलप्रासादे परिवारे भद्रासनानि द्वितीयपंक्तौ च परिवारे पद्मासनानिइति जीवाभिगमोपाङ्गेइत्यादि विसंवादसमाधानं बहुश्रुतगम्यम्, यद्यपिजीवाभिगमेविजयदेवप्रकरणेतथा श्रीभगवत्यङ्गवृत्तौ चमरप्रकरणेप्रासादपंक्तिचतुष्कतथाप्यत्र यमकाधिकारेपंक्तित्रयंबोध्यं,-मूलप्रासादेन सह सर्वसंख्ययापञ्चाशीति प्रासादाः , अथात्र सभापञ्चकं प्रपंचयितुकामः सुधर्मासभास्वरूपं निरपयति
"तेसिण'मित्यादि, तयोर्मूलप्रासादावतंसकयोरुत्तरपूर्वस्या ईशानकोणेऽत्रैतस्मिन् भागे यमकयोर्देवयोर्योग्ये सुधर्मेनाम सभेप्रज्ञप्ते, सुधर्माशब्दार्थस्तुसुष्टु-शोभनो धर्मो-देवानांमाणवकस्तम्भवतिजिनसक्थ्याशातनाभीरुकत्वेन देवाङ्गनाभोगविरतिपरिनामरूपो यस्यां सा तथा, वस्तुतस्तु सुष्टु-शोभनो धर्मोराजधर्मः समन्तुनिमन्तुनिग्रहानुग्रहस्वरूपो यस्यां सा तथा, ते चार्द्धत्रयोदशयोजनान्यायामेन सक्रोशानि षट योजनानि विष्कम्भेन नवयोजनान्यूर्वोच्चत्वेन, अत्रलाघवार्थसमावर्णकसूत्रमतिदिशति, अनेकस्तम्भशतसन्निविष्टेइत्यादिपदसूचितः सभावर्णको जीवाभिगभोक्तो ज्ञेयः, स चैवं
'अनेगखम्भसयसण्णिविट्ठाओ अब्भुग्गयसुकयवइरवेइआतोरणवररइअसालभंजिआसुसिलिट्ठविसिट्ठसंठिअपसत्थवेरुलिअविमलखंभाओ नानामणिकणगरयणखचिअउज्जलबहुसमसुभत्तभूमिभागाओ ईहामिगउसभतुरगणरमगरविहगवालगकिंनररुरुसरभचमरकुलरवणलयपउमलयभत्तिचित्ताओ खंभुग्गयवइरवेइआपरिगयाभिरामा विजाहरजमलजुअलर्जत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org