________________
वक्षस्कारः-४
३१३
वतीकूटाञ्चतुर्थं उत्तरकुरुकूटमुत्तरपश्चिमायां चतुर्थाच्च तृतीयं दक्षिणपूर्वस्यां तथा पञ्चमात् स्फटिककूटात्कथं दक्षिणपूर्वस्यांचतुर्थं कूटन सङ्गच्छते?, उच्यते, पर्वतस्य वक्रत्वेन चतुर्थकूटत एव दक्षिणपूर्वां प्रति वलनात् पञ्चमाञ्चतुर्थं दक्षिणस्यामिति, शेषाणि स्फटिककूटादीनि त्रीणि उत्तरदक्षिणश्रेणिव्यवस्थाया स्थितानि, कोऽर्थः ?
पंचमं चतुर्थस्योत्तरतः षष्ठस्य दक्षिणतः षष्ठं पंचमस्योत्तरतः सप्तमस्य दक्षिणतः सप्तमं षष्ठस्योत्तरत इति परस्परमुत्तरदक्षिणभाव इति, अत्र पंचशतयोजनविस्ताराण्यपि कूटान यत् क्रमहीयमानेऽपि प्रस्तुतगिरिक्षेत्रे मान्ति तत्र सहस्राङ्ककूटरीतिज्ञैया, अथैषामेवाधिष्ठातृस्वरूपं निरूपयति-' स्फटिककूटलोहिताक्षकूटयोः पंचमषष्ठयोर्भोगकराभोग-वत्यौ द्वे देवते-दिक्कुमारों वसतः, शेषेषु कूटसध्शनामका देवाः, षट्स्वपि प्रासादावतंसकाः स्वस्वाधिपतिवासयोग्याः, एषां च राजधान्योऽसङ्ख्याततमे जम्बूद्वीपे विदिक्षु उत्तरपश्चिमासु।
सम्प्रति नामार्थपिपृच्छिषुराह-'सेकेणडेण'इत्यादिप्रश्नसूत्रसुगम, उत्तरसूत्रे गन्धमादनस्य वक्षस्कारपर्वतस्य गन्धः स यथा नाम कोष्ठपुटानांयावत्पदात्तगरपुटादीनां संग्रहः पिष्यमाणानां वा-संचूर्ण्यमानानां उत्कीर्यमाणानां वा विकीर्यमाणानां वा परिमुज्यमानानां वा यावत्पदात् भाण्डात् भाण्डान्तरं वा संह्रियमाणानामिति, उदारा-मनोज्ञाः यावत्पदात् गन्धा इति कर्तृपदं, अभिनिसवन्ति, एवमुक्ते शिष्यः पृच्छति-भवेदेतद्रूपो गन्धमादनस्य गन्ध इति, भगवानाहनायमर्थः समर्थः, गन्धमादनस्य इतो-भवदुक्ताद्गन्धादिष्टतरक एवयावतकरणात्कान्ततरक एवोत्यादिपदग्रहः, निगमनवाक्ये तेनार्थेन गौतम एवमुच्यते, गन्धेन स्वयं माद्यतीव मदयति वा तन्निवासिदेवदेवीनां मनांसि इति गन्धमादनः, 'कृद्वहुल' मिति वचनात् कर्तर्यनटप्रत्ययः, 'धज्युपसर्गस्य वे' त्यत्र बहुलाधिकारदतिशायितादिवत्मकाराकारस्य दीर्घत्वमिति, गन्धमादननामा चात्र देवो महर्द्धिकः परिवसति, तेन तद्योगादिति नाम, अन्यत्सर्वंप्राग्वत्।।अथयासामुपयोगित्वेन गन्धमादनो निरूपितस्ता उत्तरकुरू निरूपयति
मू. (१४२) कहिणं भंते ! महाविदेहे वासे उत्तरकुरा नाम कुरा पं०, गो० ! मंदरस्स पव्वयस्स उत्तरेणं नीलवंतस्स वासहरपब्धयस्स दक्खिणेणं गंधमायणस्स वक्खारपव्वयस्स पुरथिमेणं मालवंतस्स वखारपव्वयस्स पचत्थिमेणं एत्य णं उत्तरकुरा नाम कुरा पन्नत्ता पाईणपडीणायया उदीणदाहिणवच्छिण्णा अद्धवंदसंठाणसंठआ इक्कारसजोअणसहस्साइंअट्ट य बायाले जोअणसए दोन्नि अ एगूणवीसइभाए जोअणस्स विक्खम्भेणंति।
तीसे जीवा उत्तरेणं पाईणपडीणायया तुदा वक्खारपव्ययं पुट्ठा, तंजहा-पुरथिमिल्लाए कोडीए पुरथिमिलं वक्खारपब्वयं पुट्ठा एवं पञ्चत्थिमिल्लाए जाव पञ्चथिमिल्लं वक्खारपव्वयं पुट्ठा, तेवन्नं जोअणसहस्साई आयामेणन्ति।
तीसे गं धनुं दाहिणेणं सद्धिं जोअणसहस्साइं चत्तारि अ अट्ठारसे जोअणसए दुवालस य एगूणवीसइभाएजोअणस्स परिक्खेवेणं,उत्तरकुराएणंभंते!केरिसएआयारभावपडोआरेप०?
गोयमा! बहुसमरमणिजे भूमिभागे पन्नते, एवंपुब्ववण्णिआजच्चेव सुसमसुसमावत्तब्बया सश्चेव नेअब्बा जाव पउमगंधा १ मिअगंधा २ अममा ३ सहा ४ तेतली ५ सणिचारी ६।।
वृ. 'कहि ण'मित्यादि, क्व भदन्त! महाविदेहे वर्षे उत्तरकुरवो नाम्ना कुरवः प्रज्ञप्ताः?,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org